विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥
मूलम्
प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥
कदाचनसचिवैः सहपश्चिमार्णवंगतेनरावणेन क्वचनद्वीपे कस्यचिन्महापुरुषस्यदर्शनम् ॥ १ ॥ तेनयुद्धायात्मानमाहूतवतोरावणस्य लीलयाऽत्यल्पमुष्टिप्रहारेणनिपातनपूर्वकं पातालप्रवेशः ॥ २ ॥ ततःप्रबुध्यसचिववचनात्पातालंप्रविष्टेनरावणेन सर्वाभरणभूषितानां तुल्यरूपाणांमहापुरुषाणांकोटित्रयावलोकनम् ॥ ३ ॥ ब्रह्मवरविभवात्ततः पुरतोनिर्गतेनतेन भुजगशायिनः कपिलरूपिणोहरेरवलोकनम् ॥ ४ ॥ कपिलेन स्वसमीपवर्तिकमलावलोकनेन कामवशतया तज्जिघृक्षोस्तस्य निज निश्वासमारुतेनभुविपातनपूर्वकं तंप्रति ब्रह्मवरमाननाय स्वेनाहननकथनम् ॥ ५ ॥ रावणेनतस्यनारायणत्वनिर्धारणेन तंप्रति तद्धस्तेनस्वस्यवध -प्रार्थनसमकालंतदङ्गे सचराचरसकललोकावलोकनम् ॥ ६ ॥ रामप्रश्नादगस्त्येनतंप्रति द्वीपवासिनो महापुरुषस्य श्रीनारायणावताररूपकपिलत्वनिवेदनम् ॥ ७ ॥
[ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः ।
पुनरेवागमत्क्षिप्रं ब्रह्मलोकं पितामहः ॥
रावणोपि वरं लब्ध्वा पुनरेवागमत्तथा ॥ १ ॥ ]
केनचित्रथ कालेन रावणः प्रययौ गृहात् ।
पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसैः ॥ २ ॥
द्वीपस्थो ददृशे तेन पुरुषः पावकप्रभः ।
महाजाम्बूनदप्रख्य एक एव व्यवस्थितः ॥ ३ ॥
यथा दृश्येत भयदो युगान्तानल उत्थितः ।
देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ४ ॥
शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा ।
पर्वतानां यथा मेरुः पारिजातश्च शाखिनाम् ॥ ५ ॥
तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं तथा ।
गर्जन्तं विविधैर्नादर्लम्बहस्तं भयानकम् ॥ ६ ॥
दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् ।
मण्डूककुक्षि पिंगाक्षं कैलासशिखरोपमम् ॥ ७ ॥
पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् ।
महाकायं महानादं मनोऽनिलसमं जवे ॥ ८ ॥
भीममावद्धतूणीरं संघ बद्धचामरम् ।
ज्वालामालापरिक्षिप्तं किङ्किणीकृतनिस्वनम् ॥ ९ ॥
मालया स्वर्णपद्मानां वक्षोदेशावलम्बया ।
ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम् ॥ १० ॥
सोञ्जनाचलसंकाशः काञ्चनाचलसन्निभम् ।
अंब्रवीत्तं दशग्रीवो युद्धं मे दीयतामिति ॥ ११ ॥
जगर्ज चोच्चैर्बलवान्सहामात्यो दशाननः ।
धृत्वा स राक्षसपतिः शूलशक्त्यृष्टिपट्टिशान् ॥ १२ ॥
स द्वीपिना सिंह इव ऋषभेणेव कुञ्जरः ।
सुमेरुरिव छागेन नदीवेगैरिवार्णवः ॥ १३ ॥
अकम्प्यमानः पुरुषो रावणं वाक्यमब्रवीत् ।
युद्धश्रद्धां हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १४ ॥
रावणस्य च यो वेगः सर्वलोकभयावहः ।
तथा वेगसहस्राणि संश्रितानि तमेव हि ॥ १५ ॥
अभवत्तस्य सा दृष्टिग्रहमालेव चाद्भुता ।
दन्तानां दशतः शब्दो यत्रस्येवातिभीकरः ॥ १६ ॥
धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके ।
ऊरू संश्रित्य तस्थाते मन्मथः शिवमास्थितः ॥ १७ ॥
विश्वेदेवाः कटीभागे मरुतो यस्य शीर्षगाः ।
मध्येष्टौ वसवस्तस्य समुद्राः कुक्षिसंस्थिताः ॥ १८ ॥
पार्श्वस्थाश्च दिशः सर्वाः सर्वसन्धिषु मारुताः ।
[ वृष्टं च भगवन्न्रुद्रो हृदयं च पितामहः । ]
पितरयाश्रिताः पृष्ठं हृदयं च पितामहाः ॥ १९ ॥
गोदानानि पवित्राणि भूमिदानानि यानि च ।
सुवर्णस्य च दानानि शश्वल्लोमाश्रितानि वै ॥ २० ॥
हिमवान्हेमकूटश्च मन्दरो मेरुरेव च ।
नरं तु तं समाश्रित्य ह्यस्थिभूता व्यवस्थिताः ॥ २१ ॥
मही वक्षोभवत्तस्य शरीरे द्यौरवस्थिता ।
उमे सन्ध्ये कायसन्धौ जलवाहाश्च मेहने ।
बाहू धाता विधाता च भगः पूषा उभौ करौ ॥ २२ ॥
ऐरावतो विशालाक्षः शेषो वासुकिरेव च ।
कम्बलाश्चतरौ नागौ कर्कोटकधनंजयौ ॥ २३ ॥
स च धोरविषो नागस्तक्षकश्चोपतक्षकः ।
करजानाश्रितास्तस्य विपवीर्यं मुमुक्षवः ॥ २४ ॥
अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ।
दन्तान्माता दंष्ट्रयोश्च उभयोर्ॠतवः स्थिताः ।
नासे कुहरमावास्या तच्छिद्रेषु च वायवः ॥ २५ ॥
ग्रीवा तस्याभवद्देवी वाणी चापि सरस्वती ।
नासत्यौ श्रवणे चोभौ नेत्रे च शशिभास्करौ ॥ २६ ॥
वेदाङ्गानि च यज्ञाश्च नानारूपाणि यानि च ।
सुवृत्तानि च वाक्यानि तेजस्सिद्धिस्तपांसि च ।
एतानि नररूपस्य तस्य देहं श्रितानि वै ॥ २७ ॥
तेन मुष्टिप्रहारेण स्वल्पमात्रेण लीलया ।
पाणिना ताडितं रक्षो निपपात महीतले ॥ २८ ॥
पतितं राक्षसं ज्ञात्वा विद्राव्य च निशाचरान् ।
ऋग्वेदप्रतिमः सोथ पद्ममालाविभूषितः ।
प्रविवेश च पातालं गच्छत्पर्वतसन्निभः ॥ २९ ॥
उत्थाय च दशग्रीव आहूय सचिवान्स्वयम् ।
क्व गतः सहसा ब्रूत प्रहस्तशुकसारणाः ॥ ३० ॥
एवमुक्ता रावणेन राक्षसास्तमथाब्रुवन् ।
प्रविष्टः स नरोत्रैव देवदानवदर्पहा ॥ ३१ ॥
अथासिं गृह्य वेगेन गरुत्मानिव पन्नगम् ।
शीघ्रं स तु बिलद्वारं प्रविवेश च दुर्मतिः ॥ ३२ ॥
प्रविश्य च स तद्वारं रावणो वरनिर्भयः ।
अपश्यच्च नरांस्तत्र नीलाञ्जनचयोपमान् ॥ ३३ ॥
केयूरधारिणः शूरान्रक्तमाल्यानुलेपनान् ।
अंङ्गुलीयकहाराद्यैर्भूषणैश्च विभूषितान् ॥ ३४ ॥
दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम् ।
नित्योत्सवाः शान्तभया विमलाः पावकप्रभाः ॥ ३५ ॥
क्रीडतः प्रेक्षते तान्वै राक्षसो भीमविक्रमः ।
द्वारस्थो रावणस्तेषां तासु कोटीषु निर्भयः ॥ ३६ ॥
यथा दृष्टः स तु नरस्तुल्यांस्तांस्तस्य सर्वशः ।
एकवर्णांस्त्वेकबलानेकरूपान्महौजसः ॥ ३७ ॥
चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स रावणः ।
तान्दृष्ट्वाऽथ दशग्रीव ऊर्ध्वरोमा बभूव ह ॥ ३८ ॥
स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ ॥ ३९ ॥
अथापश्यत्परं तत्र भुजङ्गशयने स्थितम् ।
पाण्डुरेण महार्हेण कौस्तुभेन विराजितम् ॥ ४० ॥
शेते स पुरुषस्तत्र पावकेनावकुण्ठितः ।
दिव्यस्रगनुलेपी च दिव्याभरणभूषितः ॥ ४१ ॥
दिव्याम्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् ।
बालव्यजनहस्ता च देवी तत्र व्यवस्थिता ।
लक्ष्मीर्बहिः सपद्मा वै भ्राजन्ती लोकसुन्दरी ॥ ४२ ॥
प्रहृष्टः स तु लङ्गेशो दृष्ट्वा तां चारुहासिनीम् ।
जिघृक्षुः स तदा साध्वीं सिंहासनमुपाश्रिताम् ॥ ४३ ॥
विना तु सचिवैस्तत्र रावणो दुर्मतिस्तदा ।
हस्तैर्ग्रहीतुं तामैच्छन्मन्मथेन वशीकृतः ।
सुतमाशीविषं यद्वद्रावणः कालचोदितः ॥ ४४ ॥
अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः ।
ग्रहीतुकामं तं ज्ञात्वा व्यपविध्य पटं तदा ।
जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम् ॥ ४५ ॥
तेजसा तस्य संदीप्तो रावणो लोकरावणः ।
घ्राणवातेन दीर्घेण तसिन्राम रसातले ।
कृत्तमूलो यथा शाखी निपपात महीतले ॥ ४६ ॥
पतितं राक्षसं ज्ञात्वा वचनं चेदमब्रवीत् ।
उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते ॥ ४७ ॥
प्रजापतिवरो रक्ष्यो येन जीवसि रावण ।
गच्छ रावण विस्रब्धं नात्र वै मरणं तव ॥ ४८ ॥
लब्धसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ।
तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः ॥ ४९ ॥
एवमुक्तस्तदोत्थाय रावणो देवकण्टकः ।
रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् ॥ ५० ॥
को भवाञ्छौर्यसंपन्नो युगान्तानलसन्निभः ।
ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः ॥ ५१ ॥
एवमुक्तः स तेनाथ रावणेन दुरात्मना ।
प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा ।
किं त्वं मया दशग्रीव वध्योसि नचिरादिह ॥ ५२ ॥
एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ।
प्रजापतेस्तु वचनान्नाहं मृत्युवशं गतः ॥ ५३ ॥
स न जातो जनिष्यो वा मत्तुल्यो वा सुरेष्वपि ।
प्रजापतिवरं यो हि लङ्घयेद्वीर्यमाश्रितः ॥ ५४ ॥
न तत्र परिहारोस्ति प्रयत्नश्चापि दुर्लभः ।
त्रैलोक्ये तं न पश्यामि यस्तत्कुर्याद्वरं वृथा ॥ ५५ ॥
अमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् ।
अथापि च भवेन्मृत्युंस्त्वत्तो मे नान्यतः प्रभो ॥ ५६ ॥
यशस्यं श्लाघनीयं च त्वत्तो मे मरणं त्विदम् ॥ ५७ ॥
अथापश्यत्तस्य गात्रे रावणो भीमविक्रमः ।
देवदेवस्य सकलं त्रैलोक्यं सचराचरम् ॥ ५८ ॥
आदित्या वसवो रुद्रा मरुतोथाश्विनावपि ।
सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा ।
समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽग्नयः ॥ ५९ ॥
प्रहास्तारागणा व्योम साध्या गन्धर्वचारणाः ।
महर्षयो वेदविदो गरुडोथ भुजङ्गमाः ॥ ६० ॥
ये चान्ये संस्थिता देवा दैत्यदानवराक्षसाः ।
गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः ॥ ६१ ॥
आह रामोथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् ।
द्वीपस्थः पुरुषः कोसौ तिस्रः कोट्यैश्च ताश्च काः ॥ ६२ ॥
शयानः पुरुषः कश्चिद्दैत्यदानवदर्पहा ।
रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत् ॥ ६३ ॥
श्रूयतामभिधास्यामि देवदेवः सनातनः ।
भगवान्कपिलो राम द्वीपस्थो नर उच्यते ॥ ६४ ॥
स वै नारायणो देवः शङ्खचक्रगदाधरः ।
विधाता चैव भूतानां संहर्ता च तथैव च ।
अनादिरच्युतो विष्णुः प्रभवः शाश्वतोऽव्ययः ॥ ६५ ॥
ये तु नृत्यन्ति वै तत्र सुरास्ते तस्य धीमतः ।
तुल्यतेजःप्रतापास्ते कपिलस्य नरस्य वै ॥ ६६ ॥
नातिक्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः ।
न बभूव ततो राम भस्मसाद्रावणः प्रभो ॥ ६७ ॥
भिन्नगात्रो नगप्रख्यो रावणः पतितो भुवि ।
वाक्छरैस्तं बिभेदाशु रहस्यं पिशुनो यथा ॥ ६८ ॥
अथ दीर्घेण कालेन लब्धसंज्ञः स राक्षसः ।
आजगाम हतौजास्तु यत्र ते सचिवाः स्थिताः ।
तैरेव सहितो लङ्कां जगामाशु दशाननः ॥ ६९ ॥
श्रुत्वैतद्वचनं सर्वमाश्चर्यमिति राघवः ।
पूज्यमानाः स्थितास्तत्र ये रामस्य समीपतः ।
आश्चर्यमिति तत्प्राहुर्वानरा राक्षसैः सह ॥ ७० ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।
आश्चर्यं स्मारितोस्म्यद्य यत्तद्वृत्तं पुरातनम् ॥ ७१ ॥
अथागस्त्योऽब्रवीत्सर्वमेतद्राम श्रुतं त्वया ।
हृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् ॥ ७२ ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥ ७३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥