विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः
विषयाः
भरतेनरामंप्रति हेतूक्तिपूर्वकंराज्यस्वीकारप्रार्थना ॥ १ ॥ तत्प्रार्थनांसफलीकृतवता -रामेण भरतलक्ष्मणाभ्यांसह जटाशोधनमाङ्गलिकाभ्यङ्गस्नानालंकरणादिकरणपूर्वकं भरतप्रेर्यमाणरथारोहणेन पौरनारीनरनिकरैर्मानुषवेषधारिभिर्वानरतन्नारीनिकरैरप्यनुगम्यमानेन राजोपचारैरुपचर्यमाणेनचसताऽयोध्याप्रवेशेन राजवीथी परिक्रमणेनदशरथगृहप्रवेशः ॥ २ ॥ वामदेवादिमहर्षिभिस्सहितेनवसिष्ठेन श्रीसीतयासह श्रीरामभद्रस्य भद्रतररत्नपीठोपवेशन -पूर्वकं नानामणिगणखचितसुवर्णघटपूर्णहनुमदादिसमानीतनदीसमुद्रशुभसलिलैः पट्टाभिषेकः ॥ ३ ॥ रामेण निजराज्याभिषेकोत्सवे ब्राह्मणादिभ्योनानामणिगणादिवितरणम् ॥ ४ ॥ सुग्रीवादीनां यथार्हंसंमानम् ॥ ५ ॥ सीतया हनुमते रामानुमत्यास्वकण्ठस्थहारप्रदानम् ॥ ६ ॥ श्रीरामेण विभीषणसुग्रीवादीनांयथार्हसंमाननेनस्वस्वावासप्रेषणपूर्वकं भरतस्ययौवराज्या -भिषेकः ॥ ७ ॥ श्रीरामेणाश्वमेधादियजनपूर्वकं सुखेनप्रजापरिपालनम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
मूलम्
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
व्याख्या
एवं पुष्पकं धनदाय प्रेषयित्वा वसिष्ठेन च समागम्य भरतानुज्ञां विना नायोध्या प्रवेष्टव्येति तात्पर्येण नन्दिग्राम एवासनोपविष्टे रामे निविष्टेषु च पौरवर्गेषु सन्निहितासु च मातृषु तादात्विकसूक्ष्मेङ्गितदर्शननिपुणो भरतः स्वहृदयमग्रजाय निवेदयति- शिरस्य जलमित्यादिना ॥ शिरस्यञ्जलिमाधायेत्यनेन पूर्वकृता प्रपत्तिः स्मार्यते । अनन्यगतिकत्वसुचिका मुद्रा ह्यञ्जलिः । कैकेय्यानन्दवर्धन इत्यनेन भरतवचने कैकेयीसन्तोषो मुखप्रसादादिनाऽवगम्यत – इति द्योत्यते ॥ १ ॥
विश्वास-प्रस्तुतिः
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
मूलम्
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
व्याख्या
रामस्य राज्यपरिग्रहे अपरिहार्यं हेतुं दर्शयति – पूजितेति ॥ मामिका मत्संबन्धिनी माता पूजिता । राज्यपरित्यागपूर्वकवनवासाङ्गीकारेण त्वया तोषिता । अनन्तरमिदं राज्यं मम मयि चित्रकूटे दत्तं । तद्राज्यं त्वं यथा येन प्रकारेण । ममाददाः तेन प्रकारेण तुभ्यं ददामि । न्यासरूपेण मयि स्थापितं राज्यं न्यासरूपत्वाप्रहाणेनैव पुनर्ददामीत्यर्थः ॥ २ ॥
विश्वास-प्रस्तुतिः
धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥
मूलम्
धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥
व्याख्या
अयोध्यायां राज्यभोगान् यथाकामं भोक्ष्ये राज्यं त्वमेव परिपालयेत्याकाङ्क्षायामाह – धुरमिति ॥ यद्वा पुनरर्थनपर्यन्तं न्यासधारणे नदोष इत्याशङ्क्याह – धुरमिति ॥ एकाकिना असहायेन । बलीयसा ऋषभेण न्यस्तां धुरं किशोरवत् बालवत्स इव । गुरुं भारं वोढुं नोत्सहे ॥ ३ ॥
विश्वास-प्रस्तुतिः
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥
मूलम्
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥
व्याख्या
तर्हि कथमेतावत्पर्यन्तं सोढमित्यत आह – वारीति ॥ महता वारिवेगेन भिन्नः अतएव क्षरन् बहिर्निःसरन् जलसेतुरिव इदं राज्यच्छिद्रं छिद्रवद्राज्यं असंवृतं संवरणरहितं सत् दुर्बन्धनं मन्ये । यथा महता वारिवेगेन भिन्नः क्षरन् सेतुर्वारिवेगाहतिनिरोधकतृणपुलशाखा -पुञ्जादिसंबरणं विना न बद्धुं शक्यते । एवं बहुविधच्छिद्रं राज्यमपि मन्त्रगोपनादिराजगुणावरणं विना पालितुं न शक्यमिति भावः ॥ ४ ॥
विश्वास-प्रस्तुतिः
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥
मूलम्
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥
व्याख्या
अहमिव भवानपि लोकान् गुणैर्वशीकरोत्वित्यत्राह गतिमिति ॥ ५ ॥
विश्वास-प्रस्तुतिः
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने ।
महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् ।
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ ॥
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि ।
यद्यमान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ ॥

तर्हि ममैवोपोद्बलेन भवानेव राज्यं परिपालयत्वित्याशङ्क्य तर्हि तातेन भवत्पोषणं विफलं स्यादित्याह- यथा चेत्यादिश्लोकत्रयेण ॥ अन्तर्निवेशने आरोपितः उप्तः वृक्षः महान् जातः सुदुरारोहो महास्कन्धप्रशाखवान् पुष्पितोपि भूत्वा फलानि न प्रदर्शयन् यथा शीर्येत अफलो भवति । यथा च यस्य फलस्य हेतोर्येन रोप्यते सः रोपयिता तस्य वृक्षस्य अर्थं तत्फलं । नानुभवेत् । मनुजेन्द्र भक्तान् भृत्यान् अस्मान्न शाघि यदि । महाबाहो एषोपमा त्वदर्थमुक्तेति वेत्तुमर्हसीति योजना । अत्र वृक्षरामयोरारोपयितृदशरथयोश्च उपमानोपमेयभावः । बीजावापस्य पुत्रेष्ट्यादेश्च महास्कन्धस्य सभ्रातृकत्वस्य च प्रशाखवत्त्वस्य सुग्रीवादिमित्रगणस्य च पुष्पाणां कल्याणगुणानां च राज्याकरणस्य फलाभावस्य च साम्यं द्योत्यते ॥ ६-८ ॥
विश्वास-प्रस्तुतिः
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥
मूलम्
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥
व्याख्या
भवतस्तु राज्यपरिपालने महती शक्तिरित्याह-जगदिति ॥ ९ ॥
विश्वास-प्रस्तुतिः
तूर्यसङ्घातनिर्घोषैः काञ्चीनपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० ॥
मूलम्
तूर्यसङ्घातनिर्घोषैः काञ्चीनपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० ॥
व्याख्या
सर्वभोगार्हस्त्वमेव भोगान् भुङ्क्ष्वेत्याह- तूर्येति । काञ्चीनूपुरनिस्वनैरित्यनेन प्रबोधकललितनृत्यं गम्यते ॥ १० ॥
विश्वास-प्रस्तुतिः
यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत्वमिह सर्वस्य स्वामित्वर्मनुवर्तय ॥ ११ ॥
मूलम्
यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत्वमिह सर्वस्य स्वामित्वर्मनुवर्तय ॥ ११ ॥
व्याख्या
मध्ये स्वस्य राज्याशानुद्गमं द्योतयन्नाह – यावदिति ॥ चक्रं ज्योतिश्चक्रमिति यावत् । यावती यावत्कालस्थितिः । तावत् तावत्कालम् । सर्वस्य राज्यस्य स्वामित्वमनुवर्तय । स्वामित्वानुवर्तनं हि पालनमेव ॥ ११ ॥
विश्वास-प्रस्तुतिः
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
मूलम्
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
व्याख्या
निषसादेति । भरत इति शेषः ॥ १२ ॥
विश्वास-प्रस्तुतिः
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥
मूलम्
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥
व्याख्या
श्मश्रुवर्धकाः श्मश्रुवर्तकाः । वर्धनछेदनेथ द्वे आनन्दनसभाजने इत्यमरः । सुशीघ्राः अभिषेकमुहूर्तातिलङ्घनं विना शीघ्रं कर्तुं समर्थाः । उपासत श्मश्रूण्यवर्धन्त । भरतलक्ष्मणापेक्षया श्मशुवर्धकानां बहुवचनं । राघवमिति भरतलक्ष्मणयोः प्रदर्शनार्थम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवर्सनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
मूलम्
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवर्सनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
व्याख्या
पूर्वमित्यादिश्लोकद्वयमेकान्वयम् ॥ न मे स्नानं बहुमतं तं विना केकयीसुतं इत्युक्त्या प्रथमं स्नानं भरतस्य सुग्रीवस्यापि किष्किन्धानिर्गमनप्रभृतिस्नानाभावादद्य स्नानं । तथा विभीषणस्यापि लङ्कानिर्गमनप्रभृतिस्नानाभावात् । शत्रुघ्नस्य स्नानाश्रवणमधिकर्तृत्वेन तदानीमवसराभावात् । पूर्वं व्रतग्रहणानुक्तेश्च । नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोनघ इति संक्षेपोक्तेरत्रापि शत्रुघ्नस्नानमर्थसिद्धमित्याहुः । जटाशोधनं शुद्धकेशीकरणं । स्नात इति कर्तरिक्तः । नानावर्णपुष्पयुक्तत्वेन चित्रमाल्यत्वं । कुङ्कुमकर्पूरकस्तूर्यादिवस्तुभेदेन चित्रानुलेपनत्वं । महार्हवसनं पीताम्बरं । श्रिया इति अलंकारश्रिया । तत्र सिंहासने ज्वलन् प्रकाशमानः तस्थौ ॥ १४–१५ ॥
विश्वास-प्रस्तुतिः
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥
मूलम्
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥
व्याख्या
प्रतिकर्म हाराद्यलंकरणं । इक्ष्वाकुकुलवर्धनः शत्रुघ्नः ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥
मूलम्
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥
व्याख्या
आत्मनैव स्वयमेव ॥ १७ ॥
विश्वास-प्रस्तुतिः
ततो वानरपत्नीनां सर्वासामेव शोभनम् ।
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ॥
ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥
अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथोत्तमम् ।
आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥

शोभनं प्रतिकर्मेत्यर्थः ॥ १८-२० ॥
विश्वास-प्रस्तुतिः
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥
वराभरणसंपन्ना ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥
मूलम्
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥
वराभरणसंपन्ना ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥
व्याख्या
दिव्यनिभैः दिव्यवस्त्रसदृशैः वस्त्रैरुपलक्षिताविति शेषः ॥ २१-२२ ॥
विश्वास-प्रस्तुतिः
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥
मूलम्
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥
व्याख्या
अयोध्यायामिति । गत्वेति शेषः । मन्त्रयामासुः अभिषेकोपयोगिमङ्गलद्रव्यसंपादनार्थं एवं कर्तव्यमिति मन्त्रयामासुः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः ।
मन्त्रयन्त्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥
मूलम्
अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः ।
मन्त्रयन्त्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥
व्याख्या
उक्तमर्थं विवृणोति-अशोक इति ॥ मन्त्रयन् अमन्त्रयन् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्वमेवामिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥
मूलम्
सर्वमेवामिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥
व्याख्या
सर्वमित्यादिश्लोकद्वयमेकान्वयम् ॥ अर्हथेति पूजायां बहुवचनम् ॥ २५-२६ ॥
विश्वास-प्रस्तुतिः
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥
मूलम्
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥
व्याख्या
हरियुक्तं हरितवर्णयुक्ताश्वयुक्तम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २८ ॥
श्वेतं च बालव्यजनं जग्रोह पुरतः स्थितः ।
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥
मूलम्
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २८ ॥
श्वेतं च बालव्यजनं जग्रोह पुरतः स्थितः ।
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥
व्याख्या
जग्राहेत्यादिश्लोकद्वयमेकान्वयम् ॥ रश्मीन् जग्राह सारथ्यमकरोत् । लक्ष्मण इति । पुरतः स्थितो लक्ष्मणः व्यजनं तालवृत्तकं । मूर्ध्नि संपर्यवीजयत् । श्वेतं वालव्यजनं च जग्राह । अहं सर्वं करिष्यामीति त्वरया उभयग्रहणं अपरं चन्द्रसंकाशमित्यत्र जग्राहेत्यनुषज्यते ॥ २८-२९ ॥
विश्वास-प्रस्तुतिः
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः ।
स्तूयमानस्य रामस्य शुभुवे मधुरध्वनिः ॥ ३० ॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् ।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षमः ॥ ३१ ॥
नवनागसहस्राणि ययुरास्थाय वानराः ।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥

समरुद्गणैः सवायुगणैः । रामस्य मधुरध्वनिः रावणनिरसनापदानकथनध्वनिः ॥ ३०-३२ ॥
विश्वास-प्रस्तुतिः
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ॥
मूलम्
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ॥
व्याख्या
शङ्खशब्दप्रणादैः शङ्खशब्दैः । जनहर्षप्रणादैश्चेत्यर्थः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
ददृशुस्ते समायान्तं राघवं सपुरस्सरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥
मूलम्
ददृशुस्ते समायान्तं राघवं सपुरस्सरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥
व्याख्या
ये नगरं प्रविश्य वसिष्ठं पुरस्कृत्य रामाभिषेकममन्त्रयन् ते सुमन्त्रादयः ॥ ३४-३५ ॥
विश्वास-प्रस्तुतिः
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥
मूलम्
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥
व्याख्या
प्रकृतिभिः पौरजनैः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥
मूलम्
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥
व्याख्या
तूर्यैः तूर्यवादकैः । स्वस्तिको वाद्यविशेषः । मङ्गलानि प्रव्याहरद्भिः मङ्गलपाठकैः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥
मूलम्
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥
व्याख्या
अक्षतं जातरूपमिति ॥ हरिद्रया जातरूपमक्षतं । वहद्भिरिति शेषः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत्कर्म राक्षसानां च तद्बलम् ॥
विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ ३९ ॥
मूलम्
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत्कर्म राक्षसानां च तद्बलम् ॥
विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ ३९ ॥
व्याख्या
सख्यं चेत्यादिसार्धश्लोकमेकं वाक्यम् ॥ सख्यं जातमिति शेषः । मन्त्रिणां मन्त्रिभ्यः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥
मूलम्
श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥
व्याख्या
श्रुत्वेत्यर्धं । श्रुत्वा सुग्रीवसख्यादिकमिति शेषः ॥ ४०-४१ ॥
विश्वास-प्रस्तुतिः
ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ॥
मूलम्
ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ॥
व्याख्या
अभ्युच्छ्रयन् अभ्युदश्राययन् । उन्नम्य स्थापितवन्तः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥
मूलम्
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥
व्याख्या
ऐक्ष्वाकेत्यर्धं । राम इति शेषः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ ॥
मूलम्
अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ ॥
व्याख्या
अथाब्रवीदित्यादिश्लोकद्वयमेकान्वयं । अथ रघुनन्दनः महात्मनः पितुर्भवनमासाद्य प्रविश्य च कौसल्याप्रभृतीरमिवाद्य च भरतमब्रवीदिति योजना ॥ ४४-४५ ॥
विश्वास-प्रस्तुतिः
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ४६ ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥
मूलम्
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ४६ ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥
व्याख्या
साशोकवनिकं अन्तःपुरोधानसहितम् ॥ ४६-४७ ॥
विश्वास-प्रस्तुतिः
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८ ॥
उवाच च महातेजाः सुग्रीवं राघवानुजः ।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ ॥
सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५० ॥

विविशुः । परिचारिका इति शेषः ॥ ४८-५० ॥
विश्वास-प्रस्तुतिः
यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१ ॥
एवमुक्ता महात्मानो वानरा वारणोपमाः ।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२ ॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ ॥

हे वानराः चतुर्णां सागराम्भसां चतुभिः सागराम्भोभिः पूर्णैर्घटेः उपलक्षिताः प्रत्यूषसमये यथा प्रतीक्षध्वं यथास्मान् प्रतीक्षिष्यध्वे तथा कुरुतेति योजना । सागरजलानयननियोगो नदीजलानयननियोगस्याप्युपलक्षकः ॥ ५१-५३ ॥
विश्वास-प्रस्तुतिः
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥
मूलम्
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥
व्याख्या
जलपूर्णानथानयन्नित्युक्तमेवार्थं विवृणोति-नदीशतानामिति ॥ ५४ ॥
विश्वास-प्रस्तुतिः
पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।
सुषेणः सत्वसंपन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥
मूलम्
पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।
सुषेणः सत्वसंपन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥
व्याख्या
एवं जाम्बवद्धनुमद्वेगदर्श्यृषभैर्नदीजलानयनमुक्त्वा सुषेणर्षभगवयानलैः सागरजला -नयनं दर्शयति- पूर्वादिति ॥ ५५ ॥
विश्वास-प्रस्तुतिः
ऋषभो दक्षिणाचूर्णं समुद्राज्जलमाहरत् ।
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ ॥
गवयः पश्चिमात्तोयमाजहार महार्णवात् ।
रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७ ॥
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ।
आजहार स धर्मात्मानलः सर्वगुणान्वितः ॥ ५८ ॥

ऋषभो दक्षिणादिति । अयं चर्षभः पूर्वस्मादन्यः ॥ ५६-५८ ॥
विश्वास-प्रस्तुतिः
ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ।
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ॥
पुरोहिताय श्रेष्ठाय सुहृभ्यश्च न्यवेदयत् ॥ ५९ ॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६० ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्व गौतमो विजयस्तथा ॥ ६१ ॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२ ॥

तत इत्यादिसार्धश्लोक एकान्वयः । तत् प्रसिद्धं । तज्जलं तेषां नदीसागराणां जलम् ॥ ५९-६२ ॥
विश्वास-प्रस्तुतिः
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मत्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ६३ ॥
मूलम्
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मत्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ६३ ॥
ते वसिष्ठायः ऋत्विगादिभिः सहाभ्यषिञ्चन्निति योजना ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्व संगतैः ॥ ६४ ॥
[ ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५ ॥
तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः ।
सभायां हेमक्लृप्तायां शोभितायां मैहाजनैः ॥
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६ ॥
नानारत्नमये पीठे कल्पयित्वा यथाविधि ।
किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ॥
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ ॥ ]
छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
श्वेतं च बालव्यजनं सुग्रीवो वानरेश्वरः ॥
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ६८ ॥

सर्वौषधिरसैरित्यत्रापि अभ्यषिञ्चंस्त इत्यनुषज्यते ॥ ६४-६८ ॥
विश्वास-प्रस्तुतिः
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ ॥
मूलम्
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ ॥
शतपुष्करां शतपद्म ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० ॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१ ॥
मूलम्
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० ॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१ ॥
सर्वरत्नैः नवरत्नैः समायुक्तं । मणिरत्नेन मणिश्रेष्ठेन नायकेन मध्ये विराजन्तं । मुक्ताहारं मुक्ताप्रचुरहारं ददौ । वायुरित्यनुषज्यते ॥ ७०-७१ ॥
विश्वास-प्रस्तुतिः
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूव राघवोत्सवे ॥ ७२ ॥
मूलम्
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूव राघवोत्सवे ॥ ७२ ॥
पूर्वं रामविश्लेषे अपि वृक्षाः परिम्लाना इत्युक्तावस्थं वस्तुजातं रामसंश्लेषे तादृगवस्थां विहाय प्रहृष्टतममभूदित्याह-भूमिरिति ॥ ७२ ॥
विश्वास-प्रस्तुतिः
सहस्रशतमश्वानां धेनूनां च गवां तथा ।
ददौ शतं वृषापूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ ॥
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।
नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४ ॥
मूलम्
सहस्रशतमश्वानां धेनूनां च गवां तथा ।
ददौ शतं वृषापूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ ॥
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।
नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४ ॥
धेनूनां नवप्रसूतिकानां धेनुः स्यान्नवसूतिका इत्यमरः । पूर्वं हिरण्यदानादेः पूर्वं सुग्रीवादिभ्यः पूर्वं वा ॥ ७३-७४ ॥
विश्वास-प्रस्तुतिः
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५ ॥
मूलम्
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५ ॥
मणिविग्रहां मणिप्रचुराम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
बालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६ ॥
मूलम्
वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
बालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६ ॥
धृतिमान् प्रीतिमान् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।
सीतायै प्रददौ रामचन्द्ररश्मिसमप्रभम् ॥ ७७ ॥
मूलम्
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।
सीतायै प्रददौ रामचन्द्ररश्मिसमप्रभम् ॥ ७७ ॥
सीतायै प्रददौ हनुमते दातव्यमित्याशयेन ददौ ॥ ७७ ॥
विश्वास-प्रस्तुतिः
अरजे वाससी दिव्ये शुभान्याभरणानि च ।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८ ॥
मूलम्
अरजे वाससी दिव्ये शुभान्याभरणानि च ।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८ ॥
अरजे निर्मले । अकारान्तत्वमार्षं । अवेक्षमाणा भर्तारमिति शेषः । स्त्रियाः स्वातन्त्र्याभावात् भर्त्रनुज्ञां काङ्क्षितवतीति भावः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ ॥
मूलम्
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ ॥
हारं रामदत्तं । सदसि मह्यं हारप्रदानं कस्मैचित् पारितोषिकतया दापयितुमिति निश्चित्य अयं हारः एषु कस्मै देय इत्याशयेना वैक्षतेत्यर्थः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८० ॥
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥
चन्द्रांशुचयगौरेण श्वेताश्रेण यथाऽचलः ॥ ८१ ॥

ताभिङ्गितज्ञ इत्यादिसार्धश्लोक एकान्वयः । यस्य यस्मिन् । पौरुषं बलं समुद्रलङ्घनेन । विक्रमो लङ्कादहनेन । बुद्धिः अशोकवनिकाप्रवेशेन । सर्वशः सर्वाणि यस्मिन् सन्तीति यस्य संतुष्टासि तस्मै देहीति योजना । अन्यथा अन्येषां निन्दोक्तिरेव स्यात् ॥ ८०-८१ ॥
विश्वास-प्रस्तुतिः
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२ ॥
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३ ॥
मूलम्
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२ ॥
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३ ॥
कामगुणान् काम्यन्त इति कामाः प्रार्थनीयाः गुणाः येषांते तान् आभरणादिवस्तुविशेषान् ॥ ८२-८३ ॥
विश्वास-प्रस्तुतिः
विभीषणोथ सुग्रीवो हनुमाञ्जाम्बवांस्तथा ।
सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४ ॥
यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५ ॥
नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६ ॥

विभीषणोथेति । अत्र संभावितपरिगणने प्रथमं कीर्तनाल्लब्ध्वा कुलधनमित्य -नुवादाच्च आदावेव विभीषणः संभावित इति बोध्यम् ॥ ८४-८६ ॥
विश्वास-प्रस्तुतिः
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
[ पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ] ॥ ८७ ॥
मूलम्
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
[ पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ] ॥ ८७ ॥
सुग्रीव इत्यर्धम् ॥ अत्रापि वचनव्यत्ययेन किष्किन्धामभ्युपागमदित्यनुषज्यते ॥ ८७ ॥
विश्वास-प्रस्तुतिः
[ रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः । ]
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८ ॥
मूलम्
[ रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः । ]
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८ ॥
लब्ध्वेत्यर्धं । कुलधनं इक्ष्वाकुकुलधनं श्रीरङ्गविमानमिति संप्रदायः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ॥ ८९ ॥
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९० ॥
मूलम्
स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ॥ ८९ ॥
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९० ॥
शासन् दुष्टनिग्रहं कुर्वन् शशास बुभुज इत्यर्थः । धातूनामनेकार्थत्वात् ॥ ८९-९० ॥
विश्वास-प्रस्तुतिः
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ॥
तुल्यं मया त्वं पितृभिर्घृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९१ ॥
मूलम्
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ॥
तुल्यं मया त्वं पितृभिर्घृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९१ ॥
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धरां इति पूर्वाभिषेकारम्भे भरतासन्निधाने प्रतिज्ञानात् रामो द्विर्नाभिभाषत इति नियमाल्लक्ष्मणमेव यौवराज्ये नियुङ्क्ते – आतिष्ठेति । पूर्वराजैः मन्वादिभिः अध्युषितां । आतिष्ठ पालयं । पितृभिः पितृपितामहप्रपितामहैः या धृता तां धुरं मया तुल्यं यथा भवति तथा यौवराज्ये स्थित्वा उद्वहस्व ॥ ९१ ॥
विश्वास-प्रस्तुतिः
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ ॥
मूलम्
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ ॥
यौवराज्ये नियुज्यमानः यौवराज्यमङ्गीकुरुष्वेति नियम्यमानः । पर्यनुनीयमानः पुनःपुनरनुनयेन पृच्छ्यमानः सन्नपि च सर्वात्मना सर्वप्रकारेणापि यदा योगं संमतिं नोपैति । स्वशेषत्वविरुद्धत्वज्ञानाज्येष्ठे भरते विद्यमाने स्वस्य तदनुचितत्वज्ञानाच्चेति भावः । तदा भरतं अत्यन्तपरतन्त्रं यौवराज्ये अभ्यषिञ्चत् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३ ॥
राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४ ॥
आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५ ॥

पौण्डरीकेति । अत्रोत्तरक्रत्वारम्भोक्तिर्वनवासात्परमग्न्याधानपूर्वकं पूर्वक्रतवोपि रामेण कृता इत्यस्योपलक्षणम् ॥ ९३-९५ ॥
विश्वास-प्रस्तुतिः
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६ ॥
मूलम्
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६ ॥
चापीति निपातसमुदायोवधारणार्थोऽभिन्नक्रमः । ससुहृज्जातिवान्धव एवेत्यर्थः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७ ॥
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८ ॥
मूलम्
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७ ॥
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८ ॥
न पर्यदेवन्निति । नपर्यदेवयन्नित्यर्थः ॥ ९७-९८ ॥
विश्वास-प्रस्तुतिः
सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९ ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०० ॥
रामो रामो राम इति प्रजानामभवन्कथाः ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१ ॥
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३ ॥
आसन्प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥ १०४ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५ ॥

राममेवेति । अन्योन्यनिर्मूलनवैरे सत्यपि राममुखं म्लानं भविष्यतीति मत्वा परस्परं नाभ्यहिंसन् । परमधार्मिकं राममेवानुचिन्तयन्तोऽन्योन्यवैरं प्रजहुरित्यर्थः ॥ ९९-१०५ ॥
विश्वास-प्रस्तुतिः
धेन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६ ॥
मूलम्
धेन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६ ॥
अथ रामायणपठने फलं दर्शयति- धन्यमित्यादिसार्धश्लोकमेकं वाक्यम् ॥ ऋषिः वेदः तत्संबन्धि । वेदोपबृंहणमिति यावत् । पुरा अवतारात्पूर्वं । रामोत्तरतापनीयमूलत्वेन पुरातनमितिवार्थः । यद्वा पुरा सर्वकविभ्यः पूर्वं । न त्ववतारात्पूर्वमित्यर्थः । प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मावान् इति रामे प्राप्तराज्ये सति चकारेत्युपक्रमात् रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् इति राज्यप्राप्तिपर्यन्तं भूततया निर्दिश्य ततः परं ब्रह्मलोकं प्रयास्यतीत्येतदन्तं भविष्यत्तयानिर्देशात् कोन्वस्मिन्सांप्रतं लोके’ इत्यादौ सांप्रतशब्दप्रयोगात् रामभूतं जगदभूद्रामे राज्यं प्रशासति इति सकललोकविदितरामविषयप्रश्नानुपपत्तेः सर्वथा परिहृतत्वात् । इतिहासं पुरातनम् इत्यस्य आदिकाव्यत्वात्सङ्गतेरन्येषामपि विरोधाभासानां सुपरिहार्यत्वाच्चार्यमेवार्थः ॥ १०६ ॥
विश्वास-प्रस्तुतिः
पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च ।
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७ ॥
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ।
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८ ॥
भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः ।
[ भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ] ॥ १०९ ॥
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ।
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११० ॥

पुत्रकामस्त्वित्यादिसार्धश्लोकद्वयमेकं वाक्यम् ॥ रामाभिषेचनं रामामिषेकावधिकं । अधितिष्ठति आक्रम्यं तिष्ठतीत्यर्थः । माता कौसल्या । जीवपुत्राः भवन्तीति शेषः ॥ १०७-११० ॥
विश्वास-प्रस्तुतिः
शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११ ॥
समागमं प्रवासान्ते लभते चापि बान्धवैः ।
प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२ ॥
मूलम्
शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११ ॥
समागमं प्रवासान्ते लभते चापि बान्धवैः ।
प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२ ॥
शृणोति य इत्यादिश्लोकद्वयमेकान्वयम् ॥ दुर्गाणि दारिद्र्यादीनि ॥ १११-११२ ॥
विश्वास-प्रस्तुतिः
श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३ ॥
विजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूपुरनुत्तमान् ॥ ११४ ॥
पूजयंश्च पठंश्चेममितिहासं पुरातनम् ।
सर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५ ॥

विनायकाः विघ्नकरा ग्रहाः ॥ ११३-११५ ॥
विश्वास-प्रस्तुतिः
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६ ॥
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७ ॥
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।
[ साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ] ॥ ११८॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च ॥
श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९ ॥

ब्राह्मणवत् क्षत्रियस्यापि पाठप्राप्तौ नियममाह — प्रणम्येति । वैश्यादीनां कैमुतिकसिद्धं ब्राह्मणात् प्रणमनपूर्वकं श्रवणम् ॥ ११६-११९ ॥
विश्वास-प्रस्तुतिः
आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च ॥
श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ १२० ॥
[ वस्त्रेण दिव्येन धनेन चैव धान्येन भूम्याभरणेन वेश्मना ॥
संतर्पयेद्वाचकमर्थजालैर्न चेत्फलं विन्दति वित्तशाठ्यकृत् ॥ १२१ ॥ ]
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२२ ॥
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा ।
रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२३ ॥

सौभ्रातृकं सौभ्रातृकरं सुखं सुखकरम् ॥ १२०-१२३ ॥
विश्वास-प्रस्तुतिः
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२४ ॥
मूलम्
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२४ ॥
संहितातुल्यत्वात् संहितेति व्यपदेशः ॥ १२४ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥
इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वसेवातिरेकादुद्भूतोद्दामबोधः कुशिकसुतकुला -पाम्पतेरोषधीशः ।
श्रीमान्गोविन्दराजो वरदगुरुसुतो भावनाचार्यवर्यप्रेम्णैव प्रेर्यमाणो व्यतनुत विपुलां युद्धकाण्डस्यटीकाम् ॥ १ ॥

इति युद्धकाण्डः समाप्तः ॥ ६ ॥
मूलम्
इति युद्धकाण्डः समाप्तः ॥ ६ ॥