०५५ निमि-वसिष्ठ-शापौ

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः

मूलम्

विषयाः

रामेण लक्ष्मणं प्रति
महद्-अपराधस्यानर्थ-हेतुत्वे उदाहरणतया कथान्तरोदाहरणारंभः ॥ १ ॥
निमि-नाम्ना इक्ष्वाकु-वंश्येन राज्ञा
स्व-याजनाय स्व-प्रार्थितेन वसिष्ठेन
इन्द्रेण स्वस्य पूर्व-वरणोक्त्या पश्चाद्-याजनोक्तौ
विलंबासहनेन गौतम-वरणेन याग-निर्वर्तनम् ॥ २ ॥
पश्चाद्-आगतेन वसिष्ठेन
निद्रा-परवशतया स्वानभियायिनं निमिं प्रति
विदेहत्व-शाप-दानम् ॥ ३ ॥
निमिना वसिष्ठं प्रति
स्वतः शाप-दानस्यानौचित्योक्त्या
तस्यापि विदेहत्व-शापदानम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

एष ते नृगशापस्य विस्तरोभिहितो मया ।
यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥

व्याख्या

इह राजापराधविषये ॥ १ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।
पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥

तृप्तिः कथानां संबन्धिनीत्यर्थः ॥ २-४ ॥

विश्वास-प्रस्तुतिः

स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् ।
निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥

मूलम्

स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् ।
निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥

गौतमस्येति गौतमाश्रमस्येत्यर्थः ॥ ५ ॥

विश्वास-प्रस्तुतिः

पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।
निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ६ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।
यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७ ॥
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।
वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ८ ॥
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।
अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९ ॥

वैजयन्तं इन्द्रप्रासादं । सादृश्यात्तद्व्यपदेशः ॥ ६-९ ॥

विश्वास-प्रस्तुतिः

तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।
वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥

प्रतिपालय प्रतीक्षस्व । प्रतीक्ष त्वं तदन्तरमिति च पाठः । तदनन्तरं त्वां याजयिष्य इति शेषः ॥ १० ॥

विश्वास-प्रस्तुतिः

अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।
वसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥

गौतमः प्रत्यपूरयत् । वसिष्ठकर्तव्यं हौत्रमिति शेषः ॥ ११ ॥

विश्वास-प्रस्तुतिः

निमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ।
अयजद्धिमत्पार्श्वे स्वपुरस्य समीपतः ।
पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥
इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः ।
सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।
कोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥

तान् अत्र्यादीन् ॥ १२-१४ ॥

विश्वास-प्रस्तुतिः

स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।
तस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ १५ ॥
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।
अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।
चेतनेन विनाभूतो देहस्तव भविष्यति ॥ १७ ॥
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।
ब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूर्च्छितः ॥ १८ ॥
अजानतः शयानस्य क्रोधेन कलुषीकृतः ।
मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ १९ ॥

स इति । असमाप्तसत्र इतिशेषः ॥ १५-१९ ॥

विश्वास-प्रस्तुतिः

तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।
देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥
इति रोपवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।
सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥

चेतनेन विना कृत इति । मृत इत्यर्थः । सुरुचिरप्रख्यः सुरुचिरकान्तिः ॥ २०-२१ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥