०५० अवश्यम्-भाविता

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः

विषयाः

सीता-विसर्जन-विषादेन
रामं प्रति शोचन्तं सौमित्रिं प्रति सु-मन्त्रेण
रामस्य सीताया भ्रातॄणां च विप्रयोगस्यावश्यं-भावित्वस्य
दश-रथं प्रति दुर्वाससा पूर्वम् एवोक्तत्व-निवेदनेन परिसांत्वने
लक्ष्मणेन तं प्रति विस्तरेण-दुर्वासो-वचनानुवदन-चोदना ॥ १ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तु मैथिलीं सीतामाश्रमे संप्रवेशिताम् ।
संतापमगद्धोरं लक्ष्मणो दीनचेतनः ॥ १ ॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् ।
सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ २ ॥
ततो दुःखतरं किंतु राघवस्य भविष्यति ।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३ ॥

व्याख्या

मन्त्रसहायभूतः सारथिर्मन्त्रसारथिः । सीतासंतापजं सीताविरहसंतापजमित्यर्थः ॥ २-३ ॥

विश्वास-प्रस्तुतिः

व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ४ ॥

मूलम्

व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् ।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ४ ॥

व्याख्या

विनाभवं सीतावियोगेनावस्थानं वैदेह्या सार्धं विनाभवमित्यर्थः । दैवात् प्राग्भवाद्दृष्टादित्यर्थः ॥ ४ ॥

विश्वास-प्रस्तुतिः

यो हि देवान्त्सगन्धर्वानसुरान्सह राक्षसः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ५ ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ६ ॥

मूलम्

यो हि देवान्त्सगन्धर्वानसुरान्सह राक्षसः ।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ५ ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने ।
उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ६ ॥

व्याख्या

दैवमनुवर्तते नतु तन्निरसितुं शक्नोतीत्यर्थः ॥ ५-६ ॥

विश्वास-प्रस्तुतिः

ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७ ॥

मूलम्

ततो दुःखतरं भूयः सीताया विप्रवासनम् ।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७ ॥

व्याख्या

ततः सीतायाः विप्रवासनं नृशंसं क्रूरकृत्यमिति प्रतिभाति ॥ ७ ॥

विश्वास-प्रस्तुतिः

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः ॥ ८ ॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ९ ॥

मूलम्

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे ।
मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः ॥ ८ ॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः ।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ९ ॥

व्याख्या

हीनार्थवादिभिः पौरैर्हेतुभिः । मैथिलीं प्रति यशोहरे साध्वीं वने विसृष्टवानिति अपयशस्करेस्मिन् कर्मणि सीतापरित्यागरूपकर्मण्यनुष्ठिते सति कोनु धर्माश्रयः धर्मपरिग्रहः रामेण संप्राप्तः । प्रत्युत साध्वीत्यागादधर्म एव स्यादिति भावः ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति ।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ १० ॥
भविष्यति दृढं रामो दुःखप्रायोपि सौख्यभाक् ।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ ११ ॥
त्वां चैव मैथिली चैव शत्रुघ्नभरतावुभौ ।
संत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ १२ ॥

दृष्टमिति । हे लक्ष्मण पुरा तव पितुरप्रतः अल्पभाग्यवान्रामः दुःखप्रायो भविष्यतीत्येतद्दृष्टं दृष्ट्वा मह्यमुक्तमित्यर्थः । फलितमाह – प्राप्स्यत इति ॥ १०-१२ ॥

विश्वास-प्रस्तुतिः

इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १३ ॥

मूलम्

इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा ।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १३ ॥

व्याख्या

इदं रहस्यं त्वयि भरते वा न वक्तव्यं । इदंशब्दार्थमाह-राज्ञेति । राज्ञा दशरथेन । वः तदिदं त्वयि भरतेपि न वक्तव्यमित्यर्थः ॥ १३ ॥

विश्वास-प्रस्तुतिः

महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ १४ ॥

मूलम्

महाजनसमीपे च मम चैव नरर्षभ ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ १४ ॥

व्याख्या

दुर्वाससो वचनं कथं त्वयावगतमित्यत्राह-महाजनेति ॥ महाजनसमीपे दशरथसमीप इत्यर्थः । मम वसिष्ठस्य च सन्निधौ । ऋषिणा दुर्वाससा वाक्यं व्याहृतं । त्रिभिरेवेदं वृत्तं ज्ञातमिति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ १५ ॥

मूलम्

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ १५ ॥

व्याख्या

एवं ते त्वया श्रुतं रहस्यमित्यर्थः ॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितम् ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ १६ ॥

मूलम्

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितम् ।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ १६ ॥

व्याख्या

समाहितं सम्यग्गुप्तं तस्य वाक्यं मया जातु अनृतं न कार्यमिति मम दर्शनं मतं । तस्मात् त्वयि भरते च न वक्तव्यमिति भावः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १७ ॥

मूलम्

सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः ।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १७ ॥

व्याख्या

न वक्तव्यमिति । राजरहस्यमिति शेषः । तवातिश्रद्धारहितस्य ॥ १७ ॥

विश्वास-प्रस्तुतिः

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १८ ॥

मूलम्

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १८ ॥

व्याख्या

तथाप्यप्रकाश्यस्यापि प्रकाशने हेतुमाह-दैवं हि दुरतिक्रममिति । हि यस्माद्दैवं प्राचीनं कर्म दुरतिक्रमं तस्मादित्यर्थः ॥ १८ ॥

विश्वास-प्रस्तुतिः

येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ १९ ॥

मूलम्

येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ १९ ॥

व्याख्या

दुरतिक्रमे हेतुः-येनेदमिति ॥ एवं भवदुःखातिशयदर्शनात् श्रद्धालवे तुभ्यं मया वक्तव्यमिति भावः ॥ १९ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ २० ॥

मूलम्

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ २० ॥

व्याख्या

गम्भीरार्थपदमिति । पूर्वोक्तं भाषितम् ॥ २० ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥