०४६ निर्गतिः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः

विषयाः

लक्ष्मणेन सीतां प्रति
वन-नयनाय रामे तत्-प्रार्थना-स्मारणेन
वन-गमनाय सज्जीभवन-चोदना ॥ १ ॥
सीतया हर्षान् मुनि-पत्नीभ्यो दित्सया
नाना-वसनाभरणाद्य्-आदानेन
सु-मन्त्रानीत-रथारोहणम् ॥ २ ॥
लक्ष्मणेन सीता–सु-मन्त्राभ्यां सह गङ्गा-तीरम् एत्य
नाविकान् प्रति नौकानयन-चोदना ॥ ३ ॥

विश्वास-प्रस्तुतिः

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥
सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥

मूलम्

ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥
सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥

व्याख्या

स्वास्तीर्णमिति । सीतायाश्च शुभमासनं राजभवनादानीय स्वास्तीर्णं रथं कुरु ॥ २ ॥

विश्वास-प्रस्तुतिः

सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥

मूलम्

सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् ।
मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥

व्याख्या

कुत इत्यत्राह-सीता हीत्यादि ॥ ३ ॥

विश्वास-प्रस्तुतिः

सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ४ ॥
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् ।
रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ५ ॥
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः ।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ ७ ॥
गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्शुमान् ।
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ।
अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि ॥ ८ ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना ।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ ९ ॥
वासांसि च महार्हाणि रत्नानि विविधानि च ।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ १० ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् ।
वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ ११ ॥
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ १२ ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् ।
अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ १३ ॥

सुरुचिरप्रख्यं सुन्दरशोभम् ॥ ४-१३ ॥

विश्वास-प्रस्तुतिः

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १४ ॥

मूलम्

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १४ ॥

व्याख्या

हृदयं मनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ १५ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १६ ॥

मूलम्

औत्सुक्यं परमं चापि अधृतिश्च परा मम ।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ १५ ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १६ ॥

व्याख्या

औत्सुक्यं पुण्याश्रमदर्शनविषयजं । शून्यां सुखशून्याम् ॥ १५ -१६ ॥

विश्वास-प्रस्तुतिः

पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १७ ॥

मूलम्

पुरे जनपदे चैव कुशलं प्राणिनामपि ।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १७ ॥

व्याख्या

अञ्जलिकृता कृताञ्जलिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

लक्ष्मणोर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १८ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ १९ ॥

मूलम्

लक्ष्मणोर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् ।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १८ ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे ।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ १९ ॥

तमर्थमिति । दुर्निमित्तरूपं वस्त्वित्यर्थः । हृष्टः हृष्ट इव ॥ १८-१९ ॥

योजयस्व रथं शीघ्रमद्य भागीरथीजलम् ।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ २० ॥
सो श्वान्रज्ज्वाऽथ चतुरो रथे युङ्क्त्वा मनोजवान् ।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ २१ ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २२ ॥

शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथेति दृष्टान्ते रुद्रोपि स्नानार्थमेव गङ्गां दधारेति गम्यते ॥ २०-२२ ॥

आससाद विशालाक्षी गङ्गां पापविनाशिनीम् ।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ २३ ॥
निरीक्ष्य लक्ष्मणो दीनः प्ररुदोद महास्वनः ॥ २४ ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ २५ ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम ।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ २६ ॥

जलाशयं जलप्रवाहम् ॥ २३-२६ ॥

नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ २७ ॥
ममापि दयितो रामो जीवितादपि लक्ष्मण ।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ २८ ॥
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् ।
ततो मुनिभ्यो दास्यामि वासांस्याभरणानि च ॥ २९ ॥
ततः कृत्वा महर्षीणां यथावदभिवादनम् ।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ३० ॥
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् ।
त्वरते हि मनो द्रष्टुं रामं रमयतांवरम् ॥ ३१ ॥
तस्यास्तद्वचनं श्रुत्वा प्रसृज्य नयने शुभे ।
नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ ३२ ॥
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयोऽब्रुवन् ॥ ३३ ॥
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ।
गङ्गां संतारयामास लक्ष्मणस्तां समाहितः ॥ ३४ ॥

पार्श्वेष्विति पूजायां बहुवचनं । शोकमागतः कच्चिदित्यन्वयः ॥ २७-३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥