०६२ शत्रुघ्न-नियोगः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः

मूलम्

विषयाः

च्यवनादिभिर् लवणासुर-दुर्वृत्तं निवेदितेन रामेण
लवण-मारणे नियोज्य-विचारणे
तं प्रति भरतेन निज-नियोजन-प्रार्थना ॥ १ ॥
शत्रुघ्नेन हेतूक्ति-पूर्वकं स्व-नियोजन-याचने
रामेण तद्-अङ्गीकारेण
लवण-मारण-निर्धारणेन
शत्रु-घ्नं प्रति लवण-राज्ये ऽभिषेक-स्वीकार-चोदना ॥ २ ॥

विश्वास-प्रस्तुतिः

तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥ १ ॥

व्याख्या

अथ शत्रुघ्नस्य लवणासुरवधार्थं प्रेषणं-तथेत्यादि ॥ १ ॥

विश्वास-प्रस्तुतिः

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ २ ॥
आहारः सर्वसवानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४ ॥
ततोन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ६ ॥
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातृन्त्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७ ॥

यथा ववृधे यादृगाहारादिना वर्धते स्म तथा निवेदयामासुः ॥ २-७ ॥

विश्वास-प्रस्तुतिः

को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ८ ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ९ ॥

कस्यांश इति पृष्ट्वा स्वयमेव निश्चिनोति भरतस्येति ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ १० ॥
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ११ ॥
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
संतापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ १२ ॥
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ १३ ॥
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुभूयेदृशं दुःखमेष राघवनन्दनः ॥
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ १४ ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ १५ ॥

आसनं हित्वा आसनादुत्थायेत्यर्थः ॥ १०-१५ ॥

विश्वास-प्रस्तुतिः

राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥

मूलम्

राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ १६ ॥

व्याख्या

निवेशय अत्रैव नगर इति शेषः । अथवा तत्रैव तिष्ठेति भावः । अवेक्षसे अक्लेशनीयत्वेनेति शेषः ॥ १६ ॥

विश्वास-प्रस्तुतिः

शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥

मूलम्

शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ १७ ॥

व्याख्या

निवेशने नूतनगृहनिर्माण इत्यर्थः ॥ १७ ॥

विश्वास-प्रस्तुतिः

[ नगरं यमुनाजुष्टं तथा जनपदाञ्शुभान् । ]
यो हि शत्रु समुत्पाट्य पार्थिवस्य पुनः क्षये ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ १८ ॥
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ ॥

मधोस्तु नगरे त्वामभिषेक्ष्यामीत्यत्र हेतुमाह-यो हीति ॥ नृपं तत्रेति । उत्पाटितवंशनृपराज्य इत्यर्थः ॥ १८-१९ ॥

विश्वास-प्रस्तुतिः

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥

मूलम्

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ २० ॥

व्याख्या

उत्तरं च न वक्तव्यमिति ॥ त्वत्समीप एव मया वस्तव्यमित्यादिकमित्यर्थः ॥ २० ॥

विश्वास-प्रस्तुतिः

अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठ प्रमुखैर्विप्रैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥

मूलम्

अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठ प्रमुखैर्विप्रैर्विधिमन्त्र पुरस्कृतम् ॥ २१ ॥

व्याख्या

विधिना मन्त्रेण च पुरस्कृतम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥