१२५ पुष्पकविमानेन रामादीनां प्रयाणम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः

विषयाः

विभीषणेनरामंप्रति स्वसमानीतपुष्पकप्रदर्शनपूर्वकं स्वकर्तव्य निवेदनप्रार्थना ॥ १ ॥ रामेणतंप्रति वानरकृतोपकारस्मारणपूर्वकं वस्त्रालंकारादिभिस्तत्संमाननचोदना ॥ २ ॥ तथा विभीषणेनपूजितेषुसत्सुतेषु सीतालक्ष्मणाभ्यांसह पुष्पकारोहणेन सुग्रीवविभीषणादीनां स्वस्वावासेषुसुखावस्थानचोदनपूर्वकं स्वस्यायोध्यागमनाभ्यनुज्ञानयाचनम् ॥ ३ ॥ तथा सुग्रीवविभीषणादिभिः स्वेषामयोध्याऽऽगमनेन स्वाभिषेकावलोकनकुतूहलनिवेदने स्वाज्ञयापुष्पकारूढैस्तैस्सहायोध्यांप्रति प्रस्थानम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १॥

मूलम्

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १॥

व्याख्या

अथ वानरसेनासंमाननं – उपस्थितमित्यादि ॥ तं दृष्ट्वा दर्शयित्वा । तत्कृत्वेति वा पाठः । प्रत्युवाच विमानमागतमितीति शेषः । स त्विति द्वितीयश्लोकसंग्रहो वायं श्लोकः ॥ १ ॥

विश्वास-प्रस्तुतिः

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।
अब्रवीत्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥

मूलम्

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः ।
अब्रवीत्वरयोपेतः किं करोमीति राघवम् ॥ २ ॥

व्याख्या

त्वरयोपेतः आदरोपेत इत्यर्थः । किं करोमीति । इतः परं किं करवाणीत्यर्थः ॥ २ ॥

विश्वास-प्रस्तुतिः

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३ ॥

मूलम्

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ ३ ॥

व्याख्या

लक्ष्मणस्योपशृण्वतः लक्ष्मणसंमतिपूर्वकमित्यर्थः ॥ ३ ॥

विश्वास-प्रस्तुतिः

कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥ ४ ॥

मूलम्

कृतप्रयत्नकर्माणो विभीषण वनौकसः ।
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥ ४ ॥

व्याख्या

प्रयत्नकर्म प्रयत्नसाध्यं कर्मेत्यर्थः । अर्थैः प्रयोजनैः वस्त्रादिभिरित्यर्थः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ५ ॥

मूलम्

सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर ।
हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ ५ ॥

व्याख्या

अजिता पूर्वं सुरादिभिरप्यजिता । तव लङ्काराज्यप्राप्तिरेव तदधीत्यर्थः । हृष्टैः मयि प्रीतिमद्भिरित्यर्थः ॥ ५ ॥

विश्वास-प्रस्तुतिः

त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ ६ ॥

मूलम्

त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ।
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ ६ ॥

व्याख्या

त इम इत्यर्धोक्तं भङ्ग्यन्तरेणाह- धनरत्नेति ॥ ६ ॥

विश्वास-प्रस्तुतिः

एवं संमानिताश्चैते मानार्हा मानद त्वया ।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ७ ॥

मूलम्

एवं संमानिताश्चैते मानार्हा मानद त्वया ।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ ७ ॥

व्याख्या

निर्वृताः सुखिताः । निर्वृत्ता इति पाठे निष्पन्नाः । परिपूर्णा इति यावत् ॥ ७ ॥

विश्वास-प्रस्तुतिः

त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् ।
सर्वे त्वामवगच्छन्ति ततः संबोधयाम्यहम् ॥ ८ ॥

मूलम्

त्यागिनं संग्रहीतारं सानुक्रोशं यशस्विनम् ।
सर्वे त्वामवगच्छन्ति ततः संबोधयाम्यहम् ॥ ८ ॥

व्याख्या

अर्थव्ययेन खेदो मा भूदित्याह- त्यागिनमिति ॥ संग्रहीतारं घनप्रदानेन मित्रसंग्रहकारिणमित्यर्थः । संग्रहार्थं त्यागित्वमुक्त्वा दयया त्यागित्वमाह – सानुक्रोशमिति । यशस्विनं त्यागकृतयशोवन्तं । संबोधयामि न तु चोदयामीत्यर्थः ॥ ८ ॥

विश्वास-प्रस्तुतिः

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ ९ ॥

मूलम्

हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे ।
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ ९ ॥

व्याख्या

सैनिकसंमानाकरणे दोषमाह – हीनमिति ॥ नृपतिं स्वामिनमपि । रतिगुणैः प्रीतिकरैरौदार्यादिगुणैः हीनं । अभिहन्तारं हिंसनशीलं । प्रसादं विना क्रोधैकनिरतमिति यावत् । तं नरेश्वरं सैन्याः संविग्नाः आहवे त्यजन्तीति योजना ॥ ९ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ १० ॥

मूलम्

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ १० ॥

व्याख्या

संविभागेन यथार्हमंशकल्पनया । समतया प्रदाने अधिकानां कोपप्रसङ्गादिति भावः ॥ १० ॥

विश्वास-प्रस्तुतिः

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् ।
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ११ ॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् ।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १२ ॥
अब्रवीच्च विमानस्थः पूजयन्सर्ववानरान् ।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥ १३ ॥

तत इत्यादिश्लोकद्वयमेकान्वयम् ॥ ततः पूजानन्तरं ततः पूजादर्शनादेव हेतोरिति ततःशब्दद्वययोजना । लज्जमानां सदस्यङ्कारोहणाय लज्जन्तीं । रामेणाङ्कारोपणं च स्त्रीसहायरहितत्वात् । धनुष्मता रामधनुर्धारिणा ॥ ११-१३ ॥

विश्वास-प्रस्तुतिः

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ १४ ॥

मूलम्

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः ।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ १४ ॥

व्याख्या

अब्रवीच्चेत्यत्र संग्रहेणोक्तं विवृणोति – मित्रेत्यादिना ॥ वानरान्प्रत्याह – मित्रेति ॥ १४ ॥

विश्वास-प्रस्तुतिः

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
कृतं सुग्रीव तत्सर्वं भवताऽधर्मभीरुणा ॥
किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ १५ ॥

मूलम्

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप ।
कृतं सुग्रीव तत्सर्वं भवताऽधर्मभीरुणा ॥
किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ १५ ॥

व्याख्या

सुग्रीवं प्रत्याह- यत्त्वित्यादिना ॥ सुहृदा शोभनहृदयेन । वाशब्द एवकारार्थः । अधर्मभीरुणेति च्छेदः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ।
न त्वां धर्पयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ १६ ॥
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ।
अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ॥ १७ ॥
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ।
ऊचुः प्राञ्जलयो रामं राक्षसञ्च विभीषणः ॥ १८ ॥

विभीषणं प्रत्याह- स्वेति ॥ स्वराज्ये वस । न तु परकीयं रावणवदाक्रमितव्यं । अतो जनस्थानरक्षिणः समानेतव्या इति भावः ॥ १६-१८ ॥

विश्वास-प्रस्तुतिः

अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् ।
उद्युक्ता विचरिष्यामो वनानि नगराणि च ॥ १९ ॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ॥ २० ॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः ।
अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् ॥ २१ ॥

उद्युक्ताः सावधानाः । जनपदपीडामकुर्वन्त इत्यर्थः ॥ १९ – २१ ॥

विश्वास-प्रस्तुतिः

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २२ ॥
क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।
त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २३ ॥

मूलम्

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः ।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २२ ॥
क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ।
त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २३ ॥

व्याख्या

प्रियात्प्रियतरमिति ॥ सीतालाभः प्रियं । भरतदर्शनं प्रियात्प्रियं । भवद्भिः सह पुरप्रवेशः प्रियात्प्रियतरमित्यर्थः ॥ २२-२३ ॥

विश्वास-प्रस्तुतिः

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ॥ २४ ॥

मूलम्

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः ॥ २४ ॥

व्याख्या

शीघ्रं शीघ्रगमिति विमानविशेषणं । त्वरन्निति सुग्रीवविशेषणात् ॥ २४ ॥

विश्वास-प्रस्तुतिः

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ २५ ॥

मूलम्

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ २५ ॥

व्याख्या

आसनं वाहनम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

ययौ तेन विमानेन हंसयुक्तेन भास्वता ।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २६ ॥

मूलम्

ययौ तेन विमानेन हंसयुक्तेन भास्वता ।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २६ ॥

व्याख्या

हंसयुक्तेन प्रतिमारूपहंसयुक्तेन । प्रतीतः श्लाघितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।
यथासुखमसंबाधं दिव्ये तस्मिन्नुपाविशन् ॥ २७ ॥

मूलम्

ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ।
यथासुखमसंबाधं दिव्ये तस्मिन्नुपाविशन् ॥ २७ ॥

व्याख्या

यथासुखमसंबाधमिति पदद्वयेन दिव्यस्य पुष्पकस्य अपेक्षितावकाशप्रदत्वं गम्यते ॥ २७ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥