३ गृध्रोलूक-कथा

विश्वास-प्रस्तुतिः

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

मूलम्

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

गृध्रोलूकाख्यानम् ॥ १ ॥

अथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते ।
नदीकीर्णे गिरिवरे कोकिलानेककूजिते ॥ १ ॥
सिंहव्याघ्रसमाकीर्णे नानाद्विजगणावृते ।
गृध्रोलूकौ प्रवसतो बहुवर्षगणानपि ॥ २ ॥
अथोलूकस्य भवनं गृध्रः पापविनिश्चयः ।
ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत् ॥ ३ ॥
राजा सर्वस्य लोकस्य रामो राजीवलोचनः ।
तं प्रपद्यावहे शीघ्रं यस्यैतद्भवनं भवेत् ॥ ४ ॥
इति कृत्वा मतिं तौ तु निश्चयार्थं सुनिश्चिताम् ।
गृध्रोलकौ प्रपद्येतां कोपाविष्टौ ह्यमर्षितौ ॥ ५ ॥
रामं प्रपद्य तौ शीघ्रं कलिव्याकुलचेतसौ ।
तौ परस्परविद्वेषात्स्पृशतश्चरणौ तदा ॥ ६ ॥
अथ दृष्ट्वा नरेन्द्रं तं गृध्रो वचनमब्रवीत् ।
सुराणामसुराणां च प्रधानस्त्वं मतो मम ॥ ७ ॥
बृहस्पतेश्च शुक्राच्च विशिष्टोसि महाद्युते ।
परावरज्ञो भूतानां कान्त्या चन्द्र इवापरः ॥ ८ ॥
दुर्निरीक्ष्यो यथा सूर्यो हिमांश्चैव गौरवे ।
सागरश्चासि गाम्भीर्ये लोकपालो यमो ह्यसि ॥ ९ ॥
क्षान्त्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः ।
गुरुस्त्वं सर्वसंपन्नः कीर्तियुक्तश्च राघव ॥ १० ॥
अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः ।
शृणुष्व मम वै राम विज्ञाप्यं नरपुङ्गव ॥ ११ ॥
ममालयं पूर्वकृतं बाहुवीर्येण राघव ।
उलूको हरते राजंस्तत्र त्वं त्रातुमर्हसि ॥ १२ ॥
एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत् ॥ १३ ॥
सोमाच्छतक्रतोः सूर्याद्धनदाद्वा यमात्तथा ।
जायते वै नृपो राम किंचिद्भवति मानुषः ।
त्वं तु सर्वमयो देवो नारायण इवापरः ॥ १४ ॥
या च ते सौम्यता राजन्सम्यक्प्रणिहिता विभो ।
समं चरसि चान्विष्य तेन सोमांशको भवान् ॥ १५ ॥
क्रोधे दण्डे प्रजानाथ दाने पापभयापहः ।
दाता हर्तासि गोप्तासि तेनेन्द्र इव नो भवान् ॥ १६ ॥
अधृष्यः सर्वभूतेषु तेजसा चानलोपमः ।
अभीक्ष्णं तपसे लोकांस्तेन भास्करसन्निभः ॥ १७ ॥
साक्षाद्वित्तेशतुल्योसि अथवा धनदाधिकः ।
वित्तेशस्यैव पद्मा श्रीर्नित्यं ते राजसत्तम ॥ १८ ॥
धनदस्य तु कोपेन धनदस्तेन नो भवान् ।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ १९ ॥
शत्रौ मित्रे च ते दृष्टिः समतां याति राघव ।
धर्मेण शासनं नित्यं व्यवहारे विधिक्रमात् ॥ २० ॥
यस्य कृष्यसि वै राम तस्य मृत्युर्विधावति ।
गीयसे तेन वै राम यम इत्यतिविक्रमः ॥ २१ ॥
यश्चैष मानुषो भावो भवतो नृपसत्तम ।
आनृशंस्यपरो राजा सत्वेषु क्षमयाऽन्वितः ॥ २२ ॥
दुर्बलस्य त्वनाथस्य राजा भवति वै बलम् ।
अचक्षुषोत्तमं चक्षुरगतेः स गतिर्भवान् ॥ २३ ॥
अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक ।
ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप ।
त्वं हि देव मनुष्येषु शास्ता वै नरपुङ्गवः ॥ २४ ॥
एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम् ॥ २५ ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सचिवः सुमहाबलः ॥ २६ ॥
एते रामस्य सचिवा राज्ञो दशरथस्य च ।
नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः ।
प्रीतिमन्तः कुलीनाश्च नये मन्त्रे च कोविदाः ॥ २७ ॥
तानाहूय स धर्मात्मा पुष्पकादवतीर्य च ।
गृध्रोलूकविवादं तं पृच्छति स्म रघूत्तमः ॥ २८ ॥
कति वर्षाणि वै गृध्र तवेदं निलयं कृतम् ।
एतन्मे कारणं ब्रूहि यदि जानासि तत्त्वतः ॥ २९ ॥
एतच्छ्रुत्वा तु वै गृध्रो भाषते राघवं स तम् ॥ ३० ॥
इयं वसुमती राम मनुष्यैः परितो यदा ।
उत्थितैरावृता सर्वा तदाप्रभृति मे गृहम् ॥ ३१ ॥
उलूकश्चाब्रवीद्रामं पादपैरुपशोभिता ।
यदेयं पृथिवी राजंस्तदाप्रभृति मे गृहम् ॥ ३२ ॥
एतच्छ्रुत्वा तु रामो वै सभासद उवाच ह ॥ ३३ ॥
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मा यत्र न सत्यमस्ति न तरसत्यं यच्छलेनानुविद्धम् ॥ ३४ ॥
ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ॥ ३५ ॥
जानन्न वाऽब्रवीत्प्रश्नान्कामात्क्रोधाद्भयात्तथा ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ ३६ ॥
तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।
तस्मात्सत्येन वक्तव्यं जानता सत्यमञ्जसा ॥ ३७ ॥
एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा ।
उलूकः शोभते राजन्न तु गृध्रो महामते ॥ ३८ ॥
त्वं प्रमाणं महाराज राजा हि परमा गतिः ।
राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनः ॥ ३९ ॥
शास्ता नृणां नृपो येषां ते न गच्छन्ति दुर्गतिम् ।
वैवस्वतेन मुक्तास्तु भवन्ति पुरुषोत्तमाः ॥ ४० ॥
सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत् ।
श्रूयतामभिधास्यामि पुराणे यदुदाहृतम् ॥ ४१ ॥
द्यौः सचन्द्रार्कनक्षत्रा सपर्वतमहावना ।
सलिलार्णवसंपूर्णं त्रैलोक्यं सचराचरम् ।
एक एव तदा ह्यासीद्युक्तो मेरुरिवापरः ॥ ४२ ॥
पुरा भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत् ।
तां निगृह्य महातेजाः प्रविश्य सलिलार्णवम् ।
सुष्वाप देवो भूतात्मा बहून्वर्षगणानपि ॥ ४३ ॥
विष्णौ सुप्ते तदा ब्रह्मा विवेश जठरं ततः ॥ ४४ ॥
रुद्धस्रोतं तु तं ज्ञात्वा महायोगी समाविशत् ।
नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते ॥ ४५ ॥
स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः ।
सिसृक्षुः पृथिवीं वायुं पर्वतान्समहीरुहान् ॥ ४६ ॥
तदन्तरे प्रजाः सर्वांः समनुष्यसरीसृपाः ।
जरायुजोण्डजाः सर्वाः ससर्ज स महातपाः ॥ ४७ ॥
ततः श्रोत्रमलोत्पन्नः कैटभो मधुना सह ।
दानवौ तौ महावीर्यौ घोररूपौ दुरासदौ ॥ ४८ ॥
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टौ बभूवतुः ।
वेगेन महता तत्र स्वयंभुवमधावताम् ॥ ४९ ॥
दृष्ट्वा स्वयंभुवा मुक्तो रावो वै विकृतस्तदा ।
तेन शब्देन संग्राप्तौ दानवौ हरिणा सह ॥ ५० ॥
अथ चक्रप्रहारेण सूदितौ मधुकैटभौ ।
मेदसा प्लाविता सर्वा पृथिवी च समन्ततः ॥ ५१ ॥
भूयो विशोधिता तेन हरिणा लोकधारिणा ।
शुद्धां वै मेदिनीं तां तु वृक्षैः सर्वामपूरयत् ।
ओषध्यः सर्वसस्यानि निष्पद्यन्त पृथग्विधाः ॥ ५२ ॥
मेदोगन्धात्तु धरणी मेदिनीत्यभिसंज्ञिता ।
तस्मान्न गृध्रस्य गृहमुलूकस्येति मे मतिः ॥ ५३ ॥
तस्माद्गृध्रस्तु दण्ड्यो वै पापो हर्ता परालयम् ।
पीडां करोति पापात्मा दुर्विनीतो महानयम् ॥ ५४ ॥
अथाशरीरिणी वाणी अन्तरिक्षात्प्रबोधिनी ।
मा वधी राम ग्रुधं तं पूर्वदग्धं तपोबलात् ॥ ५५ ॥
काले गौतमदग्धोऽयं प्रजानाथो धनेश्वरः ।
ब्रह्मदत्तस्तु नाम्नैष शूरः सत्यव्रतः शुचिः ॥ ५६ ॥
गृहं त्वस्यागतो विप्रो भोजनं प्रत्यमार्गत ।
साग्रं वर्षशतं चैव भोक्तव्यं नृपसत्तम ॥ ५७ ॥
ब्रह्मदत्तः स वै तस्य पाद्यमर्घ्यं स्वयं नृपः ।
हार्दं चैवाकरोत्तस्य भोजनार्थं महाद्युतेः ।
मांसमस्याभवत्तत्र आहारे तु महात्मनः ॥ ५८ ॥
अथ क्रुद्धेन मुनिना शापो दत्तोस्य दारुणः ।
गृध्रस्त्वं भव वै राजन्मामैनं ह्यथ सोब्रवीत् ॥ ५९ ॥
[ प्रसादं कुरु धर्मज्ञ अज्ञानान्मे महाव्रत ।
शापस्यान्तं महाभाग क्रियतां वै ममानघ ॥ ६० ॥
तदज्ञानकृतं मत्वा राजानं मुनिरब्रवीत् ॥ ६१ ॥ ]
उत्पत्स्यति कुले राज्ञां रामो नाम महायशाः ।
इक्ष्वाकूणां महाभागो राजा राजीवलोचनः ।
तेन स्पृष्टो विपापस्त्वं भविता नरपुङ्गवः ॥ ६२ ॥
स्पृष्टो रामेण तच्छ्रुत्वा नरेन्द्रः पृथिवीपतिः ।
गृध्रत्वं त्यक्तवान्राजा दिव्यगन्धानुलेपनः ।
पुरुषो दिव्यरूपोऽभूदुवाचेदं च राघवम् ॥ ६३ ॥
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो ।
विमुक्तो नरकाद्धोराच्छापस्यान्तः कृतस्त्वया ॥ ६४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठेतृतीयः सर्गः ॥ ३ ॥