०१ वालि-सुग्रीव-जन्म

विश्वास-प्रस्तुतिः

प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥

मूलम्

प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥

विषयाः

रामं प्रत्य् अगस्त्येन
मेरु-टङ्ग-निवासिनो ब्रह्मणो नेत्रांबु-जाताद् ऋक्ष-रजो–नामक-वानर-वराद्
वालि-सुग्रीव-जनन-प्रकार-निरूपणम् ॥ १ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु निखिलं राघवोऽगस्त्यमब्रवीत् ।
य एषर्क्षरजा नाम वालिसुग्रीवयोः पिता ॥ १ ॥
जननी का च भगवन्न त्वया परिकीर्तिता ।
वालिसुग्रीवयोर्ब्रह्मन्माता मे नामतः कुतः ।
एतद्बह्मन्समाचक्ष्व कौतूहलमिदं हि नः ॥ २ ॥
स प्रोक्तो राघवेणैवमगस्त्यो वाक्यमब्रवीत् ॥ ३ ॥
शृणु राम कथामेतां यथापूर्वं समासतः ।
नारदः कथयामास ममाश्रममुपागतः ॥ ४ ॥
कदाचिदटमानोसावतिथित्वमुपागतः ।
अर्चितस्तु यथान्यायं विधिदृष्टेन कर्मणा ॥ ५ ॥
सुखासीनः कथां त्वेनां मया पृष्टः स कौतुकात् ।
कथयामास धर्मात्मा महर्षे श्रूयतामिति ॥ ६ ॥
मेरुर्नगवरः श्रीमाञ्जाम्बूनदमयः शुभः ।
तस्य यन्मध्यमं शङ्गं सर्वदैवतपूजितम् ॥ ७ ॥
तस्मिन्दिव्या सभा रम्या ब्राह्मी या शतयोजना ।
तस्यामास्ते सदा देवः पद्मयोनिश्चतुर्मुखः ॥ ८ ॥
योगमभ्यसतस्तस्य नेत्राभ्यां यद्रसोस्रवत् ।
तद्गृहीतं भगवता पाणिना चर्चितं तु तत् ॥ ९ ॥
निक्षिप्तमात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा ।
तसिन्नश्रुकणे राम वानरः संबभूव ह ॥ १० ॥
उत्पन्नमात्रस्तु तदा वानरश्च नरोत्तम ।
समाश्वास्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥ ११ ॥
पश्य शैलं सुविस्तीर्णं सुरैरध्युपितं तदा ।
तस्मिन्रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२ ॥
ममान्तिकचरो नित्यं भव वानरपुङ्गव ।
कंचित्कालमिहास्स्व त्वं तव श्रेयो भविष्यति ॥ १३ ॥
एवमुक्तः स चैतेन ब्रह्मणा वानरोत्तमः ।
प्रणम्य शिरसा पादौ देवदेवस्य राघव ।
उक्तवाँल्लोककर्तारमादिदेवं जगद्गुरुम् ॥ १४ ॥
यथाऽऽज्ञापयसे देव स्थितोऽहं तव शासने ।
एवमुक्त्वा हरिर्देवं ययौ हृष्टमनास्तदा ॥ १५ ॥
स तदा द्रुमषण्डेषु फलपुष्पधनेषु च ।
ब्रह्मप्रतिबलः शैध्र्ये बने फलकृताशनः ॥ १६ ॥
क्वचिन्मधूनि मुख्यानि चिन्वन्पुष्पाण्यनेकशः ।
दिनेदिने च सायान्हे ब्रह्मणोन्तिकमागमत् ॥ १७ ॥
गृहीत्वा राम मुख्यानि पुष्पाणि च फलानि च ।
ब्रह्मणो देवदेवस्य पादमूले न्यवेदयत् ॥ १८ ॥
एवं तस्य गतः कालो बहुः पर्यटतो गिरिम् ॥ १९ ॥
कस्यचित्त्वथ कालस्य समतीतस्य राघव ।
ऋक्षराड्वानरश्रेष्ठस्तृष्णया परिपीडितः ॥ २० ॥
उत्तरं मेरुशिखरं गतस्तत्र च दृष्टवान् ।
नानाविहङ्गसंघुष्टं प्रसन्नसलिलं सरः ॥ २१ ॥
चलत्केसरमात्मानं कृत्वा तस्य तटे स्थितः ।
ददर्श तस्मिन्त्सरसि वक्त्रच्छायामथात्मनः ॥ २२ ॥
कोऽयमस्मिन्मम रिपुर्वसत्यन्तर्जले महान् ।
रूपं चान्तर्गतं तत्र वीक्ष्य तत्पाथसो हरिः ॥ २३ ॥
क्रोधाविष्टमना ह्येष नियतं माऽवमन्यते ।
तदस्य दुष्टभावस्य कर्तव्यो निग्रहो मया ॥ २४ ॥
एवं संचिन्त्य मनसा स वै वानरचापलात् ।
आप्लुत्य चापतत्तस्मिन्ह्रदे वानरसत्तमः ॥ २५ ॥
उत्प्लुत्य तस्मात्सरस उत्थितः प्लवगः पुनः ।
तस्मिन्नेव क्षणे राम स्त्रीत्वं प्राप स वानरः ॥ २६ ॥
मनोज्ञरूपा सा नारी लावण्यललिता शुभा ।
विस्तीर्णजघना सुभ्रूर्नीलकुञ्चितसूर्धजा ॥ २७ ॥
मुग्धा सस्मितवक्त्रा च पीनस्तनतटा शुभा ।
ह्रदतीरस्थिता भाति ऋजुयष्टिर्लता तथा ॥ २८ ॥
त्रैलोक्यसुन्दरी कान्ता सर्वचित्तप्रमाधिनी ।
लक्ष्मीव पद्मरहिता चन्द्रज्योत्स्नेव निर्मला ॥ २९ ॥
रूपेणाप्यभवत्सा तु श्रीर्गीर्देवी उमा यथा ।
द्योतयन्ती दिशः सर्वास्तत्राभूत्सा वराङ्गना ॥ ३० ॥
एतस्मिन्नन्तरे देवो निवृत्तः सुरनायकः ।
पादावुपास्य देवस्य ब्रह्मणस्तेन वै पथा ॥ ३१ ॥
तस्यामेव च वेलायामादित्योपि परिभ्रमन् ।
तस्मिन्नेव वने सोभूद्यस्मिन्त्सा तनुमध्यमा ॥ ३२ ॥
युगपत्सा तदा दृष्टा देवाभ्यां सुरसुन्दरी ।
कन्दर्पवशगौ तौ तु दृष्ट्वा तां संबभूवतुः ॥ ३३ ॥
ततः क्षुभितसर्वाङ्गौ सुरेन्द्रतपनावुभौ ।
तद्रूपमद्भुतं दृष्ट्वा त्याजितौ धैर्यमात्मनः ॥ ३४ ॥
ततस्तस्यां सुरेन्द्रेण स्कन्नं शिरसि पातितम् ।
अनासाद्यैव तां नारीं सन्निवृत्तमथोऽभवत् ।
ततः सा वानरपतिं प्रासूत बलशालिनम् ॥ ३५ ॥
अमोघरेतस्त्वात्तस्य वासवस्य महात्मनः ।
वालेषु पतितं बीजं वाली नाम बभूव ह ॥ ३६ ॥
भास्करेणापि तस्यां वै कन्दर्पवशवर्तिना ।
बीजं तु सिक्तं ग्रीवायां विधानमनुवर्तिना ।
तेनापि सा वरतनुर्नोक्ता किंचिद्वचः शुभम् ॥ ३७ ॥
निवृत्तमदनश्चाथ सूर्योपि समपद्यत ।
ग्रीवायां पतिते बीजे सुग्रीवः समजायत ॥ ३८ ॥
एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥
दत्वा तु काञ्चनीं मालां वानरेन्द्रस्य बालिनः ।
अक्षय्यां गुणसंपूर्णां शक्रस्तु त्रिदिवं ययौ ॥ ४० ॥
सूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् ।
कृत्येषु व्यवसायेषु जगाम सविताऽम्बरम् ॥ ४१ ॥
तस्यां निशायां व्युष्टायामुदिते च दिवाकरे ।
स तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥
स एव वानरो भूत्वा पुत्रौ स्वस्य प्लवङ्गमौ ।
पिङ्गेक्षणी हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥
मधून्यमृतकल्पानि पायितौ तेन तौ तदा ।
गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥
दृष्ट्वार्क्षवरजसं पुत्रं ब्रह्मा लोकपितामहः ।
बहुशः सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥
सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् ।
गच्छ मद्वचनाद्दूत किष्किन्धां नाम वै शुभाम् ॥ ४६ ॥
सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ।
तत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥
बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ।
पण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा ।
विश्वकर्मकृता दिव्या मनियोगाच्च शोभना ॥ ४८ ॥
तत्रर्क्षरजसं पुत्रं सपुत्रं वानरर्षभम् ।
यूथपालान्समाहूय यांश्चान्यान्प्राकृतान्हरीन् ॥ ४९ ॥
तेषां संभाव्य सर्वेषां मदीयं जनसंसदि ।
अभिषेचय राजानमारोप्य महदासने ॥ ५० ॥
दृष्टमात्राश्च ते सर्वे वानरेण च धीमता ।
अस्यर्क्षरजसो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥
इत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् ।
पुरतःकृत्य दूतोसौ प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥
स प्रविश्यानिलगतिस्तां गुहां वानरोत्तमम् ।
स्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥
राज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा ।
स बद्धमुकुट श्रीमानभिषिक्तः स्वलंकृतः ॥ ५४ ॥
आज्ञापयामास हरीन्सर्वान्मुदितमानसः ।
सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥
वालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ।
जननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥
यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः ।
सिद्ध्यन्ति तस कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥
एतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव ।
उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥