०४ मुमूर्षा

विश्वास-प्रस्तुतिः

प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥

मूलम्

प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥

विषयाः

अगस्त्येन रामं प्रति तत्-करान् मरणेच्छया रावणेन सीता-हरण-करणोक्तिः ॥ १ ॥

विश्वास-प्रस्तुतिः

ततः पुनर्महातेजाः कुम्भयोनिर्महायशाः ।
उवाच रामं प्रणतं पितामह इवेश्वरम् ॥ १ ॥
श्रूयतामिति चामन्त्र्य रामं सत्यपराक्रमम् ।
कथाशेषं महातेजाः कथयामास स प्रभुः ॥ २ ॥
यथाख्यानं श्रुतं चैव यथावृत्तं च तत्तथा ।
प्रीतात्मा कथयामास राघवाय महामतिः ॥ ३ ॥
एतदर्थं महाबाहो रावणेन दुरात्मना ।
सुता जनकराजस्य हृता राम महामते ॥ ४ ॥
एतां कथां महाबाहो नारदः सुमहायशाः ।
कथयामास मह्यं वै मेरौ गिरिवरोत्तमे ॥ ५ ॥
देवगन्धर्वसिद्धानामृषीणां च महात्मनाम् ।
कथाशेषं पुनः सोथ कथयामास राघव ।
नारदः सुमहातेजाः प्रहसन्निव मानद ॥ ६ ॥
तां कथां शृणु राजेन्द्र महापापप्रणाशिनीम् ।
यां तु श्रुत्वा महाबाहो ऋषयो दैवतैः सह ।
ऊचुस्तं नारदं सर्वे हर्षपर्याकुलेक्षणाः ॥ ७ ॥
यश्चेमां श्रावयेन्नित्यं शृणुयाद्वापि भक्तितः ।
स पुत्रपौत्रवान्राम स्वर्गलोके महीयते ॥ ८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥