विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
मूलम्
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
व्याख्या
श्रीरामेण कार्य-निवेदनं चोदितेन शुना
तं प्रत्य्-अनपराधे ऽपि निज-मूर्धनि
सर्वार्थ-सिद्ध-नामक-भिक्षु-कृत–दण्ड-प्रहार-निवेदनम् ॥ १॥
रामेण निज-दूतानीतं यतिं प्रति सारमेय-शिरस्-ताडन-हेतु-प्रश्नः ॥ २ ॥
भिक्षुणा तं प्रति क्षुधातुरतया क्रुद्धेन स्वेन
रथ्या-स्थिते दूरानपसारिणि सारमेये दण्ड-प्रहरणाङ्गीकरण-पूर्वकं
स्वस्य समुचित-शिक्षा-प्रार्थना ॥ ३ ॥
वसिष्ठादिभिः सह शिक्षा-विचार-परे सति रामे
तं प्रति शुना
तस्य कालञ्जर-पुरे देवालये कुल-पतित्वे ऽभिषेचन-रूप-शिक्षा-विधानोक्तिः ॥ ४ ॥
रामेण भिक्षोः कुल-पतित्वे ऽभिषेचन-पूर्वकं
गज-स्कंधारोपणेन कालञ्जर-प्रापणम् ॥ ५ ॥
शिक्षार्हे भिक्षौ वर-दान-विस्मितामात्यादीन् प्रति
शुना राम-चोदनया
स्वस्य सारमेयत्व प्राप्तेर् जन्मान्तरीय-स्वीय-कुलपतित्व-हेतुकत्वोक्तिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा रामस्य वचनं लक्ष्मणस्त्वरितस्तदा ।
श्वानमाहूय मतिमान्राघवाय न्यवेदयत् ॥ १ ॥
दृष्ट्वा समागतं श्वानं रामो वचनमब्रवीत् ।
विवक्षितार्थं मे ब्रूहि सारमेय न ते भयम् ॥ २ ॥
अथापश्यत तत्रस्थं रामं श्वा भिन्नमस्तकः ।
[ ततो दृष्ट्वा स राजानं सारमेयोऽब्रवीद्वचः ॥ ३ ॥
राजैव कर्ता भूतानां राजा चैव विनाशकः । ]
राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ॥ ४ ॥
राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता ।
राजा कालो युगं चैव राजा सर्वमिदं जगत् ॥ ५ ॥
नीत्या सुनीतया राजा धर्मं रक्षति रक्षिता ।
यदा न पालयेद्राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ ६ ॥
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ।
यस्माद्धारयते सर्वं त्रैलोक्यं सचराचरम् ॥ ७ ॥
धारणाद्धि द्विषां चैत्र धर्मेणारञ्जयन्प्रजाः ।
तस्माद्धारणमित्युक्तं स धर्म इति निश्चयः ॥ ८ ॥
एष राजन्परो धर्मः फलवान्प्रेत्य राघव ।
न हि धर्माद्भवेत्किञ्चिद्दुष्प्रापमिति मे मतिः ॥ ९ ॥
दानं दया सतां पूजा व्यवहारेषु चार्जवम् ।
एष राम परो धर्मो रक्षणात्प्रेत्य चेह च ॥ १० ॥
त्वं प्रमाणं प्रमाणानामसि राघव सुव्रत ।
विदितश्चैव ते धर्मः सद्भिराचरितस्तु वै ॥ ११ ॥
धर्माणां त्वं परं धाम गुणानां सागरोपमः ।
अज्ञानाच्च मया राजन्नुक्तस्त्वं राजसत्तम ।
प्रसादयामि शिरसा न त्वं क्रोद्धुमिहार्हसि ॥ १२ ॥
शुनकस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ।
किं ते कार्यं करोम्यद्य ब्रूहि विस्रब्ध माचिरम् ॥ १३ ॥
रामस्य वचनं श्रुत्वा सारमेयोऽब्रवीदिदम् ।
धर्मेण राष्ट्रं विन्देत धर्मेणैवानुपालयेत् ॥ १४ ॥
धर्माच्छरण्यतां याति राजा सर्वभयापहः ।
इदं विज्ञाय यत्कृत्यं श्रूयतां मम राघव ॥ १५ ॥
भिक्षुः सर्वार्थसिद्धश्च ब्राह्मणावसथे वसन् ।
तेन दत्तः प्रहारो मे निष्कारणमनागसः ॥ १६ ॥
एतच्छ्रुत्वा तु रामेण द्वास्थः संप्रेषितस्तदा ।
आनीतश्च द्विजस्तेन सर्वसिद्धार्थकोविदः ॥ १७ ॥
अथ द्विजवरस्तत्र रामं दृष्ट्वा महाद्युतिः ।
किं ते कार्यं मया राम तद्ब्रूहि त्वं ममानघ ॥ १८ ॥
एवमुक्तस्तु विप्रेण रामो वचनमब्रवीत् ।
त्वया दत्तः प्रहारोऽयं सारमेयस्य वै द्विज ।
किं तवापकृतं विप्र दण्डेनाभिहतो यतः ॥ १९ ॥
क्रोधः प्राणहरः शत्रुः क्रोधो मित्रमुखो रिपुः ।
क्रोधो ह्यसिर्महातीक्ष्णः सर्वं क्रोधोपकर्षति ॥ २० ॥
तपते यजते चैव यच्च दानं प्रयच्छति ।
क्रोधेन वै संहरति तस्मात्क्रोधं विसर्जयेत् ॥ २१ ॥
इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम् ।
कुर्वीत वृत्या सारथ्यं संहृत्येन्द्रियगोचरम् ॥ २२ ॥
मनसा कर्मणा वाचा चक्षुषा च समाचरेत् ।
श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते ॥ २३ ॥
न तत्कुर्यादसिस्तीक्ष्णः सर्वो वा व्याहतस्तथा ।
अरिर्वा नित्यसंक्रुद्धो यथाऽऽत्मा दुरनुष्ठितः ॥ २४ ॥
विनीतविनयस्यापि प्रकृतिर्न विधीयते ।
प्रकृतिं गृहमानस्य निश्चये प्रकृतिर्ध्रुवम् ॥ २५ ॥
एवमुक्तः स विप्रो वै रामेणाक्लिष्टकर्मणा ।
द्विजः सर्वार्थसिद्धस्तु अब्रवीद्रामसन्निधौ ॥ २६ ॥
मया दत्तः प्रहारोऽयं क्रोधेनाविष्टचेतसा ।
भिक्षार्थमटमानेन काले विगतभैक्षके ॥ २७ ॥
रथ्यास्थितः स्वयं वा वै गच्छ गच्छेति भाषितः ।
अथ स्वैरेण गच्छंस्तु रथ्यान्ते विषमं स्थितः ॥ २८ ॥
क्रोधेन क्षुधयाऽऽविष्टस्तदा दत्तोस्य राघव ।
प्रहारो राजराजेन्द्र शाधि मामपराधिनम् ।
त्वया शस्तस्य राजेन्द्र नास्ति मे नरकाद्भयम् ॥ २९ ॥
अथ रामेण संपृष्टाः सर्व एव सभासदः ।
किं कार्यमस्य वै ब्रूत दण्डो वै कोनु पात्यताम् ।
सम्यक्प्रणिहिते दण्डे प्रजा भवति रक्षिता ॥ ३० ॥
भृग्वाङ्गिरसकुत्साद्या वसिष्ठश्च सकाश्यपः ।
धर्मपालकमुख्याश्च सचिवा नैगमास्तथा ।
एते चान्ये च बहवः पण्डितास्तत्र संगताः ॥ ३१ ॥
अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः ।
ब्रुवते राघवं सर्वे राजधर्मेषु निष्ठिताः ॥ ३२ ॥
अथ ते मुनयः सर्वे राममेवाब्रुवंस्तदा ॥ ३३ ॥
राजा शास्ता हि सर्वस्य त्वं विशेषेण राघव ।
त्रैलोक्यस्य भवाञ्छास्ता देवो विष्णुः सनातनः ॥ ३४ ॥
एवमुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत् ॥ ३५ ॥
यदि तुष्टोसि मे राम यदि देयो वरो मम ।
प्रतिज्ञातं त्वया वीर किं करोमीति विश्रुतम् ॥ ३६ ॥
प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं धराधर ।
कालंचरे महाराज कौलपत्यं प्रदीयताम् ॥ ३७ ॥
एतच्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः ।
प्रययौ ब्राह्मणो हृष्टो गजस्कन्धेन सोर्चितः ॥ ३८ ॥
अथ ते रामसचिवाः स्मयमाना वचोऽब्रुवन् ।
वरोऽयं दत्त एतस्य नायं शापो महाद्युते ॥ ३९ ॥
एवमुक्तस्तु सचिवै रामो वचनमब्रवीत् ।
न यूयं नीतितत्त्वज्ञाः श्वा वै जानाति कारणम् ॥ ४० ॥
अथ पृष्टस्तु रामेण सारमेयोऽब्रवीदिदम् ।
अहं कुलपतिस्तत्र आसं शिष्टान्नभोजनः ॥ ४१ ॥
देवद्विजातिपूजायां दासीदासेषु राघव ।
संविभागी शुभरतिर्देवद्रव्यस्य रक्षिता ॥ ४२ ॥
विनीतः शीलसंपन्नः सर्वसत्वहिते रतः ।
सोहं प्राप्त इमां घोरामवस्थामधमां गतिम् ॥ ४३ ॥
एवं क्रोधान्वितो विप्रस्त्यक्तधर्माऽहिते रतः ।
क्रुद्धो नृशंसः परुष अविद्वांश्चाप्यधार्मिकः ॥ ४४ ॥
कुलानि पातयत्येव सप्त सप्त च राघव ।
तस्मात्सर्वास्ववस्थासु कौलपत्यं न कारयेत् ॥ ४५ ॥
यमिच्छेन्नरकं नेतुं सपुत्रपशुबान्धवम् ।
देवेष्वधिष्ठितं कुर्याद्गोषु च ब्राह्मणेषु च ॥ ४६ ॥
ब्रह्मस्वं देवताद्रव्यं स्त्रीणां बालधनं च यत् ।
दत्तं हरति यो भूय इष्टैः सह विनश्यति ॥ ४७ ॥
ब्राह्मणद्रव्यमादत्ते देवानां चैव राघव ।
सद्यः पतति घोरे वै नरके वीचिसंज्ञिते ॥ ४८ ॥
मनसाऽपि हि देवस्वं ब्रह्मस्वं च हरेत्तु यः ।
निरयान्निरयं चैव पतत्येव नराधमः ॥ ४९ ॥
तच्छ्रुत्वा वचनं रामो विस्मयोत्फुल्ललोचनः ।
श्वाऽप्यगच्छन्महातेजा यत एवागतस्ततः ॥ ५० ॥
मनस्वी पूर्वजात्या स जातिमात्रोपदूषितः ।
वाराणस्यां महाभागः प्रायं चोपविवेश ह ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥