०४३ सीता-प्रतिग्रह-दूषणम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः

विषयाः

कदाचन रामेण सभायां कथा-प्रसङ्गेन
चारं प्रति पौरेषु स्व-विषयक–शुभाशुभ-वार्ता-निवेदन-चोदने
भीत-भीतेन तेन
रावणापहृत-सीता-पुनर्-आनयन-प्रकारक–
पौर-जन-कुत्सन-निवेदनम् ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥
विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुटः ।
सुराजः कालियो भद्रो दन्तवक्त्रः सुमागधः ॥ २ ॥
एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ३ ॥
ततः कथायां कस्यांचिद्राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किंच सीतां समाश्रित्य भरतं किंच लक्ष्मणम् ॥ ५ ॥

व्याख्या

विषयेषु देशेषु ॥ ४-५ ॥

विश्वास-प्रस्तुतिः

किंनु शत्रुघ्नमुद्दिश्य कैकेयीं किंनु मातरम् ।
वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ६ ॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्वं सर्वं निरवशेषतः ॥ ९ ॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ ॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कश्चिद्देवैरपि सदानवैः ॥ १४ ॥
रावणश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥

वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हीति च पाठः । नवे राज्ये सति राजानो वक्तव्यतां सम्यगसम्यग्वा कीर्तनीयतां व्रजन्ति हि ॥ ६-१५ ॥

विश्वास-प्रस्तुतिः

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥

मूलम्

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥

व्याख्या

सीतामाहृत्य तदनन्तर जातममर्षं रावणस्पर्शजं पृष्ठतः कृत्वा विसृज्येत्यर्थः । ॥ १६ ॥

विश्वास-प्रस्तुतिः

कीदृशं हृदये तस्य सीतासंभोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥

मूलम्

कीदृशं हृदये तस्य सीतासंभोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७ ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥

व्याख्या

कीदृशं कुत्सितमेवेत्यर्थः । तत्र हेतुः अङ्कमित्यादि ॥ १७-१८ ॥

विश्वास-प्रस्तुतिः

अस्माकमपि दारेषु सहनीय भविष्यति ।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥

मूलम्

अस्माकमपि दारेषु सहनीय भविष्यति ।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥

व्याख्या

सहनीयमिति । एवं कश्मलमित्यर्थः ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान्कथमेतद्ब्रीवीथ माम् ॥ २१ ॥

मूलम्

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान्कथमेतद्ब्रीवीथ माम् ॥ २१ ॥

व्याख्या

परमार्तवत् परमदुःखी भूत्वा । सर्वान् सुहृद इति । भद्रव्यतिरिक्तानित्यर्थः । कथमेतदिति । भद्रोक्तमेतत् अपयशोवचनं कथं तत्त्वमतत्त्वंवेति भवद्भिश्च निवेद्यतामित्यर्थः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥
श्रुत्त्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ २३ ॥

मूलम्

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥
श्रुत्त्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ २३ ॥

व्याख्या

एवमेतत् यथा भद्रेणोक्तं एतत्तत्त्वमेव ॥ २२-२३ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः ॥४३॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशःसर्गः ॥४३॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥