०२१ यम-भट-पराजयः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः

मूलम्

विषयाः

यमेन स्व-भवनम् आगतं नारदं प्रत्यभिवादन-पूर्वकम्
आगमन-प्रयोजन-प्रश्नः ॥ १ ॥
नारदेन तं प्रति रणाय रावणागमन-निवेदनेन सज्जी-भवन-चोदना ॥ २ ॥
अत्रान्तरे संयमनीं प्रविष्टेन रावणेन
यम-भट-पीड्यमान–नाना-नारकि-जन–विमोचनम् ॥ ३ ॥
ततो रुष्टैर् यम-भटैः
स-प्रतिरोधम् आयोधने
रावणेन पाशुपतास्त्र-प्रयोगेण
यम-सेना-विध्वंसन-पूर्वकम् उच्चैर् गर्जनम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १ ॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ३ ॥
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति ।
किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥

व्याख्या

अग्निः पुरस्कृतः साक्षितया येनासौ अग्निपुरस्कृतः तं । प्राणिनो विधानं निग्रहानुग्रहकृत्यं । उपतिष्ठन्तं अनुतिष्ठन्तम् ॥ २-४ ॥

विश्वास-प्रस्तुतिः

अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।
श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ५ ॥
एष नाम्ना दशग्रीवः पितृराज निशाचरः ।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ६ ॥

विधानं मत्तः श्रुतापदः प्रतिक्रियामित्यर्थः ॥ ५-६ ॥

विश्वास-प्रस्तुतिः

एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।
दण्डप्रहरणस्याद्य तव किंतु भविष्यति ॥ ७ ॥
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम् ।
ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ॥ ८ ॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।
कृत्वा वितिमिरं सर्वं समीपं सोभ्यवर्तत ॥ ९ ॥
सोपश्यत्सुमहाबाहुर्दशग्रीवस्ततस्ततः ।
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ १० ॥
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ।
यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ ११ ॥

दण्डः कालदण्ड ः प्रहरणमायुधं यस्य तस्य तव किंनु भविष्यतीति । जयोऽपजयो वेत्यर्थः ॥ ७-११ ॥

विश्वास-प्रस्तुतिः

ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः ।
क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ १२ ॥

तीव्रो निष्टनः क्रूरशब्दः ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्रोत्रायासकरा वाचो वदतश्च भयावहाः ।
संतार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ १३ ॥
बालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः ।
असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ १४ ॥
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ।
पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ १५ ॥
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ।
मलपङ्कधरान्दीनान्रूक्षांथ परिधावतः ।
ददर्श रावणो मार्गे शतशोथ सहस्रशः ॥ १६ ॥
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिस्वनैः ।
प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ १७ ॥
गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः ।
गृहांश्च गृहदातारः स्वकर्मफलमश्वतः ।
सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृतान् ॥ १८ ॥
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा ।
ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ १९ ॥
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः ।
रावणो मोचयामास विक्रमेण बलाद्बली ॥ २० ॥
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा ।
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ २१ ॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा ।
प्रेतगोपाः सुसंक्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ २२ ॥
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ।
धर्मराजस्य योधानां शूराणां संप्रधावताम् ॥ २३ ॥
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः ।
पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ २४ ॥
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च ।
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ २५ ॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ २६ ॥
असंख्या सुमहत्यासीत्तस्य सेना महात्मनः ।
शूराणामुग्रयातॄणां सहस्राणि शतानि च ॥ २७ ॥
ततो वृक्षैश्च शैलैश्च प्रासादानां शतैस्तथा ।
ततस्ते सचिवास्तस्य यथाकामं यथाबलम् ।
अयुध्यन्त महावीराः स च राजा दशाननः ॥ २८ ॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ २९ ॥
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम् ।
यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ ३० ॥
अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः ।
तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ ३१ ॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।
फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ ३२ ॥
स तु शूलगदाप्रासाञ्छक्तितोमरसायकान् ।
मुसलानि शिला वृक्षान्मुमोचास्त्रबलाद्बली ॥ ३३ ॥
तरूणां च शिलानां च शस्त्राणां चातिदारुणम् ।
यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ ३४ ॥

संतार्यमाणान्वैतरणीमिति संज्ञापदवशात्पादाक्षराधिक्यम् ॥ १३-३४ ॥

विश्वास-प्रस्तुतिः

तांस्तु सर्वान्विनिर्भिध तदस्रमपहत्य च ।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ३५ ॥
परिवार्य च तं सर्वे शैलं मेघोत्करा इव ।
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ ३६ ॥
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः ।
ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ ३७ ॥
ततः स कार्मुकी बाणी समरे चाभिवर्तत ।
लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथाऽन्तकः ॥ ३८ ॥
ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष सः ॥ ३९ ॥
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे ।
मुमोच तं शरं क्रुद्धस्त्रिपुरे शंकरो यथा ॥ ४० ॥
तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् ।
वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ ४१ ॥

तदस्त्रं रावणप्रयुक्तं प्रागुक्तशस्त्रवर्षसाधकं । अपहत्य निरस्य ॥ ३५-४१ ॥

विश्वास-प्रस्तुतिः

ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।
मुक्तो गुल्मान्द्रुमांश्चापि भस कृत्वा प्रधावति ॥ ४२ ॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।
रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ ४३ ॥
ततस्तु सचिवैः सार्धं राक्षसो भीमविक्रमः ।
ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ ४४ ॥

क्रव्यादैः स्वसृष्टैरनुगतस्तथा ॥ ४२-४४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥