विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
मूलम्
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
विषयाः
अगस्त्येन रामं प्रति रावणेन सीता-हरणे कारण-कथनारंभः ॥ १ ॥
कदाचन सनत्-कुमारं दृष्टवता रावणेन
तं प्रति चराचर-नियन्तृ-प्रश्ने
तेन तं प्रति नारायणस्य तन्-महिमत्वोक्तिः ॥ २ ॥
तथा तेन रावणं प्रति हरि-कर-निहतानां शाश्वत-तल्-लोक-प्राप्ति-निवेदनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
एतां श्रुत्वा कथां दिव्यां पौराणीं राघवस्ततः ।
भ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥ १ ॥
राघवोथ ऋषेर्वाक्यं श्रुत्वा वचनमब्रवीत् ।
कथेयं महती पुण्या त्वत्प्रसादाच्छ्रुता मया ॥ २ ॥
बृहत्कौतूहलेनास्मि संवृतो मुनिपुङ्गव ।
उत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥
ब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ।
जातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥
एवमुक्ते तु रामेण कुम्भयोनिरभाषत ।
एवमेतन्महाबाहो वृत्तमासीत्पुरा किल ॥ ५ ॥
अथापरां कथां दिव्यां शृणु राजन्सनातनीम् ।
यदर्थं राम वैदेही रावणेन पुरा हृता ।
तत्तेऽहं कीर्तयिष्यामि समाधिं श्रवणे कुरु ॥ ६ ॥
पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् ।
सनत्कुमारमासीनं रावणो राक्षसाधिपः ।
ददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ॥ ७ ॥
विनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ।
उक्तवान्रावणो राम तमृषिं सत्यवादिनम् ॥ ८ ॥
को ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ।
यं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥
कं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ।
एतन्मे शंस भगवन्विस्तरेण तपोधन ॥ १० ॥
विदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ।
उवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥
यो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे ।
सुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥
यस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ।
येन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥
तं समाश्रित्य विबुधा विधिना हरिमध्वरे ।
पिबन्ति ह्यमृतं चैव मानवाश्च यजन्ति तम् ॥ १४ ॥
पुराणेश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ।
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥
दैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ।
सर्वाञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥
श्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ।
उवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥
दैत्यदानवरक्षांसि ये हताः समरेऽरयः ।
कां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥
रावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः ।
दैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥
पुनस्तस्मात्परिभ्रष्टा जायन्ते वसुधातले ।
पूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥
ये ये हताश्थक्रधरेण राजंस्त्रिलोकनाथेन जनार्दनेन ।
ते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ २१ ॥
श्रुत्वा ततस्तद्वचनं निशाचरः सनत्कुमारस्य मुखाद्विनिर्गतम् ।
तथा प्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥