०५९ जरा-यौवनानुभूती

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनषष्टितमः सर्गः

मूलम्

विषयाः

शुक्रशापाज् जरां प्राप्तेन ययातिना
शुक्रानुग्रह-बलेनैव शर्मिष्ठा-पुत्रे पूरौ निज-जरा-संक्रमण-पूर्वकं
तदीय-यौवन-स्वीकारेण चिर-कालं भोगानुभवः ॥ १ ॥
ततस् तृप्तेन ययातिना पूरुतो निज-जरा-स्वीकार-पूर्वकं
तस्मिंस् तदीय-यौवन-प्रत्यर्पणेन
परितोषात् तस्य राज्येऽभिषेचनेन वन-गमनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तूशनसं क्रुद्धं तदार्तो नहुषात्मजः ।
जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ १ ॥
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।
जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ २ ॥
न तावत्कृतकृत्योऽस्मि विषयेषु नरर्षभ ।
अनुभूय तथा कामं ततः प्राप्स्याम्यहं जराम् ॥ ३ ॥
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।
पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ४ ॥

श्रुत्वेत्यादि ॥ १-४ ॥

विश्वास-प्रस्तुतिः

बहिष्कृतोऽहमर्थेषु सन्निकर्षाच्च पार्थिव ।
प्रतिगृह्णातु वै राजन्कः सहाश्नाति भोजनम् ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।
इयं जरा महावाहो मदर्थं प्रतिगृह्यताम् ॥ ६ ॥
नाहुषेणैव मुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।
धन्योस्म्यनुगृहीतोस्मि शासनेऽस्मि तव स्थितः ॥ ७ ॥

बहिष्कृत इति ॥ सन्निकर्षात् समीपावस्थापनादिकृत्याच्च बहिष्कृतः ॥ ५-७ ॥

विश्वास-प्रस्तुतिः

पूरोर्वचनमाज्ञाय नाहुषः परया मुदा ।
प्रहर्षमतुलं लेभे जरां संक्रामयच्च ताम् ॥ ८ ॥
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ।
बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ९ ॥
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।
आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ १० ॥

पूरोरिति ॥ जरां संक्रामयदिति । योगबलादिति शेषः ॥ ८-१० ॥

विश्वास-प्रस्तुतिः

न्यासभूता मया पुत्र त्वयि संक्रामिता जरा ।
तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥ ११ ॥
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् ।
त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥ १२ ॥
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।
देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ १३ ॥

न्यासभूतेति ॥ हे पुत्र । त्वयि मया संक्रामिता जरा तस्मान्मया जातः ॥ ११-१३ ॥

विश्वास-प्रस्तुतिः

राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।
प्रतिहंसि ममाज्ञां यत्प्रजार्थे विफलो भव ॥ १४ ॥
पितरं गुरुभूतं मां यस्माच्चमवमन्यसे ।
राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ १५ ॥

राक्षस इति ॥ प्रजार्थे विफलो भवेति । प्रजया पुत्रेण पितुः सकाशात्प्राप्यार्थः राज्यादिलक्षणरूपः तस्मिन्विफल उक्तप्रयोजनरहित इत्यर्थः ॥ १४-१५ ॥

विश्वास-प्रस्तुतिः

न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः ।
वंशोपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ १६ ॥
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् ।
अभिषेकेण संपूज्य आश्रमं प्रविवेश ह ॥ १७ ॥
ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।
त्रिदिवं संगतो राजा ययातिर्नहुषात्मजः ॥ १८ ॥
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः ।
प्रतिष्ठाने पुरवरे काशीराज्ये महायशाः ॥ १९ ॥
यदुस्तु जनयामास यातुधानान्सहस्रशः ।
पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥ २० ॥

नत्विति त्वयेति शेषः ॥ १६-२० ॥

विश्वास-प्रस्तुतिः

एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।
धारितः क्षत्रधर्मेण यं निमिश्च न चक्षमे ॥ २१ ॥

ययातिवृत्तान्तप्रतिपादनस्य प्रकृतोपयोगमाह-एष तूशनसेति ॥ यमृषिशापं निमिर्न चक्षमे तादृशः शापो ययातिना धारित इत्यर्थः ॥ २१ ॥

विश्वास-प्रस्तुतिः

एतते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।
अनुवर्तामहे सौम्य दोषो न स्वाद्यथा नृगे ॥ २२ ॥
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।
अरुणकिरणरक्ता दिग्बभौ चैत्र पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ २३ ॥

एतदिति ॥ कारः कृत्यमेषामस्तीति कारिणः । कार्यापेक्षिण इत्यर्थः ॥ २२-२३ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥