विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः
मूलम्

विषयाः
रामाभ्यनुज्ञानेन स्व-स्व-नगर-गतैस् तैस् तै राजभिः
स्व-स्वानुगत-भरत-लक्ष्मण-शत्रुघ्न-द्वारा
श्रीरामाय नाना-रत्नादि-रूपोपायन-प्रत्यर्पणम् ॥ १ ॥
रामेण सुग्रीव-विभीषणदिभ्यस् तद्-रत्न-दानम् ॥ २ ॥
रामेण सादरोपचार-लालितैः सुग्रीव-विभीषणादिभिर् अयोध्यायाम् एकं वत्सरं सुख-निवासः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ते प्रयाता महात्मानः पार्थिवास्ते ग्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुंधराम् ॥ १ ॥

व्याख्या
प्रहृष्टवत् प्रहृष्टाः सन्तः ॥ १ ॥
विश्वास-प्रस्तुतिः
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।
भरतस्याज्ञयाऽनेकाः प्रहृष्टा बलवाहनाः ॥ २ ॥
मूलम्
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।
भरतस्याज्ञयाऽनेकाः प्रहृष्टा बलवाहनाः ॥ २ ॥
व्याख्या
राघवार्थ इति । रामसहायार्थमित्यर्थः ॥ २ ॥
विश्वास-प्रस्तुतिः
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥
मूलम्
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ३ ॥
व्याख्या
रामरावणं रामस्य रावणं । वध्यधातुकसंबन्धः षष्ठ्यर्थः । रामं रावणमिति पाठे युद्धे रामं रावणं च युद्ध्यमानौ रामरावणावित्यर्थः ॥ ३ ॥
विश्वास-प्रस्तुतिः
भरतेन वयं पश्चात्समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं प्रार्थिवैः स्युर्न संशयः ॥ ४ ॥
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥ ५ ॥
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ६ ॥

पश्चात् रावणवधानन्तरम् ॥ ४-६ ॥
विश्वास-प्रस्तुतिः
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७ ॥
मूलम्
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७ ॥
व्याख्या
मुख्यानीति । प्रसिद्धानीत्यर्थः । धनं जीविकाजीवरूपं । वसुमन्ति महानिधिमन्ति ॥ ७ ॥
विश्वास-प्रस्तुतिः
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारान्नृपा ददुः ॥ ८ ॥
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ९ ॥

यथापुराणि यथाप्राप्तस्वस्वपुराणि । उपहारान् प्रत्युपहारान् ॥ ८-९ ॥
विश्वास-प्रस्तुतिः
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकांश्च विविधान्रथांस्तु विविधान्ददुः ॥ १० ॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।
आदाय तानि रत्नानि खां पुरीं पुनरागताः ॥ ११ ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ १२ ॥
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ ॥
विभीषणाय च ददौ तथाऽन्येभ्योपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ १४ ॥

अजाविकान् चर्ममयान् । तल्पविशेषानित्यर्थः । अजाविकं च विविधमिति वा पाठः ॥ १०-१४ ॥
विश्वास-प्रस्तुतिः
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ १५ ॥
हनूमन्तं च नृपतिरिक्ष्वाकृणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोग्य वीर्यवान् ।
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ॥ १६ ॥
अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ।
सुग्रीव मन्त्रिते युक्तौ ममापि च हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ १७ ॥
इत्युक्त्वा व्यवमुच्याङ्गाद्भुषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १८ ॥
आभाष्य च महावीर्या राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ १९ ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जांबवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ २० ॥
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ २१ ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्व शरीरं भ्रातरस्तथा ॥ २२ ॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ २३ ॥
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ २४ ॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ २५ ॥

शिरोभिरिति । मुकुटकुण्डलादीनीति भावः। बाहुभिरिति । अङ्गदादीनीत्यर्थः । भुजेषु चेति पाठः ॥ १५-२५ ॥
विश्वास-प्रस्तुतिः
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे राजभक्त्या च मेनिरे ॥ २६ ॥
रामोपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैऋक्षैश्चैव महाबलैः ॥ २७ ॥

एवं तेषां निवसतामिति । आभरणादिभिः सत्कृतानां निवसतां तेषां साग्रः पञ्च षड्दिनाधिकः मासो गतः ॥ २६-२७ ॥
विश्वास-प्रस्तुतिः
एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २८ ॥
मूलम्
एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ २८ ॥
व्याख्या
वसन्तेभिषिक्तेन रामेण मासानन्तरमपि अविशेषसत्कारं प्राप्तानां तेषां द्वितीयः शैशिरो मासः फाल्गुनमासः सुखं गतः । अभिषेकानन्तरं संवत्सरं सुखमुषितास्त इत्यर्थः ॥ २८ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ २९ ॥
मूलम्
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ २९ ॥
व्याख्या
प्रीतिकरणैः संमानैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥