०४२ सीता-दौर्हृदम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः

विषयाः

कदाचन सीतया सह क्रीडा-वनं गतेन रामेण
तां प्रति गर्भिणीत्वादीप्सित-दौर्हृद-निवेदन-चोदने
तया तं प्रति पुनर् एक-वारं गङ्गा-तीर-वर्ति–मुन्याश्रम-दिदृक्षा-निवेदने
रामेण तां प्रति तत्-करण-प्रतिज्ञानम् ॥ १ ॥

स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।
प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥

अशोकवनिकां अन्तःपुरगतं लीलोद्यानम् ॥ १ ॥

चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥
चम्पकाशोकपुन्नागमधूकपनसासनैः ।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ३ ॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।
मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥
प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि ।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥
[ बिल्वैरामलकैश्चैव तमालकुटजार्जुनैः ।
मल्लिकाजाजिकुन्दैश्च पारिभद्रैश्च शोभिताम् ॥ ६ ॥ ]
सर्वदाकुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ७ ॥

तुङ्गः पुन्नागविशेषः । कालेयो रक्तचन्दनवृक्षः ॥ २-७ ॥

तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।
चारुल्लवपपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥ ८ ॥

दिव्यैः शिल्पिभिरिति । ऋतुमिरित्यर्थः । दोहलकादिभिर्वा ॥ ८ ॥

कोकिलैर्भृंङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ १० ॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च ॥ ११ ॥

चूतवृक्षावतंसकैः चूतवृक्षाग्रस्थैरित्यर्थः ॥ ९-११ ॥

दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।
माणिक्यवृतसोपानाः स्फटिकान्तरकुट्टिमाः ॥ १२ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।
दात्यूहशुकसंघुष्टा हंससारसनादिताः ॥ १३ ॥
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ १४ ॥

स्फाटिकान्तरकुट्टिमाः स्फटिकमयसोपानप्रान्तस्नानार्हाः निबद्धभूमयः । अन्यथा सर्वत्रान्तरे स्फटिककुट्टिमत्वे पद्माद्युत्पत्तिविरोधात् ॥ १२-१४ ॥

तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।
शाद्बलैः परमोपेतां पुष्पितद्रुमकाननाम् ॥ १५ ॥

परमोपेतां अत्यन्तसंयुक्ताम् ॥ १५ ॥

तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् ।
प्रस्तराः पुष्पशबला नभस्तारागणैरिव ॥ १६ ॥

संघर्षजातानां स्पर्धयैव जातानां । जातपुष्पाणामित्यर्थः । प्रस्तराः वृक्षमूलेषु शयनार्थं स्थापिताः श्लक्ष्णशिलाः ॥ १६ ॥

नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।
तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ १७ ॥
[ नीलवैदूर्यवर्णाश्च पद्मिन्यो बहुविस्तराः ।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः] ॥ १८ ॥

ब्राह्मं ब्रह्मनिर्मितं । सन्निवेशनं समीचीनसंस्थानोपेतम् ॥ १७-१८ ॥

बह्वासनगृहोपेतां लतागृहसमावृताम् ।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ १९ ॥

बह्वासनगृहोपेतां । अनेकावस्थानयोग्यगृहोपेतामित्यर्थः । लतागृहसमावृतां लतामयगृहसमावृताम् ॥ १९ ॥

आसने च शुभाकारे पुष्पप्रकरभूषिते ।
कुथास्तरणसंवीते रामः सन्निषसाद ह ॥ २० ॥

कुथास्तरणसंवीते उपर्यास्तरणावृते ॥ २० ॥

सीतामादाय हस्तेन मधु मैरेयकं शुचि ।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ २१ ॥
मांसानि च समृष्टानि फलानि विविधानि च ।
रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ॥ २२ ॥

मैरेयकं धातकीगुडमिश्रवारिभिः कृतं मद्यं । मैरेयमासवे धात्रीधातकीगुडवारिभिः इति वैजयन्ती ॥ २१-२२ ॥

उपानृत्यंश्च राजानं नृत्तगीतविशारदाः ।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ २३ ॥
[ अप्सरोगणसङ्घाश्च किन्नरीपरिवारिताः ।
दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः ।
उपानृत्यन्त काकुत्स्थं नृत्तगीतविशारदाः ॥ २४ ॥]
मनोभिरामा रामास्ता रामो रमयतांवरः ।
रमयामास धर्मात्मा नित्यं परमभूषितः ॥ २५ ॥
स तया सीतया सार्धमासीनो विरराज ह ।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २६ ॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ॥ २७ ॥

उपानृत्यन्निति । उपनृत्यन्तीति वा पाठः । राजानमिति । राजानमुपराज्ञः समीपे । पानवशं पानजमदवशम् ॥ २३-२७ ॥

तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।
अत्यक्रामच्छुभः कालः शिशिरो भोगदः सदा ॥ २८ ॥
दश वर्षसहस्राणि गवानि सुमहात्मनोः ।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ २९ ॥

शिशिरः शुभोत्यकामदिति । पुनश्च संवत्सरोतीत इत्यर्थः । वानरादिसुहृत्संल्लापादिना क्रीडावसराभावात्तैः सह एकसंवत्सरो गतः । तद्विसर्जनानन्तरं क्रीडया पुनरेकः संवत्सरो गतः । तथा चाभिषेकानन्तरं वर्षद्वयं जातम् ॥ २८-२९ ॥

पूर्वाह्ने धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।
शेषं दिवसभागार्धमन्तः पुरगतोऽभवत् ॥ ३० ॥
सीताऽपि देवकार्याणि कृत्वा पौर्वान्हिकानि वै ।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ३१ ॥
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ३२ ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।
प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ॥ ३३ ॥

शेषं दिवसभागार्धं अपराह्न इत्यर्थः ॥ ३०-३३ ॥

अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।
किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ३४ ॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ३५ ॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ ३६ ॥
एष मे परमः कामो यन्मूलफलभोजिनाम् ।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ३७ ॥

अपत्येति । ममायमपत्यलाभस्त्वयि समुपस्थितः । तव गर्भलक्षणं दृश्यत इत्यर्थः ॥ ३४-३७ ॥

तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ३८ ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।
मध्यकक्ष्यान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ३९ ॥

विस्रब्धा भव । महाराजो महिषीं मां कथमाश्रमं प्रति नेष्यतीति शङ्कां मा कुर्वित्यर्थः ॥ ३८-३९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः॥४२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥