विश्वास-प्रस्तुतिः
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
मूलम्
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
व्याख्या
रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयंमहाबलिभवनं -दृष्टवतारावणेन तत्पतिजिज्ञासयातत्रप्रहस्तप्रेषणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन प्रहस्तदृष्टपुरुषदर्शनमात्रेणचकितकंपितेनरावणेन कथंचिद्धैर्यावलंबनेन पुरुषंप्रति तद्गृहपतिनामादिप्रश्नपूर्वकं तेनसहस्वस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्वनिवेदन -पूर्वकतदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महाबलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेन -रावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलिनातंप्रति विष्णुमहिमानुवर्णन -पूर्वकंस्वगृहद्वारस्थपुरुषस्यैव विष्णुत्वनिवेदनम् ॥ ६ ॥ ततो रोषाद्युद्धायसमापततिरावणे -विष्णुनातत्काले तस्यहननानिच्छ्यातिरोधानम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
हर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् ।
महोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥
ततोश्मनगरं भूयो विचेरुर्युद्धदुर्मदाः ।
यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् ।
वैडूर्य तोरणाकीर्णं मुक्ताजालविभूषितम् ॥ २ ॥
सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ।
वज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३ ॥
बह्वासनयुतं रम्यं महेन्द्रभवनोपमम् ।
दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥
कस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् ।
गच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥
एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥
स शून्यं प्रेक्ष्य तद्वारं पुनः कक्ष्यान्तरं ययौ ।
सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥
ततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः ।
स तु श्रुत्वा महाहासमृर्ध्वरोमाऽभवत्तदा ॥ ८ ॥
ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ।
आदित्य इव दुष्प्रेक्ष्यः साक्षाद्यम इव स्थितः ॥ ९ ॥
तथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ।
विनिर्गम्याब्रवीत्सर्वं रावणाय निशाचरः ॥ १० ॥
अथ राम दशग्रीवः पुष्पकादवरुह्य सः ।
प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥
चन्द्रमौलिर्व पुष्मांच पुरुषोऽस्याग्रतः स्थितः ।
द्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥
रक्ताक्षः श्वेतवदनो बिम्बोष्ठश्चोर्ध्वरोमवान् ।
महाभीषणनासश्च कम्बुग्रीवो महाहनुः ॥ १३ ॥
गूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ।
एतादृशं वै पुरुषं ददर्श स तु रावणः ।
गृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥
अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ।
अस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥
निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ।
अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ॥ १६ ॥
किं त्वं चिन्तयसे रक्षो ब्रूहि विस्रन्धमानसः ।
युद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥
एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् ।
योत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥
रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ।
अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥
गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर ।
तेनैव सार्धं योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥
स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥
एष वै परमोदारः शूरः सत्यपराक्रमः ।
वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥
बालार्क इव तेजस्वी समरेष्वनिवर्तकः ।
अमर्षी दुर्जयो जेता बलिर्हि गुणसागरः ॥ २३ ॥
प्रियंवदः संविभागी गुरुविप्रप्रियः सदा ।
कालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥
स च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ।
एष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥
देवैश्च भूतसंघैश्च पन्नगैश्च महर्षिभिः ।
भयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥
बलिना यदि ते योद्धुं रोचते राक्षसेश्वर ।
प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥
एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः ।
स विलोक्याथ लङ्केशमट्टहासं जहास च ॥ २८ ॥
आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ।
अथ संदर्शनादेव बलिर्वै विश्वरूपवान् ॥ २९ ॥
स गृहीत्वा च तद्रक्षो ह्युत्सङ्गे स्थाप्य चाब्रवीत् ।
दशग्रीव महाबाहो कं ते कामं करोम्यहम् ।
किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर ॥ ३० ॥
एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ।
श्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥
सोहं मोचयितुं शक्तो बन्धनात्वां न संशयः ।
एवमुक्ते ततो हासं बलिः कृत्वेदमब्रवीत् ॥ ३२ ॥
श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ।
य एष पुरुषः श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३ ॥
एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ।
वशं नीता बलवता पूर्वं पूर्वतराश्च ये ॥ ३४ ॥
बद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ।
क एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥
सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ।
कर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥
न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ।
कलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥
लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ।
संहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥
पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।
करणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥
इष्टं चैव हि दत्तं च हुतं चैव निशाचर ।
सर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥
नैवंविधं महद्भुतं विद्यते भुवनत्रये ॥ ४१ ॥
अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ।
नेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥
वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च ।
कालनेमिश्च प्रह्लादस्तथा वैरोचनो बलिः ॥ ४३ ॥
कालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः ।
हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥
यमलार्जुनौ च कंसश्च कैटभो मधुना सह ।
एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥ ४५ ॥
सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ।
सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥
सर्वैरैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ।
दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः ॥ ४७ ॥
स्वपक्षेष्वनुगोप्तारः प्रहर्तारः परेष्वपि ।
समरेष्वपि लोकेषु नैतेषां विद्यते समः ॥ ४८ ॥
शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः ।
सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥
सर्वैस्त्रिदशराज्यानि काङ्क्षितानि महात्मभिः ।
युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥
देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ।
प्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः ॥ ५१ ॥
यत्स देवान्प्रधर्षेत तदेषो विष्णुरीश्वरः ।
उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥
प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् ।
पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ ॥
एवमेतेन देवेन दानवेन्द्रा महात्मना ।
ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥
समरे च दुराधर्षा नृपास्ते च पराजिताः ।
तेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः ॥ ५५ ॥
एवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः ।
यदेतदृश्यते वीर चक्रं दीप्तानलोपमम् ॥ ५६ ॥
एतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्वं महाबल ।
ततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ॥ ५७ ॥
तत्कुरुष्व महाबाहो मा विलम्बस्व रावण ।
एतच्छ्रुत्वा गतो रक्षः प्रहसंश्च महाबलः ॥ ५८ ॥
यत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन ।
लीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥
न च चालयितुं शक्तो रावणोऽभूत्कथंचन ।
लज्जया स पुनर्भूयो यत्नंप चक्रे महाबलः ॥ ६० ॥
उत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः ।
छिन्नमूलो यथा शाखी रुधिरौघपरिप्लुतः ॥ ६१ ॥
एतस्मिन्नन्तरे जज्ञे शब्दः पुष्करसंभवः ।
राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥
ततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् ।
लज्जयावनतीभूतं बलिर्वाक्यमुवाच ह ॥ ६३ ॥
आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् ।
यत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥
एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ।
एतत्पतितमत्रैवमन्यद्भूयो महाबल ॥ ६५ ॥
अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु ।
सुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ॥ ६६ ॥
हिरण्यकशिपोः पूर्वं मम पूर्वपितामहात् ।
न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥
न दिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि ।
न शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ।
विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित ॥ ६८ ॥
प्रह्लादेन समं चक्रे वादं परमदारुणम् ।
तस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥
सर्वदृश्यस्य वीरस्य प्रह्लादस्य महात्मनः ।
उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपधृत् ॥ ७० ॥
दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७१ ॥
तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ।
एष तिष्ठति द्वाः स्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥
तस्य देवादिदेवस्य तत्वत्तो मे शृणुष्व ह ।
वाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥
इन्द्राणां च सहस्राणि सुराणामयुतानि च ।
ऋषीणां सप्तसंख्यानां शतान्यब्दसहस्रशः ।
वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥
तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥
पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ।
विद्युज्जिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥
रक्ताक्षो भीमवेगश्च सर्वसस्वभयंकरः ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥
पापानां शमिता चैव स मया युधि निर्जितः ।
न च मे तत्र भीः काचिद्व्यथा वा दानवेश्वर ॥ ७८ ॥
एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥
रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् ।
एष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥
अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ।
ऋतधामा सुधामा च पाशहस्तो भयानकः ।
द्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥
नीलजीमूतसंकाशः सुरनाथः सुरोत्तमः ।
ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥
एवं धारयते लोकानेष वै सृजते प्रभुः ।
एष संहरते चैव कालो भूत्वा महाबलः ॥ ८३ ॥
एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः ।
सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ॥
सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।
सर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥
वीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुरव्ययः ।
एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥
य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ।
स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥
एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ।
क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥
तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः ।
नैनं हन्म्यधुना पापं चिन्तयित्वेति विश्वधृत् ।
अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ॥ ८९ ॥
न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥
[ हर्षान्नादं विमुञ्चन्वै निष्क्रामन्यरुणालयात् ।
येनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथम सर्गः ॥ १ ॥