०३३ रावण-मोचनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः

विषयाः

दैवत-मुखाद् अर्जुन-कृत-रावण-बन्धन-श्राविणा पुलस्त्येन
माहिष्मतीम् एत्यार्जुनाद् रावण-मोचनम् ॥ १ ॥

विश्वास-प्रस्तुतिः

रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥
ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महाधृतिः ।
माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥

मूलम्

रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥
ततः पुत्रकृतस्त्रेहात्कम्प्यमानो महाधृतिः ।
माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥

व्याख्या

कम्प्यमानः अनुकम्पायुक्ततया संपद्यमानः । यद्वा पौत्रस्नेहात्कम्पित इत्यर्थः । महाघृतेरपि कम्पितं हृदयमित्यर्थः ॥ २ ॥

विश्वास-प्रस्तुतिः

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।
पुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥

मूलम्

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।
पुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥

व्याख्या

मनःसंपातविक्रमः मनोगतिः । वायुतुल्यगतिः वायुसमानवेगः ॥ ३ ॥

विश्वास-प्रस्तुतिः

सोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् ।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥

मूलम्

सोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् ।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥

व्याख्या

अमरावतिसंकाशामित्यत्र ङयापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः ॥ ४ ॥

विश्वास-प्रस्तुतिः

पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।
ततस्ते प्रत्यभिज्ञाय चार्जुनाय निवेदयन् ॥ ५ ॥
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।
शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ६ ॥
पुरोहितोस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।
पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।
अर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥
अद्यैवममरावत्या तुल्या माहिष्मती कृता ।
अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ १० ॥
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ ११ ॥

सुदुर्दशं दुर्दर्शमिति यावत् । प्रत्युद्गच्छत् प्रत्युद्गच्छत । ईश्वरं ब्रह्माणम् ॥ ५-११ ॥

विश्वास-प्रस्तुतिः

इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२ ॥

मूलम्

इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२ ॥

व्याख्या

किं कुर्मि किं करवाणि किं वा कार्यं मया ॥ १२ ॥

विश्वास-प्रस्तुतिः

तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।
पुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।
अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।
सोयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥

शिवं कुशलं । पुलस्त्योवाचेति सन्धिराषः ॥ १३-१५ ॥

विश्वास-प्रस्तुतिः

पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।
मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ॥ १६ ॥

मूलम्

पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।
मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ॥ १६ ॥

व्याख्या

पुत्रकस्य मदीयबालकस्य । नाम विश्रावितं रावणजिदिति नाम त्वया त्रैलोक्ये विश्रावितं । वत्सं बालम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

पुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुनः ।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥

मूलम्

पुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुनः ।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥

व्याख्या

किंचिद्वचोपि नोवाच किंचन अविद्यमानं किंचिद्वचनं न किंचिद्वप्यवददित्यर्थः । अपि तु क्रिया केवलमुत्तरमिति मुमोचेत्यर्थः । प्रहृष्टवत् ब्रह्मणा प्रार्थनीयोस्मीति संतोषयुक्तः सन् ॥ १७ ॥

विश्वास-प्रस्तुतिः

स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्त्रगम्बरैः ।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥

मूलम्

स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्त्रगम्बरैः ।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥

परस्परहिंसाप्रवृत्तिनिवारणसाधनभूतं साग्निकं अग्निसाक्षिपूर्वकम् ॥ १८ ॥

पुलस्त्येनापि संत्यक्तो राक्षसेन्द्रः प्रतापवान् ।
परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ १९ ॥
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगामह ॥ २० ॥
एवं स रावणः प्राप्तः कार्तवीर्यात्मधर्षणम् ।
पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ २१ ॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।
नावज्ञा हि परे कार्या य इच्छेत्प्रियमात्मनः ॥ २२ ॥
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।
पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥

अपिना अर्जुनेनापीति समुच्चीयते । कृतातिथ्य इति । अर्जुनेनेति शेषः ॥ १९-२३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥