विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः
मूलम्

विषयाः
कैलासाद् अवतीर्य
मध्ये-स्कन्द-वनं गते रावणे
रुद्राज्ञया रुद्ध-संचारे सति पुष्पके
तत्-कारणं बहुधा तर्कयति सति
तं प्रति नन्दिकेश्वरेण तस्य शंकर-क्रीडा-स्थानत्वोक्त्या
गमन-प्रतिरोधनम् ॥ १ ॥
तत्र रावणे नन्दिकेश्वरं प्रति
वानर-मुख इति सावज्ञम् अपहसति सति
तं प्रति नन्दिना
वानरैः पराभव-संभव-कारक-शापदानम् ॥ २ ॥
रावणेन विमान-स्तंभन-ज–रोषान्
निज-भुजानाम् अधःप्रसारणेन कैलास-चालनम् ॥ ३ ॥
हरेण पादाङ्गुष्ठेन शैलावष्टंभे
अधस्-सक्त-बाहुना दशाननेन
वर्ष-सहस्रं-महा-रावम् आक्रोशनम् ॥ ४ ॥
मन्त्रि-बोधनाद्
रावणेन स्तुत्या प्रसादितेन रुद्रेण
तस्मै रावण-नाम-दान-पूर्वकं
तदीप्सित-वर-प्रदानम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ।
महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥
अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् ।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥

व्याख्या
महासेनप्रसूतिं स्कन्दप्रसूतिस्थानं । अपश्यदित्यादि पूर्वसर्गान्तोक्तसंक्षेपप्रपञ्चनम् ॥ १-२ ॥
विश्वास-प्रस्तुतिः
स पर्वतं समारुह्य कंचिद्रम्यवनान्तरम् ।
अपश्यत्पुष्पकं तत्र राम विष्टम्भितं तदा ॥ ३ ॥
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामगं कृतम् ।
अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥

विष्टम्भितं रुद्राज्ञयारुद्धसंचारं । कामगं पुष्पकं अगममिति राक्षसश्चिन्तयामासेत्यन्वयः ॥ ३-४ ॥
विश्वास-प्रस्तुतिः
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् ।
पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥
ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ।
नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥
[ शिखरस्थं गिरिस्थस्य कर्म कस्येदमद्भुतम् ।
निश्चितं राजराजेन पुष्पकं विनिवारितम् ] ॥ ७ ॥
अथवा पुष्पकमिदं धनदान्नान्यवाहनम् ।
अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः ।
वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ ९ ॥
ततः पार्श्वमुपागम्य भवस्थानुचरोऽब्रवीत् ।
नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः ॥ ११ ॥
सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ।
सर्वेषामेव भूवानामगम्यः पर्वतः कृतः ।
तन्निवर्तस्व दुर्बुद्धे मा विनाशमवाप्स्यसि ॥ १२ ॥
इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः ।
कोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ ॥
सोपश्यन्नन्दिनं तत्र देवस्थादूरतः स्थितम् ।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ॥ १४ ॥
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः ।
प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ १५ ॥
तं क्रुद्ध भगवान्नन्दी शंकरस्यापरा तनुः ।
अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ १६ ॥
[ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षस दुर्मते ।
मौर्ख्याचमवजानीषे परिहासं च मुञ्चसि ॥ १७ ॥ ]
यस्माद्वानररूपं मामवज्ञाय दशानन ।
अशनीपातसंकाशमुपहासं प्रमुक्तवान् ॥ १८ ॥
तस्मान्मद्रूपसंपन्ना मदीर्यसमतेजसः ।
उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ १९ ॥
नखदंष्ट्रायुधाः क्रूरा मनःसंपातरंहसः ।
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ २० ॥
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् ।
व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च ॥ २१ ॥
किंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर ।
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ २२ ॥
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः ।
पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ २४ ॥

कस्य कस्य पुरुषस्य । इदं कर्म भवेत् ॥ ५-२४ ॥
विश्वास-प्रस्तुतिः
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः ।
तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥
केन प्रभावन भवो नित्यं क्रीडति राजवत् ।
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ २६ ॥
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ।
तोलयामास तं शैलं स शैलः समकम्पत ॥ २७ ॥
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः ।
चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥
ततो राम महादेवो देवानां प्रवरो हरः ।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ २९ ॥

गोपते हे वृषभपते रुद्र ॥ २५-२९ ॥
विश्वास-प्रस्तुतिः
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः ।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३० ॥
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा ।
मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ ३१ ॥
[मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।
देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु वर्त्मसु ॥ ३२ ॥
विस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ।
निश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥ ३३ ॥
समुद्राश्चुक्षुभुस्तत्र प्रचकंपे वसुंधरा ।
राम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ॥ ३४ ॥ ]
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ।
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ ३५ ॥
समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ।
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ ३६ ॥
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन् ।
तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥
तमृते शरणं नान्यं पश्यामोत्र दशानन ।
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।
कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ॥ ३८ ॥
एवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ।
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ॥ ३९ ॥
[ कालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः । ]
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ ४० ॥
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः ।
मुक्त्वा चास्य भुजान्राम ग्राह वाक्यं दशाननम् ॥ ४१ ॥
प्रीतोस्मि तव वीर्यस्य शौण्डीर्याच्च दशानन ।
शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ ४२ ॥
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ ४३ ॥
देवता मानुषा यक्षा ये चान्ये जगतीतले ।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥

अधोगताः पर्वतस्याधोभागगताः । भुजाः पीडिता आसन् ॥ ३०-४४ ॥
विश्वास-प्रस्तुतिः
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि ।
मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ ४५ ॥
एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् ।
प्रीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः ।
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥

मया त्वमभ्यनुज्ञातः । पुष्पकेण गमनायेति शेषः ॥ ४५-४७ ॥
विश्वास-प्रस्तुतिः
मानुषान्न गणे देव स्वल्पास्ते मम संमताः ।
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ।
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे ॥ ४८ ॥

न गणे न गणयामि । ब्रह्मदत्तदीर्घायुष्याद्यो भागोगतस्तस्माच्छेषमवशिष्टं वाञ्छितं इदानीमेव दुष्कर्मणा केनाप्यविनष्टं संप्रयच्छ ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततस्तेन रावणेन स शंकरः ।
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम् ।
आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ ४९ ॥

आयुषश्चेति । ब्रह्मा दीर्घायुष्यंतावद्दत्तवान् तत्रास्यापमृत्यवो देवतादिभ्यः प्राप्ताः परिहृता भवन्तु । रामेण वध इति स्थित्वा मत्वेत्यर्थः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
दत्वोवाच ततः शंभुर्नावज्ञेयमिदं त्वया ।
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ ५० ॥
एवं महेश्वरेणैव कृतनामा स रावणः ।
अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ ५१ ॥
ततो महीतले राम परिचक्राम रावणः ।
क्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ॥ ५२ ॥
केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ।
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ ५३ ॥
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः ।
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ ५४ ॥
[ एवं दर्पबलोत्सिक्तो रावणो लोकरावणः ।
प्रतापावनती कुर्वन्राष्ट्राणि विचचारह ॥ ५५ ॥ ]

इदं खड्गरूपास्त्रं नावज्ञेयं । एकस्मिन्नपि दिने पूजौदासीन्यं न कर्तव्यमित्यर्थः । अवज्ञातं यदि ॥ ५०-५५ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥