विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः
मूलम्

विषयाः
विश्रवसो मुनिवरात् कुबेरोत्पत्तिः ॥ १ ॥
कुबेर-तपस्-तुष्टेन परमेष्ठिना
तस्मै दिक्-पतित्वधन-पतित्व-वरदानम् ॥ २ ॥
कुबेरेण स्व-पितृ-नियोगेन
राक्षसाधिष्ठित-पूर्व-लङ्कायां
स्वजनैः सहनिवासः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।
अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।
ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ ३ ॥

व्याख्या
तस्य तद्वृत्तं विश्रवसस्तादृशं चरितमित्यर्थः । देववर्णिनीं देवसमानरूपाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।
प्रजान्वेषिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ॥ ४ ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।
स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ।
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ॥ ५ ॥
तस्मिञ्जाते तु संहृष्टः संबभूव पितामहः ॥ ६ ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।
नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ७ ॥
यस्माद्विश्रवसोपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ॥ ८ ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।
अवर्धताहुतिहुतो महातेजा यथाऽनलः ॥ ९ ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।
चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ॥ १० ॥

प्रतिगृह्येत्यादिलोकपञ्चकमेकं वाक्यं । सर्वैर्ब्रह्मगुणैः । शमदमादिभिरित्यर्थः । पितामहः वैश्रवणपितामहः । पुलस्त्य इत्यर्थः । प्रजामन्विच्छतीति प्रजान्वेषिका प्रत्ययस्थात् इतीत्वं । अस्य विश्रवसस्तस्मिन्पुत्रे जाते तुष्टो बभूव । श्रेयस्करीं धनेशत्वरूपश्रेयः प्राप्तिहेतुभूतां । जन्मलग्नपर्यालोचनया कालान्तरे धनाध्यक्षनामको भविष्यतीति निश्चित्य तत्काले विश्रवसोपत्यत्वाद्वैश्रवण इति विश्रुतो भविष्यतीति नाम च चकार । विश्रवसो विश्रवणं वा इति विश्रवणादेशः ॥ ४-१० ॥
विश्वास-प्रस्तुतिः
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ ११ ॥
मूलम्
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ ११ ॥
व्याख्या
नियमैः यन्त्रितः संजातबन्धनः ॥ ११ ॥
विश्वास-प्रस्तुतिः
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।
जलाशी मारुताहारो निराहारस्तथैव च ।
एवं वर्षसहस्राणि जमुस्तान्येकवर्षवत् ॥ १२ ॥
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ॥ १३ ॥
परितुष्टोऽस्मि ते वत्स कर्मणाऽनेन सुव्रत ।
वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ॥ १४ ॥

तं तं विधिं । विधिमेवाह – जलाशीत्यादि ॥ १२-१४ ॥
विश्वास-प्रस्तुतिः
अथाब्रवीद्वैश्रवणः पितामहसुपस्थितम् ।
भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ॥ १५ ॥
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ १६ ॥
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ॥ १७ ॥

वित्तरक्षणं अशेषनिधिपतित्वम् ॥ १५-१७ ॥
विश्वास-प्रस्तुतिः
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।
तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।
शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ॥ १८ ॥

यदीप्सितं तद्गच्छ निधीशत्वमवाप्नुहि ॥ १८ ॥
विश्वास-प्रस्तुतिः
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ १९ ॥
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ।
कृतकृत्या वयं तात दत्वा तव वरद्वयम् ॥ २० ॥
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ २१ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभःस्थलम् ।
वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ॥ २२ ॥
निवासनं न मे देवो विदधे स प्रजापतिः ।
भगवँलब्धवानस्मि वरमिष्टं पितामहात् ॥ २३ ॥
तं पश्य भगवन्कंचिन्निवासं साधु मे प्रभो ।
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ॥ २४ ॥
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ॥ २५ ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ २६ ॥
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ॥ २७ ॥

त्रिदशैः समतामिति । नतु ऋषिपुत्रवद्वर्तस्वेत्यर्थः ॥ १९-२७ ॥
विश्वास-प्रस्तुतिः
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।
रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ॥ २८ ॥
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ २९ ॥
शून्या संप्रति लङ्का सा प्रभुस्तस्या न विद्यते ।
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥ ३० ॥
निर्दोषस्तत्र ते वासो न बाधा तत्र कस्यचित् ॥ ३१ ॥

यन्त्ररूपैः शस्त्रैः समावृता ॥ २८-३१ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।
निवासयामास तदा लङ्कां पर्वतमूर्धनि ।
नैर्ऋतानां सहस्रैस्तु हृटैः प्रमुदितैः सह ॥ ३२ ॥

प्रमुदितैः सह निवासयामासेति योजना ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अचिरेणैव कालेन संपूर्णा तस्य शासनात् ॥ ३३ ॥
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।
समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ३४ ॥
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।
अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ ३५ ॥
स देवगन्धर्वगणैरभिष्टुतस्तथाऽप्सरो नृत्य विभूषितालयः ॥
गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ३६ ॥

संपूर्णाधनधान्यादिसर्वैश्वर्यपूर्णेत्यर्थः ॥ ३३-३६ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥