विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
मूलम्
प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
व्याख्या
चन्द्रजिगीषयातन्मण्डलंप्रतिप्रस्थितस्यरावणस्य मध्येमार्गं पर्वतमहर्षिणासमागमः ॥ १ ॥ रावणेनतंप्रत्यप्सरोभिः सहविमानैः सहसंचरतांसुकृतिनां स्वरूपादिप्रश्ने तेनतंप्रतितत्कथनम् ॥ २ ॥ रावणेनयुद्धायप्रतियोद्धृप्रदर्शनंप्रार्थितेनपर्वतेन तंप्रतिमान्धातृप्रदर्शनम् ॥ ३ ॥ रावण -मान्धातृभ्यांनानास्त्रप्रयोगपूर्वकंमहासमरप्रवर्तने अन्यतरापराजये गालवपुलस्त्याभ्यां सान्त्वनेनतयोर्युद्धप्रतिनिवर्तनम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह ।
मेरुशृङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥
तदा कश्चिद्रथारूढो दिव्यस्रगनुलेपनः ।
अप्सरोगणमुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥
रतिश्रान्तो सरोङ्गेषु चुम्बितः सन्विबुध्यते ।
रावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥
अथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् ।
दशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह ।
स्वागतं तव देवर्षे दिष्ट्या चैवागतो ह्यसि ॥ ४ ॥
कोयं स्यन्दनमारूढो ह्यप्सरोगणसेवितः ।
निर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥
रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् ।
शृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥
एतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ।
एष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥
तपसा निर्जिता लोका विक्रमेण यथा त्वया ।
प्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ॥ ८ ॥
त्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ।
नेदृशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥
अथापश्यद्रथवरं महाकायं महौजसम् ।
जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥
क्वैष गच्छति देवर्षे शोभमानो महाद्युतिः ।
किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥
श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ।
एष शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ।
युध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥
कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ।
संग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ॥ १३ ॥
इन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ।
नृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥
पप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ।
रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥
य एष दृश्यते राजन्विमाने सर्वकाञ्चने ।
अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥
सुवर्णदो महाराज विचित्राभरणाम्बरः ।
एष गच्छति शीघ्रेण यानेन सुमहाद्युतिः ॥ १७ ॥
पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
य एते यान्ति राजानो ब्रूहि तानृषिसत्तम ॥ १८ ॥
कोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः ।
क्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥ १९ ॥
एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ।
स्वर्गार्थिनो महाराज नैते युद्धार्थिनो नृपाः ॥ २० ॥
वक्ष्यामि च महाराज विचित्राभरणाम्बरः ।
यस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् ।
मान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥

कुत्रासौ वर्तते राजा तं ममाचक्ष्व तत्वतः ॥ २२ ॥
अहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः ।
रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥
युवनाश्वसुतो ह्येप मान्धाता राजसत्तमः ।
सप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥
अथापश्यन्महाबाहुर्विरिञ्चिवरदर्पितः ।
अयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ॥ २५ ॥
सप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् ।
काञ्चनेन विचित्रेण महाहारेण भास्वता ॥ २६ ॥
जाज्वल्यमानं रूपेण दिव्यस्त्रगनुलेपनम् ।
तमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥
एवमुक्तो दशग्रीवं प्रहस्येदमुवाच ह ।
यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥
मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
वरुणस्य कुबेरस्य यमस्यापि न विव्यथे ।
किमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥
एवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव ।
आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥
अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ।
ववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥
अथ राज्ञा बलवता कैङ्कपत्रैरजिह्यगैः ।
इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ।
महोदरविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥
अथ प्रहस्तो नृपतिं शरवर्षैरवाकिरत् ।
अप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः ॥ ३३ ॥
भुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ।
नरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥
पुनर्नृपवरः क्रुद्धः पञ्चभिः प्रविभेद तम् ।
तोमरैः स महाघोरैः पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ॥
ततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ।
सुमोच सोतिवेगेन राक्षसस्य रथं प्रति ॥ ३६ ॥
स पपात महावेगो मुद्गरो वज्रसन्निभः ।
घूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥
तदा स नृपतिः प्रीतो हर्षोद्भूतबलो बभौ ।
सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥
ततो रक्षोबलं सर्वं महाभूतमचेतनम् ।
परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥
ततश्विरात्समाश्वस्तो रावणो लोकरावणः ।
मान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ।
रथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥
विरथः स रथं प्राप्य शक्तिं घण्टाट्टहासिनीम् ।
मान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥ ४१ ॥
मरीचिमिव चार्कस्य चित्रभानोः शिखामिव ।
दीप्यन्तीं रुचिराभासं मान्धातृकरनिस्सृताम् ॥ ४२ ॥
तामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ।
ददाह शक्तिं लङ्केशः पतङ्गभिव पावकः ॥ ४३ ॥
यमदत्तं तु नाराचं निकृष्याथ दशाननः ।
पातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥
मूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः ।
चुक्रुशुः सिंहनादांश्च क्ष्वेलन्तश्च निशाचराः ॥ ४५ ॥
लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ।
तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥
जातकोपो दुराधर्षश्चन्द्रार्कसदृशद्युतिः ।
महता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥
चापस्य च निनादेन तस्य बाणरवेण च ।
संचचाल ततः सैन्यमुद्भूत इव सागरः ॥ ४८ ॥
तद्युद्धमभवद्धोरं नरराक्षससंकुलम् ॥ ४९ ॥
क्रुधाविष्टौ महात्मानौ नरराक्षससत्तमौ ।
कार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ॥
मान्धाता रावणं चैव राक्षसश्चैव तं नृपम् ।
क्रोधेन महताऽऽविष्टौ शरवर्षं ववर्षतुः ॥ ५१ ॥
तौ परस्परसंक्षोभात्प्रहारैर्जर्जरीकृतौ ॥ ५२ ॥
रावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः ।
आग्नेयेन स मान्धाता तदस्त्रं प्रत्यवारयत् ॥ ५३ ॥
गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥
गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् ।
तोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥
तदस्त्रं घोररूपं तु त्रैलोक्यभयवर्धनम् ।
दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ।
वरदानात्तु रुद्रस्य तपसाऽधिगतं महत् ॥ ५६ ॥
ततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् ।
देवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥
अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् ।
पुलस्त्यो गालवश्चैव वारयामासतुर्नृपम् ।
उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥
तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा ।
संप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥