००१ अगस्त्यादि-मेलनम्

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
श्रीमद्वाल्मीकिरामायणम् ॥
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।
उत्तरकाण्डम् ॥ ७ ॥
श्रीरामचन्द्राय नमः ॥
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः

मूलम्

विषयाः

रावण-वधानन्तरम्
अयोध्यायां सीतया सह राज्याभिषिक्ते श्रीरामे
कदाचन सिंहासनम् अलङ्कुर्वाणे
अगस्त्येन दिक्-चतुष्टय-निवासि–मुनि-गणैः सह
श्रीराम-समीपं प्रत्य्-आगमनम् ॥ १ ॥
रामेण यथाऽर्हम् अर्चितेषु मुनिगणेष्व् आसनोपविष्टेषु
अगस्त्येन मुनिजनैः सह श्रीरामं प्रति
रावणादि-विजय-प्रशंसन-पूर्वकं
विशेषत इन्द्रजिद्-विजय-प्रशंसने
रामेण तं प्रतीन्द्रजित् प्रतापादि-प्रश्नः ॥ २ ॥

विश्वास-प्रस्तुतिः

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।
आजमुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ १ ॥
कौशिकोऽथ यवक्रीतो गार्ग्यो गालव एव च ।
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ २ ॥

व्याख्या

श्रीरामचन्द्रायनमः श्रीमद्वत्सकुलप्रदीपशठजित्पादारविन्दद्वयीसेवालब्धसमस्तशास्त्र विततिर्गोविन्दराजाह्वयः । श्रीरामायणभूषणेऽत्र मुकुटीभूतां परामुत्तरे । ग्रन्थे व्याकृतिमातनोति विदुषां प्रीतिः पुनर्वर्धताम् ॥ राक्षसानां वधे कृते सति प्राप्तराज्यस्य रामस्य । अनादरे षष्ठी । प्राप्तराज्यं राममनादृत्य राघवं लक्ष्मणं प्रतिनन्दितुं सर्वे ऋषय आजग्मुः । प्राधान्येनेन्द्रजिद्वधं प्रशंसिष्यन्ति रामस्य समीप इति शेष इत्येके । अत्र प्रेति गायत्र्या एकविंशाक्षरम् ॥ १-२ ॥

विश्वास-प्रस्तुतिः

स्वस्त्यात्रेयोथ भगवान्नमुचिः प्रमुचिस्तथा ।
अगस्त्योत्रिश्च भगवान्सुमुखो विमुखस्तथा ।
आजग्मुस्ते सहागस्त्या ये स्थिता दक्षिणां दिशम् ॥ ३ ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ॥
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ ४ ॥

स्वस्तिकरः आत्रेयः ॥ ३-४ ॥

विश्वास-प्रस्तुतिः

वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रः सगौतमः ।
जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ।
उदीच्यां दिशि सप्सैते नित्यमेव निवासिनः ॥ ५ ॥

वसिष्ठ इति । उक्ता वसिष्ठादयः सप्तेत्यर्थः । ननु वसिष्ठः अयोध्यायां पुरोहिततया नित्यं वर्तमानः कथमिदानीमुदीच्या दिशः समागत इत्युच्यते । सत्यं । यथाऽगस्त्यो ज्योतिर्मण्डलस्थोपि भुवि तपःसमार्जनाय शरीरान्तरे स्थित आगतस्तथा वसिष्ठोपि ज्योतिर्मण्डलस्थः सप्तर्षिभिः समागत इति बोध्यम् । तदागमनदशायां नगरस्थो वसिष्ठो नायातः अतएव न परिगणितः । कौशिकः कुशिकवंश्यो विश्वामित्रादन्यः ॥ ५ ॥

विश्वास-प्रस्तुतिः

संप्राप्य ते महात्मानो राघवस्य निवेशनम् ।
विष्ठिताः प्रतिहारार्थ हुताशनसमप्रभाः ।
वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ६ ॥
द्वाःस्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः ।
निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ ७ ॥
प्रतीहारस्ततस्तूर्णमगस्त्य वचनाद्दृतम् ।
समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ८ ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।
स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।
अगस्त्यं कथयामास संप्राप्तमृषिभिः सह ॥ ९ ॥
श्रुत्वा प्राप्तामुनींस्तांस्तु बालसूर्यसमप्रभान् ।
प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १० ॥

प्रतिहारो द्वाःस्थः । द्वारि द्वाःस्थे प्रतीहारः इत्यमरः ॥ ६-१० ॥

विश्वास-प्रस्तुतिः

तान्संप्राप्तान्मुनीन्दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।
पाद्यार्घ्यादिभिरानर्च्य गां निवेद्य च सादरम् ।
रामोभिवाद्य प्रयत आसनान्यादिदेश ह ॥ ११ ॥
तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।
यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवः ॥ १२ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।
महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १३ ॥

अभिवाद्येति । समुदायं प्रतीति शेषः ॥ ११-१३ ॥

विश्वास-प्रस्तुतिः

कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥

मूलम्

कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥

व्याख्या

सर्वत्र पुरकोशादिषु । दिष्टया दैवात् । हतशात्रवं हतशत्रुम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ॥
न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ १५ ॥

मूलम्

दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ॥
न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ १५ ॥

व्याख्या

रावणस्ते न हि भारः । तद्वधस्ते ईषत्कर्मेत्यर्थः ॥ १५ ॥

विश्वास-प्रस्तुतिः

सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ॥
दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ १६ ॥
दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह सीतया ।
लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वंद्धितकारिणा ॥ १७ ॥
मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ॥ १८ ॥
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ॥
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १९ ॥

तदेव दर्शयति – सधनुरित्यादि । विजयेथा इति विपराभ्यां इत्यामनेपदम् ॥ १६-१९ ॥

विश्वास-प्रस्तुतिः

यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ २० ॥
त्रिशिराचातिकायश्च देवान्तकनरान्तकौ ।
दिया ते निहता राम महावीर्या निशाचराः ॥ २१ ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।
दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ २२ ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।
यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ २३ ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।
अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ २४ ॥

प्रमाणात् शरीरपरिमाणात् ॥ २०-२४ ॥

विश्वास-प्रस्तुतिः

दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।
देवतानामवध्येन विजयं प्राप्तवानसि ॥ २५ ॥
[ सह्यमेतन्महाबाहो रावणस्य निबर्हणम् ।
असह्यमेतत्संप्राप्तं रावणेर्यन्निबर्हणम् ॥ २६ ॥
दृश्यस्तस्य महाबाहो कालो येन हि धिक्कृतः ॥ ]
संख्ये तस्य न किंचित्तु रावणस्य पराभवः ।
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ २७ ॥

द्वन्द्वयुद्धमुपागतः सन् विजयं प्राप्तवानसीत्यन्वयः ॥ २५-२७ ॥

विश्वास-प्रस्तुतिः

दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।
मुक्तः सुररिपोर्वीर प्राप्तश्व विजयस्त्वया ॥ २८ ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।
सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ २९ ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ३० ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।
दिष्ट्या त्वया हता वीरा रघूणां कुलवर्धन ॥ ३१ ॥

मुक्तः तस्य रावणेः शरबन्धादिति शेषः ॥ २८-३१ ॥

विश्वास-प्रस्तुतिः

दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।
दिव्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ३२ ॥

मूलम्

दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ।
दिव्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ३२ ॥

व्याख्या

अभयदक्षिणां अभयदानं । देवर्षिभ्य इत्यर्थः । वर्धसि वर्धसे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ३३ ॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ३४ ॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।
मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ।
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ३५ ॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ ३६ ॥
कीदृशो वै प्रभावोस्य किं बलं कः पराक्रमः ।
केन वा कारणेनैष रावणादतिरिच्यते ॥ ३७ ॥

विस्मयं गत्वा । रावणिवध विषयवाक्येनेति शेषः ॥ ३३-३७ ॥

विश्वास-प्रस्तुतिः

शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।
यदि गुह्यं नचेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ३८ ॥

मूलम्

शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।
यदि गुह्यं नचेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ ३८ ॥

व्याख्या

यदि गुह्यं न भवति । यदि युष्माभिः वक्तुं शक्यं । यदि मया च श्रोतुं । तदा कथ्यतां । अहं तु श्रोतुमिच्छामि केवलं नतु वक्तुमित्याज्ञापयामि ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शक्रोपि विजितस्तेन कथं लब्धवरश्च सः ।
कथं च बलवान्पुत्रो न पिता तस्य रावणः ॥ ३९ ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।
वराश्च लब्धाः कथयस्व मेऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ४० ॥

पिता रावणो न बलवान् पुत्रापेक्षयेति कथम् ॥ ३९-४० ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने प्रथमः सर्गः ॥ १ ॥