०१२ पौलस्त्य-विवाहः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः

मूलम्

विषयाः

शूर्पणखायाः कालकेयाय विद्युज्-जिह्वाय दानानन्तरं
मृगयार्थम् अटवीं पर्यटता दश-कण्ठेन
तत्र मयस्यानुमत्या
तत्-तनयाया मन्दोदर्याः परिणयः ॥ १ ॥
तथा वैरोचन-दौहित्र्या वज्र-ज्वालायाः
शैलूष-तनयायाः सरमायाश् च
क्रमेण कुंभकर्ण-विभीषणाभ्याम् उद्वाहनम् ॥ २ ॥
तथा मन्दोदर्याम् इन्द्र-जिद्-उत्पादनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ १ ॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥
अथ दत्वा स्वयं रक्षो मृगयामटते स्म तत् ।
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः ।
अपृच्छत्को भवानेको निर्मानुष्यमृगे वने ।
अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ ४ ॥
मयस्त्वथाऽब्रवीद्राम पृच्छन्तं तं निशाचरम् ।
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥
हेमा नामाप्सरा तात श्रुतपूर्वा यदि त्वया ।
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥
तस्यां सक्तमनास्तात पञ्च वर्षशतान्यहम् ।
सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७ ॥

व्याख्या

कालकेयाय कालकपुत्राय ॥ २-७ ॥

विश्वास-प्रस्तुतिः

वर्षं चतुर्दशं चैव ततो हेममयं पुरम् ।
वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ८ ॥
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ।
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः ॥ ९ ॥

वर्षं चतुर्दशमिति । चतुर्दशसंख्याविशिष्टं वर्षं च गतमित्यर्थः हेममयं पुरं हेमपुरं । मायया विचित्रनिर्माणशक्त्या ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ।
भर्तारमनया सार्धमस्याः प्राप्तोस्मि मार्गितुम् ॥ १० ॥
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति ॥ ११ ॥

तस्याः कुक्षौ । हेमाया गर्भ इत्यर्थः । अस्या भर्तारं मार्गितुं अनया प्राप्तोस्मि ॥ १०-११ ॥

विश्वास-प्रस्तुतिः

पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह ।
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ॥ १२ ॥
एवं ते सर्वमाख्यातं यथातत्वेन पृच्छतः ।
त्वामिदानीं कथं तात जानीयां को भवानिति ॥ १३ ॥
एवमुक्तं तु तद्रक्षो विनीतमिदमब्रवीत् ।
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः ।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥ १४ ॥
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः ।
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः ।
दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ १५ ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा ।
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १६ ॥

मायावीति । मायावी च बालिना पलायितोत्रैव प्रविष्टो नाशित इति ज्ञेयम् ॥ १२-१६ ॥

विश्वास-प्रस्तुतिः

इयं ममात्मजा राजन्हेमयाऽप्सरसा घृता ।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ १७ ॥
बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत ।
प्रज्वालय तत्र चैवाग्निमकरोत्पाणिसंग्रहम् ॥ १८ ॥

धृतागर्भप्रसूतेत्यर्थः ॥ १७-१८ ॥

विश्वास-प्रस्तुतिः

स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ।
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ १९ ॥
अमोघां तस्य शक्ति च प्रददौ परमाद्भुताम् ।
परेण तपसा लब्धां जघ्निवाँलक्ष्मणं यया ॥ २० ॥
एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः ।
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ २१ ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ।
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ २२ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ २३ ॥

शापाभिज्ञ इति । दारुणप्रकृतिर्भविष्यतीति श्रुतशापवृत्तान्त इति भावः । पुलस्त्यशापश्चेत्केवलं कुलमेव बह्वमन्यतेत्यर्थः ॥ १९-२३ ॥

विश्वास-प्रस्तुतिः

तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ।
सरस्वदा मानसं तु ववृधे जलदागमे ॥ २४ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः ।
सरो मा वर्धयस्वेति ततः सा सरमाऽभवत् ॥ २५ ॥
एवं ते कृतदारा नै रेमिरे तत्र राक्षसाः ।
स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ २६ ॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् ।
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २७ ॥
जातमात्रेण हि पुरा तेन रावणसूनुना ।
रुदता सुमहान्मुक्तो नादी जलधरोपमः ॥ २८ ॥
जडीकृता च सा लङ्का तस्य नादेन राघव ।
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २९ ।
सोवर्धत तदा राम रावणान्तःपुरे शुभे ।
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ।
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ ३० ॥

सरमाशब्द निर्वक्ति—तीरेत्यादि । सरो मा वर्धयस्वेत्युक्त्या सरमेति नामासीत् । पृषोदरादित्वात्साधुः ॥ २४-३० ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥