विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः
मूलम्

विषयाः
रामेण भ्रातृषु सीता-विषयक-लोकापवाद-निवेदनेन
लक्ष्मणं प्रति
स्वं प्रति सीतायाः स्वस्य मुन्य्-आश्रम-नयन-प्रार्थना-निवेदन-पूर्वकं
परेद्युः प्रभाते गङ्गा-तीर-स्थ–वाल्मीक्य्-आश्रम-समीपे
सीता-विसर्जन-चोदना ॥ १ ॥
विश्वास-प्रस्तुतिः
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्यो मुखेन परिशुष्यता ॥ १ ॥
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥

व्याख्या
मा कुरुध्वं मनोन्यथा । मदभिप्रायाननुकूलं मा कुरुध्वमित्यर्थः । तमेवाभिप्रायमा -विष्करोति-पौराणामित्यादि । सीतायां विषये यादृशी कथा वर्तते तां कथां मत्सकाशात् शृणुतेत्यन्वयः ॥ २ ॥
विश्वास-प्रस्तुतिः
पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ ४ ॥
जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हुता सीता स च विध्वंसितो मया ॥ ५ ॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७ ॥
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ८ ॥
एवं शुद्ध समाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ९ ॥
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ १० ॥

का कथा वर्तत इत्यत्राह- पौरापवाद इत्यादि ॥ मयि मद्विषये बीभत्सा कुत्सा वर्तते सा मम सर्वमर्माणि कृन्तति ॥ ३-१० ॥
विश्वास-प्रस्तुतिः
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ११ ॥
मूलम्
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ११ ॥
व्याख्या
महान्वाद इति । वर्तत इति शेषः। शोकश्चेति । तच्छ्रवणादिति शेषः । कोयं वाद इत्यत्राह – पौरेत्यादि ॥ ११ ॥
विश्वास-प्रस्तुतिः
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ १२ ॥
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ १३ ॥
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ १४ ॥

भूतस्य प्राणिनः । शब्दः अकीर्तिबोधकः ॥ १२-१४ ॥
विश्वास-प्रस्तुतिः
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
न हि पश्याम्यहं भूतं किंचिद्दुःखमतोऽधिकम् ॥ १५ ॥
मूलम्
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
न हि पश्याम्यहं भूतं किंचिद्दुःखमतोऽधिकम् ॥ १५ ॥
व्याख्या
भूतं उत्पन्नम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १६ ॥
मूलम्
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १६ ॥
व्याख्या
विषयान्ते स्वदेशाद्बहिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ॥ १७ ॥
तत्रैतां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ १८ ॥
न चास्मिन्प्रतिवक्तव्यः सीतां प्रति कथंचन ।
तस्मात्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ १९ ॥

तं विशेषयति-गङ्गाया इत्यादि ॥ १७-१९ ॥
विश्वास-प्रस्तुतिः
अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ २० ॥
मूलम्
अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ २० ॥
व्याख्या
मह्यं मम । भुजाभ्यामिति वीरवचनम् ॥ २० ॥
विश्वास-प्रस्तुतिः
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ २१ ॥
मूलम्
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ २१ ॥
व्याख्या
वाक्यान्तरे अस्मद्वाक्यमध्ये । अनुनेतुं ये ब्रूयुस्ते शापिता इति पूर्वेणान्वयः ॥ २१ ॥
विश्वास-प्रस्तुतिः
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतोद्य नीयतां सीता कुरुष्व वचनं मम ॥ २२ ॥
मूलम्
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतोद्य नीयतां सीता कुरुष्व वचनं मम ॥ २२ ॥
व्याख्या
फलितमाह-मानयन्त्विति ॥ २२ ॥
विश्वास-प्रस्तुतिः
पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ २३ ॥
मूलम्
पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ २३ ॥
व्याख्या
कथमिदं नृशंसत्वं सोढुं शक्यमित्यत्राह-पूर्वमित्यादि । संवर्त्यतां अनुष्ठीयताम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥ २४ ॥
शोकसंलग्रहृदयो निशश्वास यथा द्विपः ॥ २५ ॥

भ्रातृभिः परिवारितः प्रविवेशेति । भ्रातॄन विसृज्य स्ववेश्म प्रविवेशेत्यर्थः ॥ २४-२५ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥