विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
मूलम्
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
वसिष्ठादिभिर् मन्त्रि-श्रेष्ठैश् च सह
प्रभाते सभां प्रविष्टेन रामेण
लक्ष्मणं प्रति कार्यार्थि-समाह्वान-चोदना ॥ १ ॥
लक्ष्मणेन द्वार-देश-वर्तिनः कार्यार्थिनः रामानुमत्याऽन्तः प्रवेशनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले कृत्वा पौर्वाह्णिकीं क्रियाम् ।
धर्मासनगतो राजा रामो राजीवलोचनः ॥ १ ॥
राजधर्मानवेक्षन्वै ब्राह्मणैर्नैगमैः सह ।
पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च ॥ २ ॥
मन्त्रिभिर्व्यवहारज्ञैस्तथाऽन्यैर्धर्मपारगैः ।
नीतिज्ञैरथ सभ्यैश्च राजभिः सा समावृता ॥ ३ ॥
सभा यथा महेन्द्रस्य यमस्य वरुणस्य च ।
शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः ॥ ४ ॥
अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम् ।
निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन ।
कार्यार्थिनश्च सौमित्रे व्याहर्तुं त्वमुपक्रम ॥ ५ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मणः शुभलक्षणः ।
द्वारदेशमुपागम्य कार्यिणश्चाह्वयत्स्वयम् ॥ ६ ॥
न कश्चिदब्रवीत्तत्र मम कार्यमिहाद्य वै ।
नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ॥ ७ ॥
पक्वसस्या वसुमती सर्वौषधिसमन्विता ।
न बालो म्रियते तत्र न युवा नच मध्यमः ॥ ८ ॥
धर्मेण शासितं सर्वं न च बाधा विधीयते ।
दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति ॥ ९ ॥
लक्ष्मणः प्राञ्जलिर्भूत्वा रामायैवं न्यवेदयत् ॥ १० ॥
अथ रामः प्रसन्नात्मा सौमित्रिमिदमब्रवीत् ।
भूय एव तु गच्छ त्वं कार्यिणः प्रविचारय ॥ ११ ॥
सम्यक्प्रणीतया नीत्या नाधर्मो विद्यते क्वचित् ।
तस्माद्राजभयात्सर्वे रक्षन्तीव परस्परम् ॥ १२ ॥
बाणा इव मया मुक्ता इह रक्षन्ति मे प्रजाः ।
तथापि त्वं महाबाहो प्रजा रक्षस्व तत्परः ॥ १३ ॥
एवमुक्तस्तु सौमित्रिर्निर्जगाम नृपालयात् ।
अपश्यद्वारदेशे वै श्वानं तावदवस्थितम् ॥ १४ ॥
तमेव वीक्षमाणं वै विक्रोशन्तं मुहुर्मुहुः ।
दृष्ट्वाऽथ लक्ष्मणस्तं वै पप्रच्छाथ स वीर्यवान् ॥ १५ ॥
किं ते कार्यं महाभाग ब्रूहि विस्रब्धमानसः ।
लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ॥ १६ ॥
सर्वभूतशरण्याय रामायाक्लिष्टकर्मणे ।
भयेष्वभयदात्रे च तस्मै वक्तुं समुत्सहे ॥ १७ ॥
एतच्छ्रुत्वा तु वचनं सारमेयस्य लक्ष्मणः ।
राघवाय तदाख्यातुं प्रविवेशालयं शुभम् ॥ १८ ॥
निवेद्य रामस्य पुनर्निर्जगाम नृपालयात् ।
वक्तव्यं यदि ते किंचित्तत्त्वं ब्रूहि नृपाय वै ।
लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ॥ १९ ॥
देवागारे नृपागारे द्विजवेश्मसु वै तथा ।
वह्निः शतक्रतुश्चैव सूर्यो वायुश्च तिष्ठति ॥ २० ॥
नात्र योग्यास्तु सौमित्रे योनीनामधमा वयम् ।
प्रवेष्टुं नात्र शक्ष्यामो धर्मो विग्रहवान्नृपः ॥ २१ ॥
सत्यवादी रणपटुः सर्वभूतहिते रतः ।
षाड्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः ॥ २२ ॥
सर्वज्ञः सर्वदर्शी च रामो रमयतांवरः ॥ २३ ॥
स सोमः स च मृत्युश्च स यमो धनदस्तथा ।
वह्निः शतक्रतुश्चैव सूर्यो वै वरुणस्तथा ॥ २४ ॥
तस्य त्वं ब्रूहि सौमित्रे प्रजापालः स राघवः ।
अनाज्ञप्तस्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम् ॥ २५ ॥
आनृशंस्यान्महाभागः प्रविवेश महाद्युतिः ।
नृपालयं प्रविश्याथ लक्ष्मणो वाक्यमब्रवीत् ॥ २६ ॥
श्रूयतां मम विज्ञाप्यं कौसल्यानन्दवर्धन ।
यन्मयोक्तं महाबाहो तव शासनजं विभो ।
श्वा वै ते तिष्ठते द्वारि कार्यार्थी समुपागतः ॥ २७ ॥
लक्ष्मणस्य वचः श्रुत्वा रामो वचनमब्रवीत् ।
संप्रवेशय वै क्षिप्रं कार्यार्थी योत्र तिष्ठति ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥