विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः
विषयाः
नर्मदायां रावणोपवेश-देशतो ऽर्वाग्-देशे
स्त्रीभिः सह जल-क्रीडां कुर्वताऽर्जुनेन
निज-भुज-सहस्त्रेण नर्मदा-प्रवाहे निरुद्धे
प्रतिस्रोतसा तत्-प्रवाहेण
रावणार्जित-पूजा-साधन-पुष्पाद्य्-अपहरणम् ॥ १ ॥
प्रवाह-प्रातिलोम्य-परिज्ञानाय स्वप्रेषिताभ्यां शुक-सारणाभ्यां
तत्-कारणं निवेदितेन रावणेनार्जुनम् एत्य
रणाय समाह्वानम् ॥ २ ॥
अर्जुनेन रणे निज-गदा-प्रहारेण विह्वलस्य रावणस्य
बलाद् बन्धनेन निज-नगर-प्रापणम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥
तासां मध्यगतो राजा रराज च तदाऽर्जुनः ।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ४ ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥
मूलम्
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥
तासां मध्यगतो राजा रराज च तदाऽर्जुनः ।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ४ ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥
व्याख्या
प्रतिस्रोतः प्रतिप्रवाहम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
समीननक्रमकरः सपुष्पकुशसंस्तरः ।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥
स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः ।
पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥
मूलम्
समीननक्रमकरः सपुष्पकुशसंस्तरः ।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥
स वेगः कार्तवीर्येण संप्रेषित इवाम्भसः ।
पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥
व्याख्या
कुशसंस्तरः कुशास्तरणम् ॥ ६-७ ॥
विश्वास-प्रस्तुतिः
रावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा ।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥
मूलम्
रावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा ।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥
व्याख्या
रावण इत्यादिश्लोकद्वयम् ॥ सागरोद्गारसन्निभं समुद्रपरीवाहसन्निभं । पूर्वामाशां प्रविश्यत्विति । पूर्वामाशां प्रविश्य पश्यत इत्यन्वयः । रावण इति शेषः ॥ ८-९ ॥
विश्वास-प्रस्तुतिः
ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥
मूलम्
ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥
स्वभावस्य नदीस्वभावस्योपरमेऽलंभावे स्थितां नदीमपश्यत् । नद्या एव स्वभावो निमित्तान्तरेण वेति जिज्ञासयेति शेषः ॥ १० ॥
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।
वेगप्रभवमन्वेष्टुं सोदिशच्छुकसारणौ ॥ ११ ॥
तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ ।
व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ १२ ॥
सव्येतरकराङ्गुल्या सशब्दं शीघ्रान्वेषणद्योतिहुंकारसंहितं यथा तथा ॥ ११-१२ ॥
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।
मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ १४ ॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥
बालानां वरनारीणां सहस्रेण समावृतम् ।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।
सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥
पश्येतां अपश्यतामित्यर्थः ॥ १३-१७ ॥
बृहत्सालप्रतीकाशः कोप्यसौ राक्षसेश्वर ।
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ १८ ॥
तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।
सागरोद्गारसंकाशानुद्गारान्त्सृजते मुहुः ॥ १९ ॥
रोधवत् तटवत् । अकारान्तत्वमार्षं । क्रीडापयतीतिपुगार्षः क्रीडयतीत्यर्थः ॥ १८-१९ ॥
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।
रावणोर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ २० ॥
निशाम्य दृष्ट्वा । अर्जुन इत्युक्तत्वेति । अन्यस्यैवं सामर्थ्यं न संभवतीति युक्त्येति शेषः ॥ २० ॥
अर्जुनाभिमुखे तेस्मिन्रावणे राक्षसाधिपे ।
चण्डः प्रवाति पवनः सनादः सरजास्तदा ।
सकृदेव कृतो रावः सरक्तः प्रेषितो धनैः ॥ २१ ॥
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ॥ २२ ॥
अदीर्घेणैव कालेन स तदा राक्षसो बली ।
तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥
रावणस्योत्पातमाह-सकृदिति ॥ सरक्तः रक्तवर्षसहितः । रावः शब्दः । सकृत् एकवारमेव । घनैः प्रेषितः कृतः । वर्षकमेघानां सकृद्राव उत्पात इति भावः ॥ २१-२३ ॥
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।
नरेन्द्रं पश्यते राजा राक्षसानां तदाऽऽर्जुनम् ॥ २४ ॥
वाशिताभिः करेणुभिः । वाशिता स्त्रीकरेण्वोश्च इत्यमरः । पश्यते पश्यति ॥ २४ ॥
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।
इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ॥ २६ ॥
रावणस्य वचः श्रुत्वा मन्त्रिणोथार्जुनस्य ते ।
उत्तस्थुः सायुधास्राथ रावणं वाक्यमब्रुवन् ॥ २७ ॥
इत्येवं वक्ष्यमाणप्रकारेण ॥ २५-२७ ॥
युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ।
यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहसे नृपम् ॥ २८ ॥
स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम् ।
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ २९ ॥
युद्धस्येत्यादि । व्यङ्ग्योक्तिः । क्षीबं मत्तम् ॥ २८-२९ ॥
क्षमस्वाद्य दशग्रीव चोष्यतां शर्वरी त्वया ।
युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ ३० ॥
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।
निहत्यामांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३१ ॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ३२ ॥
ततो हलहलाशब्दो नर्मदातीर आबभौ ।
अर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ ३३ ॥
उष्यतां इहेति शेषः ॥ ३०-३३ ॥
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।
सरावणा नर्दयन्तः समन्तात्समभिद्रुताः ॥ ३४ ॥
कर्षणं आयुधविशेषः ॥ ३४ ॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।
सनक्रमीनमकरसमुद्रस्येव निस्वनः ॥ ३५ ॥
रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।
कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ ३६ ॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ३७ ॥
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः ।
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ३८ ॥
वेगो युद्धवेगः ॥ ३५-३८ ॥
क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः ।
प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ३९ ॥
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ४० ॥
युगान्ते युगान्तकाले उत्थितो घोरः पावक इव ॥ ३९-४० ॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।
गारुडं वेगमास्थाय चापपातैव सोर्जुनः ॥ ४१ ॥
तस्य मार्गं समारुध्य विन्ध्योर्कस्येव पर्वतः ।
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ४२ ॥
बाहुभिर्विक्षेपकरणं भ्रमणं यस्यास्तां । वेगः शैघ्र्यं आपपातैव न तु विलम्बितवान् ॥ ४१-४२ ॥
ततोस्य मुसलं घोरं लोहबद्धं महोद्धतः ।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाऽम्बुदः ॥ ४३ ॥
अस्य प्रेषयन् अर्जुनस्य संहारार्थं क्षिपन् ॥ ४३ ॥
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ४४ ॥
अशोकपुष्पकृतः आपीडः अशोकापीडः ॥ ४४ ॥
अथायान्तं तु मुसलं कार्तवीर्यस्तदाऽर्जुनः ।
निपुणं वञ्चयामास सगदोऽगदविक्रमः ॥ ४५ ॥
वञ्चयामास प्रतिहतवानित्यर्थः । सगदः गदासहितः । अगदः अरोगः अप्रतिबन्धइतियावत् । विक्रमो यस्येति विग्रहः ॥ ४५ ॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।
भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ४६ ॥
पञ्चबाहुशतैः उच्छ्रय उत्क्षेपो यस्याः सा ॥ ४६ ॥
तथाहतोतिवेगेन प्रहस्तो गदया तदा ।
निपपात हतः शैलो वज्रिवज्रहतो यथा ॥ ४७ ॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।
समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ४८ ॥
अपक्रान्तेष्वमात्येषु प्रहस्ते विनिपातिते ।
रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४९ ॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।
नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ ५० ॥
तथा शैल इव स्थितः निपपात ॥ ४७-५० ॥
सागराविव संरब्धौ चलन्मूलाविवाचलौ ।
तेजोयुक्ताविवादित्यो प्रदहन्ताविवानलौ ॥ ५१ ॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५२ ॥
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५३ ॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।
गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ५४ ॥
सागरावित्यादिश्लोकत्रयं । वाशितार्थे करेण्वर्थे । युध्यन्ताविति शेषः ॥ ५१-५४ ॥
यथाशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ।
तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५५ ॥
प्रतिश्रुताः प्रतिश्रुतवन्त इत्यर्थः । मत्वर्थीयाजन्तः । गदापोथैः गदापातैः ॥ ५५ ॥
अर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि ।
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ ५६ ॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ५७ ॥
नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।
इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ५८ ॥
शृङेगैरिव वृषा युध्यन्दन्तागैरिव कुञ्जरौ ।
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ५९ ॥
ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।
स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ६० ॥
विद्युद्विशेषेण द्योतमाना सौदामिनी नभ इव राक्षसोरः काञ्चनाभं स्वर्णवर्णं चकार ॥ ५६-६० ॥
वरदानकृतत्राणे सा गदा रावणोरसि ।
दुर्बलेव यथावेगं द्विधा भूत्वाऽपतत्क्षितौ ॥ ६१ ॥
दुर्बलेव बलरहितेव । यथावेगं स्ववेगोचितं । प्रहर्तुं स्वयं द्विधा भूत्वा क्षितावपतत् । तत्र हेतुः -वरदानकृतत्राण इति ॥ ६१ ॥
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ६२ ॥
स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ६३ ॥
स तं बाहुसहस्रेण बलागृह्य दशाननम् ।
बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ६४ ॥
निष्टनन् रटन् । ६२-६४ ॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।
साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ६५ ॥
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६६ ॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।
सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ६७ ॥
नक्तंचराणां वेगस्तु तेषामापततां बभौ ।
उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ६८ ॥
मुञ्चमुश्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।
मुसलानि सशूलानि सोत्ससर्ज तदाऽर्जुने ॥ ६९ ॥
अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदाऽर्जुनः ।
आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७० ॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।
भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७१ ॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्योऽर्जुनस्तदा ।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७२ ॥
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।
तदाऽर्जुनः संप्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७३ ॥
साध्वीति वादिनः इयं क्रिया साध्वीति वदन्तः ॥ ६५-७३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥