विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः
मूलम्

विषयाः
श्रीरामेणागस्त्यादि-निर्गमानन्तरं
सुखेन तद्-रात्रि-यापन-पूर्वकं
प्रभाते भरतादिभिः सह-पौर-प्रधानाधिष्ठित-सभा-प्रवेशः ॥ १ ॥
विश्वास-प्रस्तुतिः
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।
व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ १ ॥
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।
वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ २ ॥
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।
तुष्टुवुर्नृपतिं वीरं यथावत्संप्रहर्षिणः ॥ ३ ॥

व्याख्या
ऋषिगणास्त्वभिषेककाले संप्राप्ताः कथितकथाः विसृष्टाश्च । अभिषेकदिनस्य या निशा पौराणां हर्षवर्धिनी पूर्वा प्रथमा निशाऽसीत् सा च व्यतीता ॥ १-३ ॥
विश्वास-प्रस्तुतिः
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ४ ॥
मूलम्
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ४ ॥
व्याख्या
त्वयि सुप्ते सर्वं स्वपितीति त्वयि ब्राह्मे मुहूर्ते उत्थाय धर्मानुष्ठानरहिते सति सर्वं जगत्सुप्तधर्मकं भवति । यथा राजा तथा प्रजाः इति-न्यायादिति भावः ॥ ४ ॥
विश्वास-प्रस्तुतिः
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।
बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ५ ॥
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।
वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ६ ॥

बृहस्पतेस्तुल्यो बुद्ध्येति । प्रजापतिसमोसिप्रजापरिपालन इति शेषः ॥ ५-६ ॥
विश्वास-प्रस्तुतिः
अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७ ॥
मूलम्
अप्रकम्प्यो यथा स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७ ॥
व्याख्या
अप्रकम्प्य इति ॥ ईदृशाः पार्थिवाः पूर्वं नाभूवन्निति शेषः । न भवितार इति । अग्र इति शेषः ॥ ७ ॥
विश्वास-प्रस्तुतिः
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।
न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ८ ॥
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।
एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ ९ ॥
सुताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।
स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ १० ॥
स तद्विहाय शयनं पाण्डुराच्छादनास्तृतम् ।
उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ११ ॥

न जहाति न त्यजति ॥ ८-११ ॥
विश्वास-प्रस्तुतिः
समुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ १२ ॥
मूलम्
समुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ १२ ॥
व्याख्या
सलिलं गृहीत्वेति शेषः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।
देवागारं जगामाशु पुण्यमिक्ष्वाकु सेवितम् ॥ १३ ॥
तत्र देवान्पितृन्विप्रानर्चयित्वा यथाविधि ।
बाह्यकक्ष्यान्तरं रामो निर्जगाम जनैर्वृतः ॥ १४ ॥
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।
वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ १५ ॥
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।
रामस्योपाविशन्पार्श्वे शक्रस्येव यथामराः ॥ १६ ॥
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।
उपासांचक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ १७ ॥
याताः प्राञ्जलयो भूत्वा किंकरा मुदिताननाः ।
मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥ १८ ॥
वानराश्च महावीर्या विंशतिः कामरूपिणः ।
सुग्रीवप्रमुख राममुपासन्ते महौजसः ॥ १९ ॥
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।
उपासते महात्मानं धनेशमिव गुह्यकाः ॥ २० ॥
तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।
शिरसा वन्ध राजानमुपासन्ते विचक्षणाः ॥ २१ ॥
तथा परिवृतो राजा श्रीमद्भर्ऋषिभिर्वृतः ।
राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ २२ ॥
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।
अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ २३ ॥
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।
कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ २४ ॥

कृतोदकशुचिः उदकेन कृतशौच इत्यर्थः । देवागारं देवपूजागृहम् ॥ १३-२४ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥