०३ रामावतार-सूचना

विश्वास-प्रस्तुतिः

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

मूलम्

प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥

विषयाः

नारायण-करान् मरणाभिलाषिणं रावणं प्रति
तन्-मनो-भाव-विदा सनत्-कुमारेण
नारायणस्य रामत्वेन भुव्य् अवतरण-कथनम् ॥ १ ॥

विश्वास-प्रस्तुतिः

एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ।
पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥
मनसश्चेप्सितं यत्ते भविष्यति महाहवे ।
सुखी भव महाबाहो कंचित्कालमुदीक्षय ॥ २ ॥
एवं श्रुत्वा महाबाहुस्तमृषिं प्रत्युवाच सः ।
कीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥
राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत ।
श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ।
तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥
स भूमौ दिवि पाताले पर्वतेषु वनेषु च ।
स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥
ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ।
धराधरधरो देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥
अहश्च रात्रिश्च उभे च सन्ध्ये दिवाकश्चैव यमश्च सोमः ।
स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव बालः ॥ ८ ॥
विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति ।
क्रीडां करोत्यव्ययलोकनाथो विष्णु पुराणो भवनाशहेतुः ॥ ९ ॥
अथवा बहुना तेन किमुक्तेन दशानन ।
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ १० ॥
नीलोत्पलदलश्यामः किञ्जल्कारुणवस्त्रकः ।
प्रावृट्काले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥
श्रीमान्मेघवपुःश्यामः पङ्कजारुणलोचनः ।
श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥
तस्य नित्यं शरीरस्था मेघस्येव शतह्रदाः ।
संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥
न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥
न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ।
शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ ॥
तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः ।
शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्बिषैः ॥ १६ ॥
अथवा राक्षसेन्द्र त्वं यदि तं द्रष्टुमिच्छसि ।
कथयिष्यामि ते सर्वं श्रूयतां यदि रोचते ॥ १७ ॥
कृते युगे व्यतीते वै मुखे त्रेतायुगस्य तु ।
हितार्थं देवमर्त्यानां भविता नृपविग्रहः ॥ १८ ॥
इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि ।
तस्य सूनुर्महातेजा रामो नाम भविष्यति ॥ १९ ॥
महातेजा महाबुद्धिर्महाबलपराक्रमः ।
महाबाहुर्महासत्त्वः क्षमया पृथिवीसमः ॥ २० ॥
आदित्य इव दुष्प्रेक्ष्यः समरे शत्रुभिः सदा ।
भविता हि तदा रामो नरो नारायणः प्रभुः ॥ २१ ॥
पितुर्नियोगात्स विभुर्दण्डके विविधे वने ।
विचरिष्यति धर्मात्मा सह भ्रात्रा महात्मना ॥ २२ ॥
तस्य पत्नी महाभागा लक्ष्मीः सीतेति विश्रुता ।
दुहिता जनकस्यैषा उत्थिता वसुधातलात् ॥ २३ ॥
रूपेणाप्रतिमा लोके सर्वलक्षणलक्षिता ।
छायेवानुगता रामं निशाकरमिव प्रभा ॥ २४ ॥
शीलाचारगुणोपेता साध्वी धैर्यसमन्विता ।
सहस्रांशो रश्मिरिव ह्येकमूर्तिरिव स्थिता ॥ २५ ॥
एवं ते सर्वमाख्यातं मया रावण विस्तरात् ।
महतो देवदेवस्य शाश्वतस्याव्ययस्य च ॥ २६ ॥
एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् ।
त्वया सह विरोधेच्छुश्चिन्तयामास राघव ॥ २७ ॥
[ संनत्कुमारात्तद्वाक्यं श्रुत्वा राक्षसपुङ्गवः ।
अनुज्ञातं रिपुं प्रायात्प्रणिपत्य महामुनिम् ॥ २८ ॥ ]
वाक्यं सनत्कुमारस्य चिन्तयानो मुहुर्मुहुः ।
रावणो मुमुदे श्रीमान्युद्धार्थी विचचार ह ॥ २९ ॥
श्रुत्वा च तां कथां रामो विस्मयोत्फुल्ललोचनः ।
शिरसश्चालनं कृत्वा तमर्थं परिचिन्तयन् ॥ ३० ॥
श्रुत्वा तु वाक्यं च नरेश्वरस्तदा मुदा युतो विस्मयमानचक्षुः ।
पुनश्च तं ज्ञानवतां प्रधानमुवाच वाक्यं वद मे पुरातनम् ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥