०५८ ययाति-शापः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशःसर्गः

मूलम्

विषयाः

निमि-राजस्य वसिष्ठेऽक्षमया शाप-दान-कथन-प्रसङ्गाद्
ययाति-क्षमा-प्रशंसनाय तत्-कथा-कथनारंभः ॥ १ ॥
ययाति-नाम्नो-राज्ञः कनिष्ठ-भार्यायां शर्मिष्ठायां विशेषानुरागेण
रुष्टया ज्येष्ठया स्व-पितरं शुकं प्रति
सक्रोधं ययाति-निग्रह-प्रार्थने
शुक्रेण पुत्री-प्रीत्यै ययातिं प्रति वृद्ध-भाव-संभव-शापदानम् ॥ २ ॥

विश्वास-प्रस्तुतिः

एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।
प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ ॥
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।
निवृत्तं राजशार्दूल वसिष्ठस्य निमेः सह ॥ २ ॥

पुण्यश्रवणत्वेन महदद्भुतं । आश्चर्यादण्याश्चर्यमित्यर्थः । निमेः सहेति । प्रसङ्ग इति शेषः ॥ २ ॥

विश्वास-प्रस्तुतिः

निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।
न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ३ ॥
एवमुक्तस्तु तेनायं श्रीमान्क्षत्रियपुङ्गवः ।
उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ॥ ४ ॥
न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ५ ॥

महात्मनि वसिष्ठे विषये कथं धार्मिकः निमिः अमर्षं चकारेति पृष्ठवन्तं लक्ष्मणं प्रति ययातिक्षमाकथनं आम्रान्पृष्टः कोविदारानाचष्टे इति न्यायं कथं नानुसरेत् । मैवं महान् दोषः । चिन्तायाः अकर्तव्याभिप्रायात् । गुणवतो गुणकीर्तनस्य ॥ ३-५ ॥

विश्वास-प्रस्तुतिः

सौमित्रे दुस्सहो रोपो यथा क्षान्तो ययातिना ।
सत्त्वानुगं पुरस्कृत्य तं निबोध समाहितः ॥ ६ ॥
नहुषस सुतो राजा ययातिः पौरवर्धनः ।
तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७ ॥

यथा येन प्रकारेण । सत्त्वानुगं सत्त्वगुणानुमतं । मार्गमिति शेषः । तं प्रकारं निबोध ॥ ६-७ ॥

विश्वास-प्रस्तुतिः

एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।
शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ८ ॥

पुरस्कृता पूजिता । दैतेयी दितेः पौत्री ॥ ८ ॥

विश्वास-प्रस्तुतिः

अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।
न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ९ ॥
तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ ।
शर्मिष्ठाऽजनयत्पूरुं देवयानी यदुं तदा ॥ १० ॥
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।
ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ ११ ॥
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।
सहसे हृद्गतं दुःखमवमानं च दुस्सहम् ॥ १२ ॥
आवां च सहितौ देवि प्रविशाव हुताशनम् ।
राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ १३ ॥
यदिवा सहनीयं ते मामनुज्ञातुमर्हसि ।
क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः ॥ १४ ॥
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।
देवयानी तु संक्रुद्धा सस्मार पितरं तदा ॥ १५ ॥

उशनसः शुक्रस्य ॥ ९-१५ ॥

विश्वास-प्रस्तुतिः

इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।
आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ १६ ॥

इङ्गितं सखेदरोपभावम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।
पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ १७ ॥
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।
देवयानी तु संक्रुद्धा पितरं वाक्यमब्रवीत् ॥ १८ ॥

अप्रकृतिस्थां अस्वस्थां । अप्रहृष्टां हर्षरहितां । अचेतनां क्षुभितचित्ताम् ॥ १७-१८ ॥

विश्वास-प्रस्तुतिः

अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।
भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ १९ ॥

अग्निं प्रवेक्ष्यामि विषं भक्षयिष्य इति संबन्धः ॥ १९ ॥

विश्वास-प्रस्तुतिः

न मां त्वमवजानीषे दुःखितामवमानिताम् ।
वृक्षस्यावज्ञया ब्रह्मश्छिद्यन्ते वृक्षजीविनः ॥ २० ॥

दुःखितामवमानितां नावजानीषे न जानीषे न जानासि । अवोपसर्गो धात्वर्थमात्रे वर्तते । अन्यापदेशेनाह-वृक्षस्येति । वृक्षस्यावज्ञया छेदनादिना वृक्षजीविनः पत्रपुष्पादयछिद्यन्ते ॥ २० ॥

विश्वास-प्रस्तुतिः

अवज्ञया च राजर्षिः परिभूय च भार्गव ।
मय्यवज्ञां प्रयुङ्के हि न च मां बहुमन्यते ॥ २१ ॥
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।
व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ २२ ॥
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।
जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥ २३ ॥
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।
पुनर्जगाम ब्रह्मर्षिभवनं स्वं महायशाः ॥ २४ ॥
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।
पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ २५ ॥

तदेवोपपादयति-अवज्ञयेत्यादि । हे भार्गव । राजर्षिस्त्वय्यवज्ञया हेतुभूतया मां परिभूय मय्यवज्ञां प्रयुङ्क्ते । अवज्ञाय सराजर्षिः परिभूय च भार्गवमिति पाठे भार्गवविषयावमानबहुमानाभ्यां मय्यवज्ञानबहुमानभावं करोतीत्यर्थः ॥ २१-२५ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशःसर्गः॥५८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ॥