विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः
विषयाः
अगस्त्य-मुखाद् बहुशो रावण-विजय-श्राविणाद्
रामेण तं प्रति रावण-जेतृ-सत्त्व-संदेहेन प्रश्ने
तं प्रत्य् अगस्त्येन रावण-पराजय-कथनोपक्रमः ॥ १ ॥
कार्तवीर्यार्जुन-जिगीषया
माहिष्मतीं गतेन रावणेन
तद्-अमात्यान् प्रति
राज्ञि रणाय निजाह्वान-निवेदन-चोदना ॥ २ ॥
तैर् नगरे ऽर्जुनासांनिध्यं बोधितेन रावणेन
नर्मदाम् एत्य
तत्र स्नानाह्निक-करण-पूर्वकं
तत्-पुलिने सचिवानीत-कुसुमादि-साधनैः शिव-लिङ्गार्चनोपक्रमः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ततो रामो महातेजा विस्मयात्पुनरेव हि ।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।
पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ २ ॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।
धर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥ ३ ॥
मूलम्
ततो रामो महातेजा विस्मयात्पुनरेव हि ।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।
पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ २ ॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।
धर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥ ३ ॥
व्याख्या
येन कारणेन रावणो धर्षणं न प्राप्तः । तस्मात्तदा तत्काले राजाक्षत्रियोवा राजमात्रोवा अक्षत्रियोपि प्रभुर्वा कश्चन नासीत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।
बहिष्कृता वराश्चैव बहवो निर्जिता नृपाः ॥ ४ ॥
मूलम्
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।
बहिष्कृता वराश्चैव बहवो निर्जिता नृपाः ॥ ४ ॥
व्याख्या
उताहो इति पक्षान्तरे वर्तते । अथवा विद्यमानाएव पृथिवीक्षितः हतवीर्याः वीर्यरहिता आसन् । अथवा वीर्यवत्त्वेपि वरास्त्रैर्दिव्यास्त्रैर्बहिष्कृताः सन्तः निर्जिताः इत्युवाचेति पूर्वेणान्वयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।
उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ५ ॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।
चचार रावणो राम पृथिवीं पृथिवीपते ॥ ६ ॥
मूलम्
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।
उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ५ ॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।
चचार रावणो राम पृथिवीं पृथिवीपते ॥ ६ ॥
व्याख्या
रावणापजयस्मरणप्रीत्या प्रहसन्नित्युक्तं । रामस्यामर्षो वर्तत इति मुनेर्मन्दहासो वा । ईश्वरं अग्निप्रधानशौर्यादिक्षत्रगुणं रुद्रम् ॥ ५-६ ॥
विश्वास-प्रस्तुतिः
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।
संप्राप्तो यत्र सान्निध्यं सदाऽऽसीद्वसुरेतसः ॥ ७ ॥
मूलम्
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।
संप्राप्तो यत्र सान्निध्यं सदाऽऽसीद्वसुरेतसः ॥ ७ ॥
व्याख्या
वसुरेतसः अग्नेः सान्निध्यं प्राकाररूपेण नित्यसान्निध्यमित्यर्थः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।
अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ८ ॥
मूलम्
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।
अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ८ ॥
व्याख्या
शरकुण्डेशयः शरास्तरणवत् कुण्डमग्निकुण्डं तत्र शेत इति तथा । पचाद्यच् शयवासवासिषु इत्यलुक् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तमेव दिवसं सोथ हैहयाधिपतिर्बली ।
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥
तमेव दिवसं सोथ रावणस्तत्र आगतः ।
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ १० ॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।
रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।
समागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ११ ॥
मूलम्
तमेव दिवसं सोथ हैहयाधिपतिर्बली ।
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥
तमेव दिवसं सोथ रावणस्तत्र आगतः ।
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ १० ॥
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।
रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।
समागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ११ ॥
तमेवदिवसमिति, यस्मिन्दिवसे रावणोगतस्तस्मिन्नेव दिवसइत्यर्थः। स्त्रीभी रन्तुं नर्मदां गत इत्यन्वयः । ईश्वरः राजा ॥ ९-११ ॥
इत्येवं रावणोक्तास्ते अमात्याः सुविपश्चितः ।
अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ १२ ॥
अब्रुवन् ब्रुवते स्म ॥ १२ ॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।
अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥ १३ ॥
विश्रवसः पुत्रो रावणः। पौराणां मुखादिति शेषः । अपसृत्य पुरान्निवृत्त्य ॥ १३ ॥
स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् ।
अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ १४ ॥
स इत्यादिसार्धपञ्चकम् ॥ अभ्रमिव महामेघमिवाविष्टं । मेदिनीमुद्धान्तमिव उद्भिद्योद्गतमिव ॥ १४ ॥
सहस्रशिखरोपेतं सिंहाध्युपितकन्दरम् ।
प्रपातपतितस्तोयैः साट्टहासमिवाम्बुधिम् ॥ १५ ॥
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।
स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ १६ ॥
सहस्रशिखरोपेतं । प्रपातपतितैः तटात्पतितैः । प्रपातस्तु तट इत्यमरः ॥ १५-१६ ॥
नदीभिः स्यन्दमानाभिः स्फाटिकप्रतिमं जलम् ।
फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥ १७ ॥
स्फटिकप्रतिमं जलं स्यन्दमानाभिर्नदीभिर्हेतुभिर्जिह्वाभिरुपलक्षितमनन्तमिव विष्ठितम् ॥ १७ ॥
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।
पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ १८ ॥
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।
उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् ॥ १९ ॥
चक्रवाकैः सकारण्डैः सहसजलकुक्कुटैः ।
सारसैश्च सदा मत्तैः सुकुजद्भिः समावृताम् ॥ २० ॥
उत्क्रामन्तंऊर्ध्वं व्याप्नुवानं । उल्कावन्तमिति पाठान्तरं । चलोपलजलां उपलेषु चलानि जलानि यस्यास्तां । चलोपलामलामिति पाठे जलवेगेन चलोपलतया निर्मलाम् ॥ १८-२० ॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ २१ ॥
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ॥ २२ ॥
पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।
इष्टामिव वरां नारीभवगाह्य दशाननः ॥ २३ ॥
स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।
उपोपविष्टेः सचिवैः सार्धं राक्षसपुङ्गवः ॥ २४ ॥
अथ नर्मदायाः स्त्रीसाम्यमाह – फुल्लद्रुमेत्यादिना ॥ २१-२४ ॥
प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः ।
नर्मदादर्शजं हर्षमाप्तवान्राक्षसाधिपः ॥ २५ ॥
नर्मदां गङ्गेयमिति प्रख्याय प्रशस्य ॥ २५ ॥
उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ २६ ॥
सलीलं सविलासम् ॥ २६ ॥
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।
तीक्ष्णतापकरः सूर्यो नभसोऽर्धं समाश्रितः ॥
मामासीनं विदित्वेह चन्द्रायति दिवाकरः ॥ २७ ॥
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।
मद्भयादनिलोप्यत्र वात्येष सुसमाहितः ॥ २८ ॥
एष इत्यादिसार्धम् ॥ काञ्चनं कृत्वा सुवर्ण कृत्वेत्यर्थः । चन्द्रायति चन्द्रवदाचरति ॥ २७-२८ ॥
इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।
नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥ २९ ॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ३० ॥
नर्मवर्धिनी प्रीतिवर्धिनीत्यर्थः ॥ २९-३० ॥
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।
महापद्ममुखा मत्ता गङ्गामिव महागजाः ।
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ३१ ॥
अवगाहध्वं स्नानं कुरुत । शर्मदां सुखदां । महापद्मः पुण्डरीकाख्यो दिग्गजस्तन्मुखाः महाराजा इव ॥ ३१ ॥
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।
पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ३२ ॥
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।
समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ३३ ॥
राक्षसेन्द्र गजैस्तैस्तु क्षोभिता नर्मदा नदी ।
वामनाञ्जनपद्माद्यैगङ्गा इव महागजैः ॥ ३४ ॥
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।
उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ३५ ॥
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।
राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ ३६ ॥
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३७ ॥
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।
नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ३८ ॥
पुष्पोपहारं पुष्पबलिम् ॥ ३२-३८ ॥
तत्र क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।
रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ॥ ३९ ॥
यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ४० ॥
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ४१ ॥
तत्र नर्मदापुलिने । प्राञ्जलिं रुद्रं प्रति कृताञ्जलिं । तद्गतीवशमिति च्छान्दसो दीर्घः । मूर्तिमन्तः प्राण्याकाराः अचला इव स्थिताः राक्षसाः । तत्र तत्र नीयत इति प्रतिदिवसं देवपूजार्थं तैः राक्षसैरिति शेषः । यदा कैलासे रावणः पीडितो विमुक्तः तदाप्रभृति तत्प्रीत्यर्थं रावणो लिङ्गपूजां करोति स्मेति ज्ञेयम् ॥ ३९-४१ ॥
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।
समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ ४२ ॥
जगाविति । सामगानं कृतवानित्यर्थः । साम्नां सहस्रशाखापारगो रावण इति प्रसिद्धिः ॥ ४२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥