विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः
मूलम्

विषयाः
कदाचन हिमवत्-सानौ तपस्यन्तीं वेदवतीं नाम
कांचन काञ्चनप्रभां कन्याम् अवलोकितवता रावणेन
तां प्रति तस्यास् तपः-प्रयोजनादिप्रश्नः ॥ १ ॥
तथा स्वस्य श्रीनारायण-भार्या-भावस्य
स्व-तपः-प्रयोजन-स्वाभिधानम् ॥ २ ॥
रावणेन स्व-भार्यात्व-स्वीकरणं याचितया तया
तद्-अनङ्गीकरणे
रावणेन बलात् तत्-केश-पाश-परामर्शनम् ॥ ३ ॥
तथा स्व-तपो-महिम्ना ऽसी-भूतेन-स्व-हस्तेन
रावण-कर-परामृष्ट–स्व-केश-पाश-च्छेदन-पूर्वकं
तं प्रति जन्मान्तरे स्वस्य तद्-वध-हेतू-भवन-प्रतिज्ञान-पूर्वकम् अग्नौ प्रवेशनम् ॥ ४ ॥
अगस्त्येन रामं प्रति
तस्या एव पुनः सीतात्वेन प्रादुर्भावाभिधानम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथ राजन्महाबाहुर्विचरन्स महीतले ।
हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ ॥
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।
आर्षेण विधिना चैनां दीप्यन्तीं देवतामिव ॥ २ ॥

व्याख्या
आर्षेण विधिना तपोनुष्ठानेन ॥ २ ॥
विश्वास-प्रस्तुतिः
स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् ।
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ३ ॥
मूलम्
स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम् ।
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ ३ ॥
व्याख्या
प्रहसन्निति । दुर्लभकन्यालाभात्प्रहासः ॥ ३ ॥
विश्वास-प्रस्तुतिः
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।
न हि युक्ता तवैतस्य रूपस्य तपसः क्रिया ॥ ४ ॥
रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् ।
न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ ५ ॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।
येने संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ।
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ॥ ६ ॥
एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ॥ ७ ॥
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।
बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ ८ ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।
संभूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ ९ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।
तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ १० ॥
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।
कारणं तद्वदिष्यामि निशाचर निशामय ॥ ११ ॥
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ १२ ॥
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।
दम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥ १३ ॥
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ १४ ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम ।
परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ १५ ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।
करोमीति तमेवाहं हृदयेन समुद्वहे ॥ १६ ॥
[ मृतं च पितरं दृष्ट्वा वृथा कामं महाव्रतम् ।
तस्य प्रेतगतस्यापि कुर्वन्ती काङ्क्षितं पितुः ॥१७ ॥ ]
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।
एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १८ ॥
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।
आश्रये नियमं घोरं नारायणपरीप्सया ॥ १९ ॥
विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ २० ॥
सोब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।
अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ २१ ॥

इदं प्रतिक्रिया । इदं यौवनप्रतिकूलक्रिया ॥ ४-२१ ॥
विश्वास-प्रस्तुतिः
अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी ।
वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः ॥ २२ ॥
त्वं सर्वगुणसंपन्ना नार्हसे वक्तुमीदृशम् ।
त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ २३ ॥
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।
तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥ २४ ॥
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।
वीर्येण तपसा चैव भोगेन च बलेन च ।
न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २५ ॥
इत्युक्तवति तस्मिंस्तु वेदवत्यथ साऽब्रवीत् ।
मामैवमिति सा कन्या तमुवाच निशाचरम् ॥ २६ ॥
त्रैलोक्याधिपतिं विष्णुं सर्वलोकनमस्कृतम् ।
त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ॥ २७ ॥
एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।
मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ २८ ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन साऽच्छिनत् ।
असिर्भूत्वा करस्तस्याः केशांच्छिन्नांस्तदाऽकरोत् ॥ २९ ॥
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।
उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ ३० ॥
धर्षितायास्त्वयाऽनार्य न मे जीवितमिष्यते ।
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ ३१ ॥
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।
तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ ३२ ॥
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ।
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ ३३ ॥
यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ।
तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ ३४ ॥
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ ३५ ॥
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।
तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ३६ ॥
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।
प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ३७ ॥
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमत्रवीत् ।
गृहस्थैषा हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ ३८ ॥
एतच्छ्रुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः ।
सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ॥ ३९ ॥
सैषा जनकराजस्य प्रसूता तनया प्रभो ।
तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ४० ॥

वृद्धानामिति । पुण्यसंचयः पुण्यसंग्रहणं वृद्धानामेव भ्राजते नतु बालयूनोः ॥ २२-४० ॥
विश्वास-प्रस्तुतिः
पूर्वं क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा ।
उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ॥ ४१ ॥
मूलम्
पूर्वं क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा ।
उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् ॥ ४१ ॥
व्याख्या
वेदवत्या यः शत्रुः क्रोधाहितः सोसौ शैलाभः शत्रू रावणः पुनस्तथैव यथाप्रतिज्ञं पतिं च प्राप्तया पतिभूतस्य तव मानुषं वीर्यमुपाश्रयित्वा अद्य निहतः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।
क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ ४२ ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे ।
त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ ४३ ॥
उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।
सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ४४ ॥

उत्पत्स्येयम् । व्यत्यय आर्षः ॥ ४२-४४ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥