१२६ पुष्पके सीता-रामसंवादः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडत्युत्तरशततमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडत्युत्तरशततमः सर्गः

विषयाः
  • पुष्पकस्थेन रामेण सीतां प्रति लङ्का-किष्किन्धयोर् मध्ये विद्यमान-युद्ध-भूमि-सेतु-प्रभृतीनां प्रदर्शनम् ॥ १ ॥
  • किष्किन्धां दृष्टवत्या सीतया तारा-प्रभृति-वानर-नारीणां सहानयनं प्रार्थितेन रामेण सुग्रीवेण तासाम् आनयनम् ॥ २ ॥
  • तथा पुनः सीतां प्रति किष्किन्धायोध्ययोर् मध्यस्थ-पम्पादि-प्रदर्शन-पूर्वकम् अयोध्या-प्रदर्शनम् ॥ ३ ॥
  • सीतया सुग्रीवादिभिश् च सहर्ष-कौतुकम् अयोध्या-दर्शनम् ॥ ४ ॥
विश्वास-प्रस्तुतिः

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥

मूलम्

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् ।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १ ॥

व्याख्या

अथ विलासेन सीतायै तत्तद्देशप्रदर्शनं – अनुज्ञातं त्वित्यादि ॥ १ ॥

विश्वास-प्रस्तुतिः

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामःः शशिनिभाननाम् ॥ २ ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥

मूलम्

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामःः शशिनिभाननाम् ॥ २ ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् ।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३ ॥

व्याख्या

मैथिलीं राजपुत्रीलेन लालनीयत्वोक्तिः ॥ २-३ ॥

विश्वास-प्रस्तुतिः

एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥

मूलम्

एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४ ॥

व्याख्या

आयोधनं युद्धभूमिं । विशस्यन्वेस्मिन्नितिविशसनं । अधिकरणे ल्युट् ॥ ४ ॥

विश्वास-प्रस्तुतिः

अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ ५ ॥

मूलम्

अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः ।
तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ ५ ॥

व्याख्या

दत्तवरः ब्रह्मणा दत्तवरः । प्रमाथी हिंसकः शेते । भस्मस्वरूपेणेत्यर्थः ॥ ५ ॥

विश्वास-प्रस्तुतिः

कुम्भकर्णोत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६ ॥

मूलम्

कुम्भकर्णोत्र निहतः प्रहस्तश्च निशाचरः ।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६ ॥

व्याख्या

प्रहस्तश्चेत्यत्र नीलेनेत्यध्याहार्यम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

विद्युन्माली हतश्चात्र सुषेणेन महात्मना ॥ ७ ॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ।
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ॥ ८ ॥
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ।
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ॥ ९ ॥
[ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ ॥ १० ॥
निकुंभश्चैश्च कुंभश्च कुंभकर्णात्मजो बली ।
वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः ॥ ११ ॥
मकराक्षश्च दुर्धर्षो मया युधि निपातितः ।
अकंपनश्च निहतः शोणिताक्षश्च वीर्यवान् ॥ १२ ॥
यूपाक्षश्च प्रजंघश्च निहतौ तु महाहवे ।
विद्युज्जिह्वोत्र निहतो राक्षसो भीमदर्शनः ॥ १३ ॥
यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः ।
सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथाऽपरः ॥ १४ ॥ ]
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् ।
सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ १५ ॥

विद्युन्मालीति । पूर्वमनुक्तमप्यत्रानुवादावाह्यं । एवं विकट इत्यत्रापि ॥ ७-१५ ॥

विश्वास-प्रस्तुतिः

एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ १६ ॥

मूलम्

एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ १६ ॥

व्याख्या

तीर्थं उत्तरणस्थानं । यत्र तीर्थे तां रात्रिं सागरतरणरात्रिम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १७ ॥

मूलम्

एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १७ ॥

व्याख्या

सागरे सगरखानिते । सलिलेति क्षीरोदादिव्यावृत्तिः । एष सेतुः नलसेतुः नलबद्धः । षिञ् बन्धने इति धातुः । एतेन नलसेतुः सेतुरित्युक्त्या पूर्वकल्पकृतसेत्वन्तरं व्यावर्त्यते इति प्रत्युक्तं । पूर्वमेव सेतुसत्त्वे पुनः सेतुकरणवैयर्थ्यात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ १८ ॥

मूलम्

पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ १८ ॥

व्याख्या

अपारं मध्ये द्वीपभूतपाररहितम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥ १९ ॥

मूलम्

हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥ १९ ॥

व्याख्या

हिरण्यनाभं मैनाकम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ २० ॥

मूलम्

एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ २० ॥

व्याख्या

एतदित्यर्थम् ॥ कुक्षौ मध्ये । सेतूपरीति शेषः । स्कन्धावारनिवेशनं स्कन्धावारनिवेशन -रूपस्थानं । स्कन्धावारः शिबिरम् ॥ २० ॥

विश्वास-प्रस्तुतिः

एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ॥
एतत्पवित्रं परमं महापातकनाशनम् ॥ २१ ॥

मूलम्

एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ॥
एतत्पवित्रं परमं महापातकनाशनम् ॥ २१ ॥

व्याख्या

एतत्त्वित्यादिसार्धश्लोकमेकं वाक्यम् ॥ पूजितं पूजितुमर्हं । पूर्वं सेतोदक्षिणकोटिरुक्ता । अत्रोत्तरकोटिरिति ज्ञेयं । अनुगृह्णाति-एतदिति । पवित्रं पावनं । महापातकनाशनं च । भविष्यतीति शेषः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः ॥ २२ ॥

मूलम्

अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः ॥ २२ ॥

व्याख्या

एवं लङ्काम् आरभ्य
सेतु-बन्ध-पर्यन्तम् उक्त्वा
तत उत्तरे दूर्भ-शयन-स्थानं निर्दिशति—
अत्र पूर्वम् इति ॥

महादेव इति समुद्र-राज उच्यते - औचित्यात्।
प्रभुः—समुद्र-जलाधिष्ठाता।
प्रसादम् अकरोत्— “सागरं शोषयिष्यामी"ति कुपितस्य मे प्रसादं, प्रसन्नत्वम्, अकरोत्।
“प्रसादस् तु प्रसन्नता” इत्य् अमरः।

न त्व् अत्र रुद्रो महादेवः। तेन पूर्वं प्रसाद-करणानुक्तेः। पूर्वोक्तानाम् एव ह्य् अत्रानुवादः कृतः।

न च

अङ्गदेन विकट-निरसनस्य
पूर्वम् अनुक्तत्वेऽपि
यथानुवादात् तत्-सिद्धिः,
तथात्रापि भविष्यति

इति वाच्यम्, तद्वद् अत्राविरोधाभावात्।
उपलभ्यते हि विरोधः।
तथा हि—

तत्र प्रसादः किं सेतु-निर्माण-काले वा पुनर् आगमन-काले वा?

  1. नाद्यः। प्रसाद-करण-हेतु-रावण-वधादेर् अभावात्, पूर्व-सिद्ध-समुद्र-प्रसादेनैवोपपत्तेश् च, महादेव-समाख्यायाः समुद्र-प्रसाद-श्रुत्या बाधितुं युक्तत्वाच् च।
  2. न द्वितीयः। पूर्व-शब्द-विरोधात्।

न च

“पूर्वम्” इत्यस्य पूर्व-कल्प इत्य् अर्थ

इति वाच्यम्।
“आत्मानं मानुषं मन्ये” इति वदता सुग्रीवादि-सन्निधौ
स्वस्य विष्ण्व्-अवतारत्व-द्योतक-पूर्व-वृत्तोद्घाटनानौचित्यात्,
पूर्व-कल्प-कृत-सेतु-सद्भावे
पुनस् तन्-निर्माण-वैयर्थ्यात्।
किं च, “अत्र” इति पदस्य
पूर्व-श्लोकोक्त-नल-कारित-सेतु-परामर्शित्वम् एवोचितम्,
न तु पूर्व-कल्प-कृत-सेतु-परामर्शित्वम्,
तस्य सद्भावेऽप्य् अन्तरितत्व-सम्भवात्। +++(4)+++

ननु पुराणान्तरानुसारात् तद्-अर्थ-परत्वं युक्तम्।
तथा हि कूर्म-पुराणे

सेतु-मध्ये महादेवम्
ईशानं कृत्ति-वाससम् ।
स्थापयामास वै लिङ्गं
पूजयामास राघवः ॥
तस्य देवो महादेवः
पार्वत्या सह शङ्करः ।
प्रत्यक्षम् एव भगवान्
दत्तवान् वरम् उत्तमम् ॥
“ये त्वया स्थापितं लिङ्गं
द्रक्ष्यन्तीह द्विजातयः ।
महा-पातक-संयुक्तास्
तेषां पापं विनश्यति ॥
अन्यानि चैव पापानि
तीरे तत्र महोदधेः ।
दर्शनाद् एव लिङ्गस्य
नाशं यान्ति न संशयः ॥
यावत् स्थास्यन्ति तरवो
यावद् एव च मेदिनी ।
यावत् सेतुश् च तावच् च
स्थास्याम्य् अत्र तिरोहितः ॥
स्नानं दानं जपः श्राद्धं
भविष्यत्य् अक्षयम् ततः ।
स्मरणाद् एव लिङ्गस्य
दिन-पापं प्रणश्यति” ॥
इत्य् उक्त्वा भगवान् वाचं
परिष्वज्य च राघवम् ।
स-नन्दी स-गणो रुद्रस्
तत्रैवान्तरधीयत

इति ॥

पाद्मे पुराणे अपि—

रामः पुष्पकाद् अवरुह्य
महादेवं प्रतिष्ठापितवान्,
सो ऽस्मै प्रसन्नोऽभूद्

इत्य् उच्यते।
एतादृश-पुराण-वचनानुसारेणायं
श्लोको लिङ्ग-प्रतिष्ठां बोधयति

इति।
मैवम्। उक्त-दोषानिस्तारात्।
इतिहासो हि परिग्रहातिशयात्,
ग्रन्थ-सौष्ठवाच् च,
“इतिहास-पुराणं पञ्चमम्” इत्य्-आदाव्
अधिक-अक्षरत्वेऽपि पूर्व-प्रयोगेणाभ्यर्हितत्वाच् च
पुराणेभ्यो गरीयान्।
“इति वेदः प्राचेतसाद् आसीत्”
इति वेदमयत्वोक्त्या,
चतुर्मुख-वर-प्रदान-मूलतया च प्रबलतरः।
तद्-विरोधे तामस-पुराण-वचनानि न प्रमाणानि।
किं च, पुराणं सर्ग-प्रतिसर्गादिष्व् अन्य-परम्
इति न इतिहासवत् पुरावृत्त-कथने तात्पर्यवत्।+++(5)+++

अथ वा,

अस्मिन् सर्गे श्लोकाः प्रायशो व्यत्यस्ता दृश्यन्त

इत्य् उड्डारि-प्रभृतिभिर् उक्तम्।
तथा चेद् इदम् अर्धम्
“अत्र मण्डोदरीति” श्लोकानन्तरं पठितव्यम्।
तत्र च महादेव-प्रसादः स्व-पितृ-दर्शनम् एव।
अत एव भरतं प्रति हनुमत्-प्रेषणावसरे वक्ष्यति—

“महादेव-प्रसादाच् च
पित्रा मम समागमम्”

इति।
पुराणान्तरं तु माहात्म्य-प्रतिपादन-परं बोध्यम् इति संक्षेपः ॥ २२ ॥

विश्वास-प्रस्तुतिः

अत्र राक्षसराजोऽयमाजगाम विभीषणः ॥ २३ ॥

मूलम्

अत्र राक्षसराजोऽयमाजगाम विभीषणः ॥ २३ ॥

व्याख्या

अत्र राक्षसराज इति ॥ अत्र समुद्रराजप्रसादप्रदेशादुत्तरतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ २४ ॥

मूलम्

एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ २४ ॥

व्याख्या

पम्पावनमधुवनाद्यपेक्षया चित्रकाननेत्युक्तिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।
अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥ २५ ॥

मूलम्

अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।
अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥ २५ ॥

व्याख्या

प्रणयसाध्वसा प्रणययुक्तसाध्वसवती । प्रणतसाध्वसेति पाठे उपनतसाध्वसा । सुग्रीवादिसन्निधानात्प्रणयसाध्वसेति प्रथमभाषणरूपत्वाद्वा ॥ २५ ॥

विश्वास-प्रस्तुतिः

सुग्रीवप्रिय भार्याभिस्ताराप्रमुखतो नृप ।
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ॥
गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ॥ २६ ॥

मूलम्

सुग्रीवप्रिय भार्याभिस्ताराप्रमुखतो नृप ।
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् ॥
गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ॥ २६ ॥

व्याख्या

सुग्रीवेत्यादिसार्धश्लोक एकान्वयः ॥ अहं ताराप्रमुखतः ताराप्रमुखाभिः सुग्रीवप्रियभार्याभिः सह अन्येषां वानरेन्द्राणां स्त्रीमिश्च परिवृता सती त्वया सह अयोध्यां गन्तुं इच्छे इच्छामीति संबन्धः । आत्मनेपदमार्षम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवम्मुक्तोथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥ २७ ॥

मूलम्

एवम्मुक्तोथ वैदेह्या राघवः प्रत्युवाच ताम् ।
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥ २७ ॥

व्याख्या

एवमित्यादिसार्धश्लोक एकान्वयः ॥ एवमस्त्विति सीतां प्रत्युवाच । अथ किष्किन्धां प्राप्य विमानं संस्थाप्य सुग्रीवं प्रेक्ष्योवाचेति संबन्धः ॥ २७ ॥

विश्वास-प्रस्तुतिः

ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् ।
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥ २८ ॥

मूलम्

ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् ।
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥ २८ ॥

व्याख्या

यान्त्वित्यत्र इतिकरणं द्रष्टव्यं । सीतया निमित्तभूतया । सीताप्रियार्थमित्यर्थः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥ २९ ॥

मूलम्

तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥ २९ ॥

व्याख्या

तथा त्वमपीति अत्र याहीति विपरिणामेन संबन्धः । अभित्वरस्व । किष्किन्धायां विलम्बो न कार्य इत्यर्थः ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ॥ ३० ॥

मूलम्

एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ॥ ३० ॥

व्याख्या

सर्वैः समावृतो वानराधिपतिरुक्त इत्यन्वयः ॥ ३० ॥

विश्वास-प्रस्तुतिः

प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥ ३१ ॥

मूलम्

प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥ ३१ ॥

व्याख्या

प्रविश्येति ॥ अर्धमेकं वाक्यं । प्रवेश ः सुग्रीवस्यैव नतु वानराणां । भाषत अभाषत ॥ ३१ ॥

विश्वास-प्रस्तुतिः

प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ ३२ ॥

मूलम्

प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् ।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ ३२ ॥

व्याख्या

नारीभिः स्त्रीभिः सह अनुज्ञाता । अयोध्यागमनं प्रतीति शेषः । त्वं च वानरस्त्रियश्चानुज्ञाता इत्यर्थः । नारीणामिति पाठे तृतीयार्थे षष्ठी ॥ ३२ ॥

विश्वास-प्रस्तुतिः

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ ३३ ॥

मूलम्

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः ।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ ३३ ॥

व्याख्या

गृह्य गृहीत्वा । आनीयेति यावत् । दर्शयिष्यामः द्रक्ष्यामः । दशरथस्त्रियः दशरथस्त्रियश्च ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥ ३४ ॥

मूलम्

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना ।
आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥ ३४ ॥

व्याख्या

सर्वाङ्गशोभनेत्यनेन पूर्वं स्वयमलंकृतवतीति गम्यते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३५ ॥
प्रवेशं चापि रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ३६ ॥

मूलम्

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३५ ॥
प्रवेशं चापि रामस्य पौरजानपदैः सह ।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ ३६ ॥

व्याख्या

सुग्रीवेणेत्यादिश्लोकद्वयमेकान्वयम् ॥ सुग्रीवेण सर्वैर्वानरैः स्वस्वभर्तृभिर्वानरैः सह अयोध्यां गन्तुमभ्यनुज्ञाताः । यूयमिति शेषः । न केवलं सुग्रीवानुज्ञामात्रं मत्प्रियार्थं च भवतीमिरागन्तव्यमित्याह – मम चापीति । अयोध्यादर्शनेन मम यत्प्रियं तद्भवतीभिः सहागत्य कार्यमित्यर्थः । रामस्य प्रवेशं च दशरथस्य स्त्रीणां विभूतिं ऐश्वर्यं च । द्रक्ष्याम इति शेषः ॥ ३५-३६ ॥

विश्वास-प्रस्तुतिः

तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः ।
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ॥
अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया ॥ ३७ ॥

मूलम्

तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः ।
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ॥
अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया ॥ ३७ ॥

व्याख्या

तारयेत्याद्यर्धत्रयमेकान्वयम् ॥ नेपथ्यं अलंकारं । विधिपूर्वेण मङ्गलालम्भनादिविधिपूर्वकमित्यर्थः । अत्रालंकरणाह्वानादिना दिनमेकं गतमित्याहुः । प्रदक्षिणं कृत्वा । विमानस्येति शेषः । प्रादक्षिण्येन गमनमात्रमत्र विवक्षितं । अतिविपुलस्य तस्य सद्यः प्रदक्षिणासंभवात् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥ ३८ ॥
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ ३९ ॥

मूलम्

ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥ ३८ ॥
दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ ३९ ॥

व्याख्या

उत्थितमित्यनेन तारागमनपर्यन्तं भूमौ विमानं स्थितमिति ज्ञायते ॥ ३८-३९ ॥

विश्वास-प्रस्तुतिः

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
समयश्च कृतः सीते वधार्थं वालिनो मया ॥ ४० ॥

मूलम्

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।
समयश्च कृतः सीते वधार्थं वालिनो मया ॥ ४० ॥

व्याख्या

समयः संकेतः ॥ ४० ॥

विश्वास-प्रस्तुतिः

एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।
त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥ ४१ ॥
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।
अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ ४२ ॥

मूलम्

एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।
त्वया विहीनो यत्राहं विललाप सुदुःखितः ॥ ४१ ॥
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।
अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ ४२ ॥

व्याख्या

विललाप । लिडुत्तमैकवचनम् ॥ ४१-४२ ॥

विश्वास-प्रस्तुतिः

दृश्यते च जनस्थाने सीते श्रीमान्वनस्पतिः ।
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ॥
रावणस्य नृशंसस्य जटायोष महात्मनः ॥ ४३ ॥

मूलम्

दृश्यते च जनस्थाने सीते श्रीमान्वनस्पतिः ।
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि ॥
रावणस्य नृशंसस्य जटायोष महात्मनः ॥ ४३ ॥

व्याख्या

दृश्यते चेत्यादिसार्धश्लोकमेकं वाक्यम् ॥ श्रीमान् वनस्पतिः जटायुनिवासभूतो वटः । तस्य श्रीमत्त्वं महात्मना जटायुषाधिष्ठितत्वात् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

खरश्च निहतो यत्र दूषणश्च निपातितः ।
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥
एतत्तदाश्रमपदमस्माकं वरवर्णिनि ॥ ४४ ॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ।
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ ४५ ॥

खरश्चेत्यादिसार्धश्लोक एकान्वयः ॥ तत् पञ्चवटीति प्रसिद्धम् ॥ ४४–४५ ॥

विश्वास-प्रस्तुतिः

एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥ ४६ ॥

मूलम्

एषा गोदावरी रम्या प्रसन्नसलिला शिवा ।
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥ ४६ ॥

व्याख्या

एषा गोदावरीति । अयमेव पाठः सम्यक् । एषा मन्दाकिनीति पाठे अगस्त्याश्रमसमीपे मन्दाकिनीति काचिन्नद्यस्तीति ज्ञेयं । एतच्छ्श्लोकात्पूर्वं पर्णशालेति श्लोकः पठनीयः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥ ४७ ॥

मूलम्

दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥ ४७ ॥

व्याख्या

दीप्तश्चेत्यर्धम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ ४८ ॥

मूलम्

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् ।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ ४८ ॥

पुराण शत्रुशरीराणि शत्रुपुराणि वा दारयतीति पुरन्दरः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अस्मिन्देशे महाकायो विराधो निहतो मया ॥ ४९ ॥

मूलम्

अस्मिन्देशे महाकायो विराधो निहतो मया ॥ ४९ ॥

अस्मिन्देश इत्यर्धम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

एते हि तापसावासा दृश्यन्ते तनुमध्यमे ।
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ॥
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ ५० ॥
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते ।
यत्र मां केकयीपुत्रःप्रसादयितुमागतः ॥ ५१ ॥

एते हीत्यादिसार्धश्लोक एकान्वयः ॥ तापसावासाः । अस्माभिर्दश वर्षाणि यत्रोषितमिति भावः । तापसी अनसूया ॥ ५०–५१ ॥

विश्वास-प्रस्तुतिः

एषा सा यमुना दूरादृश्यते चित्रकानना ॥ ५२ ॥

मूलम्

एषा सा यमुना दूरादृश्यते चित्रकानना ॥ ५२ ॥

एषा सेत्यर्धम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ ५३ ॥

मूलम्

भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ ५३ ॥

भरद्वाजेत्यर्धम् ॥ यत्र भरद्वाजाश्रमः । पूर्व दृष्ट इति शेषः । श्रीमान् स एष प्रदेशः प्रकाशते । अदूरवर्तितया सम्यग्दृश्यते ॥ ५३ ॥

विश्वास-प्रस्तुतिः

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीर्णा संप्रपुष्पितकानना ॥ ५४ ॥

मूलम्

एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ।
नानाद्विजगणाकीर्णा संप्रपुष्पितकानना ॥ ५४ ॥

वरवर्णिनीति सीतासंबोधनम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ॥ ५५ ॥

मूलम्

शृङ्गवेरपुरं चैतद्गुहो यत्र समागतः ॥ ५५ ॥

शृङ्गबेरपुरमित्यर्धम् ॥ यत्र गुहः समागतः तच्छृङ्गवेरपुरं एतदित्यन्वयः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
नानातरुशताकीर्णा संप्रपुष्पितकानना ॥ ५६ ॥

मूलम्

एषा सा दृश्यते सीते सरयूर्यूपमालिनी ।
नानातरुशताकीर्णा संप्रपुष्पितकानना ॥ ५६ ॥

यूपमालिनी इक्ष्वाकुभिस्तीरे यागानन्तरं कीर्त्यर्थं शिलाभिः कृतयूपवतीत्यर्थः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ५७ ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ५८ ॥

मूलम्

एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ ५७ ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ ५८ ॥

अयोध्यामिति । उद्दिश्येति शेषः । विमानस्याकाशगतत्वेन दूरस्था अपि गङ्गा शृङ्गबेरपुरसरय्वयोध्या दृष्टा इति बोध्यम् । भरद्वाजाश्रमे हि तदा स्थितिः ॥ ५७-५८ ॥

विश्वास-प्रस्तुतिः

ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ॥
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ ५९ ॥

मूलम्

ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसंकुलाम् ॥
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ ५९ ॥

पाण्डुरेत्यादिस्वभावोक्तिः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडत्युत्तरशततमः सर्गः॥ १२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणेरत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षड्विंशत्युत्तरशततमः सर्गः ॥ १२६ ॥