विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः
मूलम्

विषयाः
नाना-देश-ग–राज-पराजय-पूर्वकं
क्रमेणायोध्यां गतेन रावणेनानरण्य-नाम्न्नो राज्ञो युद्धाय समाह्वानम् ॥ १ ॥
प्रहस्त-प्रसुख-राक्षसेन्द्र-विद्रावण-पूर्वकम्
आत्मना सह युध्यन्तम् अनरण्यं
निज-करतलाभिघातेन मुमूर्षुतां नीयता रावणेन
तं प्रतीक्ष्वाक्व्-अवमानन-पूर्वकम् उपहसनम् ॥ २ ॥
तदसहिष्णुना -ऽनरण्येन
तं प्रति स्व-वंश्येन रामेण वध-संभव-विषयक-शापदानेन त्रि-विष्टप-गमनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।
अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ३ ॥
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।
मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः ।
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ४ ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।
एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।
सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ॥ ६ ॥
स तं पुरुषशार्दूलं पुरन्दरसमं बले ।
प्राह राजानमासाद्य युद्धं देहीति रावणः ।
निर्जितोस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७ ॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।
अनरण्यस्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ८ ॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।
संतिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ९ ॥

व्याख्या
संतिष्ठ । एवमहं भवामीति । आयत्तो भवामीत्यर्थः ॥ ९ ॥
विश्वास-प्रस्तुतिः
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ १० ॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा ।
रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।
महीं संछाद्य निष्क्रान्तं सपदातिरथं रणे ॥ ११ ॥
ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ॥ १२ ॥
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ॥ १३ ॥

पूर्वं रावणगमनात्पूर्वं । श्रुतार्थेन श्रुतरावणवृत्तान्तेन । तन्नरेन्द्रस्य बलं । निष्क्रामत् निरक्रामत् ॥ १०-१३ ॥
विश्वास-प्रस्तुतिः
युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।
[ समासाद्य रणोत्साहं शिक्षाबलसमन्वितम् ॥ ]
प्रज्वलन्तं समासाद्य क्षिप्रमेवावशेषितम् ॥ १४ ॥

समासाद्येति । तं रावणमासाद्य क्षिप्रमेवावशेषितं अल्पावशिष्टमभवदित्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
प्राविशत्संकुलं तत्र शलभा इव पावकम् ।
नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ १५ ॥
सोपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।
महार्णवं समासाद्य वनापगशतं यथा ॥ १६ ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ १७ ॥
अनरण्येन तेऽमात्या मारीचशुकसारणाः ।
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ १८ ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १९ ॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतिं क्वचित् ।
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ २० ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ २१ ॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।
वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ २२ ॥

तत्र रणे शलभाः पावकमिव संकुलं समूहनाशनं । प्राविशत् प्रापत् ॥ १५-२२ ॥
विश्वास-प्रस्तुतिः
तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।
किमिदानीं फलं प्राप्तं त्वया मां प्रतियुध्यता ॥ २३ ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ २४ ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ २५ ॥

इक्ष्वाकुं इक्ष्वाकुवंश्यं । किं फलं प्राप्तं । निर्जितोस्मीति वचनमनुक्त्वेति शेषः ॥ २३-२५ ॥
विश्वास-प्रस्तुतिः
न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।
कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २६ ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।
न ह्यहं विमुखो रक्षो युध्यमानस्त्वया हतः ॥ २७ ॥

त्वया ननिर्जित इति । अपि तु प्राप्तेनैव कालेन विपन्न इत्यर्थः ॥ २६-२७ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ॥
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचोस्तु मे ॥ २८ ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।
रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ २९ ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च स्वाच्युता ॥ ३० ॥

इक्ष्वाकुपरिभावित्वात् तत्कुलपरिभावित्वादित्यर्थः ॥ २८-३० ॥
विश्वास-प्रस्तुतिः
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे तस्मिन्राक्षसः सोपसर्पत ॥ ३१ ॥
मूलम्
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे तस्मिन्राक्षसः सोपसर्पत ॥ ३१ ॥
व्याख्या
अपसर्पत अपासर्पत् । अपगतवानित्यर्थः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥