१२० लङ्कां प्रति देवैः आगमनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्युत्तरशततमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्युत्तरशततमः सर्गः

विषयाः

सीतायामग्निंप्रविष्टायां विमानगणैर्व्योमाङ्गणमलं कुर्वाणैर्ब्रह्मरुद्रादिसुरगणैः श्रीरामंप्रति सीतायास्तस्यचक्रमेणलक्ष्मीनारा यणस्वरूपत्वनिवेदनेनानेकप्रकारैः स्तवनपूर्वकं सीतात्यागस्यायुक्तत्वकथनम् ॥ १ ॥

विश्वास-प्रस्तुतिः

ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ १ ॥

मूलम्

ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ १ ॥

व्याख्या

अथ रामस्तवः–ततो हीत्यादि । दुर्मनाः दुः खितमनाः । दध्यौ मनसा ध्यानं कृतवान् ॥ १ ॥

विश्वास-प्रस्तुतिः

ततो वैश्रवणो राजा यमश्वामित्रकर्शनः ।
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ २ ॥
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३ ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ ४ ॥

मूलम्

ततो वैश्रवणो राजा यमश्वामित्रकर्शनः ।
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ २ ॥
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३ ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ ४ ॥

व्याख्या

तत इत्यादिश्लोकत्रयमेकं वाक्यम् ॥ २-४ ॥

विश्वास-प्रस्तुतिः

ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ५ ॥

मूलम्

ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ५ ॥

व्याख्या

प्रगृह्य उद्धृत्य ॥ ५ ॥

विश्वास-प्रस्तुतिः

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥
कथं देवगण श्रेष्ठमात्मानं नावबुध्यसे ॥ ६ ॥

मूलम्

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥
कथं देवगण श्रेष्ठमात्मानं नावबुध्यसे ॥ ६ ॥

व्याख्या

कर्तेत्यादि । पूर्वं ब्रह्मणः अद्वारकं कर्तृत्वं । अत्र सद्वारकं कर्तृत्वमिति न विरोधः । सर्वज्ञस्त्वं कथमज्ञ इवोपेक्षस इति भावः । देवगणश्रेष्ठं ब्रह्मादिदेवगणश्रेष्ठम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

ऋतधामा वसुः पूर्वं
वसूनां त्वं प्रजापतिः ।
त्रयाणां त्वं हि लोकानाम्
आदिकर्ता स्वयंप्रभुः ॥ ७ ॥
रुद्राणाम् अष्टमो रुद्रः
साध्यानाम् असि पञ्चमः ।
अश्विनौ चापि ते कर्णौ
चन्द्र-सूर्यौ च चक्षुषी ॥ ८ ॥
अन्ते चादौ च लोकानां
दृश्यसे त्वं परंतप ।
उपेक्षसे च वैदेहीं
मानुषः प्राकृतो यथा ॥ ९ ॥

मूलम्

ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।
त्रयाणां त्वं हि लोकानामादिकर्ता स्वयंप्रभुः ॥ ७ ॥
रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ॥ ८ ॥
अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ।
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ ९ ॥

व्याख्या

आत्मस्वरूपमेवाह – ऋतधामेत्यादिश्लोकत्रयमेकं वाक्यम् ॥ ऋतधामाख्यो वसुरित्यर्थः । प्रजापतिः प्रजास्वामीति वसुविशेषणं । आदिकर्ता । अण्डाधिपतिपर्यन्ताद्वारकसृष्टिकर्तेत्यर्थः । स्वयं प्रभवतीति स्वयंप्रभुः । अनियाम्य इत्यर्थः । रुद्राणां मध्ये अष्टमो रुद्रः तथा साध्यानामित्यत्रापि । अन्ते प्रलये, आदौ सृष्टेः प्राक दृश्यसे । अनेनोत्पत्तिविनाशराहित्यमुक्तं । एवं सर्वज्ञः सर्वशक्तिः सर्वेश्वरोपि सन् अज्ञ इव विदेहकुले प्रादुर्भूतां सीतां किमर्थमुपेक्षस इत्यर्थः ॥ ७-९ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो लोकपालैस् तैः
स्वामी लोकस्य राघवः ।
अब्रवीत् त्रिदशश्रेष्ठान्
रामो धर्मभृतां वरः ॥ १० ॥

मूलम्

इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।
अब्रवीत् त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः ॥ १० ॥

व्याख्या

लोकपालैः लोकरक्षकैः ॥ १० ॥

विश्वास-प्रस्तुतिः

आत्मानं मानुषं मन्ये
रामं दशरथात्मजम् ।
योहं यस्य यतश्चाहं
भगवांस् तद् ब्रवीतु मे ॥ ११ ॥
इति ब्रुवन्तं काकुत्स्थं
ब्रह्मा ब्रह्म-विदां वरः ।
अब्रवीच् - छृणु मे राम
सत्यं सत्यपराक्रम ॥ १२ ॥

मूलम्

आत्मानं मानुषं मन्ये
रामं दशरथात्मजम् ।
योहं यस्य यतश्चाहं
भगवांस्तद्ब्रवीतु मे ॥ ११ ॥
इति ब्रुवन्तं काकुत्स्थं
ब्रह्मा ब्रह्मविदां वरः ।
अब्रवीच्छृणु मे राम
सत्यं सत्यपराक्रम ॥ १२ ॥

व्याख्या

ब्रह्मादिभिः सामान्यतः स्तूयमानो ऽपि
सर्वदेवपूजनीयाच् चतुर्-मुखात्
स्वप्रभावं लोके प्रख्यापयितुं
स्वसौशील्यं दर्शयति – आत्मानमिति ॥+++(5)+++
आत्मानं मानुषं मन्ये ।
परत्वापेक्षया मानुषत्वाभिनय एव ममाभिमत इत्यर्थः ।
अत्रापि विशेषमाह – रामम् इति ।
रामं रामनामकं ।
ततोप्य् अतिशयमाह – दशरथात्मजमिति ।
अवतारापेक्षया चक्रवर्तिपुत्रत्वमेव प्रियतमम् इति भावः ।
स्वस्य विष्ण्व्-अवतारत्वं सुग्रीवादिभिर् अनवगतम् इति
तत्प्रतिपत्त्य्-अर्थं स्वस्वरूपं पृच्छति – योहमिति ।
योहमिति स्वरूपप्रश्नः ।
यस्येति संबन्धिप्रश्नः ।
यतइति प्रयोजनप्रश्नः ।
“भगवांस् तद् ब्रवीत्व्” इति ।
चक्रवर्तिपुत्रत्वम् एव ममात्यन्त-प्रियतमं ।
स्वयं सर्वज्ञतया
ममानभिमतम् अपि परत्वं प्रकटयत्व् इत्यर्थः ।
आकार-गोपन-विवरणस्यानभिमतत्वेपि
स्वयम् अनुमतिदानं रावण-निरसनेन निष्पन्न-कार्यतया ॥ ११- १२ ॥

विश्वास-प्रस्तुतिः

भवान्नारायणो देवः
श्रीमांश् चक्रायुधो विभुः ।
एकशृङ्गो वराहस् त्वं
भूत-भव्य-सपत्न-जित् ॥ १३ ॥

मूलम्

भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।
एकशृङ्गो वराहस्त्वं भूतभव्य-सपत्नजित् ॥ १३ ॥

व्याख्या

स्वरूपप्रश्नोत्तरमाह – भवानिति ॥
नाराः अयनं यस्यासौ नारायणः ।

आपो नारा इति प्रोक्ता
आपो वै नर-सूनवः ।
ता यद्-अस्यायनं पूर्वं
तेन नारायणः स्मृतः

इति मनु-स्मरणात् ।
तेन जगत्-कारणत्वम् उक्तं ।

एको ह वै नारायण आसीन्
न ब्रह्मा, नेशानो, नेमे द्यावापृथिवी

इति श्रुतेः ।
अवाप्त-समस्त-कामस्य
जगद्-व्यापारानुपपत्तिं परिहरति देव इति ।
दीव्यतीति देवः क्रीडाप्रवृत्तः ।
लीलायाः प्रयोजनत्वात्
परिपूर्णस्यापि व्यापारः संभवतीति भावः ।

एवं परत्वासाधारणं नामधेयम् उक्त्वा
पत्नी-वैशिष्ट्यम् आह – श्रीमान् इति ।
नित्यं श्रीर् अस्यास्तीति श्रीमान् ।
नित्य-योगे मतुप् ।

असाधारणम् आयुधम् आह – चक्रायुध इति ।
स्वरूप-वैलक्षण्यम् आह – विभुर् इति ।
व्यापक इत्यर्थः ।

फलितं रक्षकत्वमाह – एकशृङ्गो वराह इति ।
प्रलयोदधि-संप्लवे वराह-रूपं कृत्वा
भूमेर् उद्धारक इत्यर्थः ।
“उद्धृतासि वराहेण” इति श्रुतेः ।
अनिष्टनिवर्तकत्वम् आह –
भूत-भव्य–स-पत्न-जिद् इति ।
भूताः सपत्नाः मधुकैटभादयः
भव्याः सपत्नाः शिशुपालादयः
तान् जयतीति तथोक्तः ॥ १३ ॥

विश्वास-प्रस्तुतिः

अक्षरं ब्रह्म सत्यं च
मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो
विष्वक्सेन–चतुर्-भुजः ॥ १४ ॥

मूलम्

अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनचतुर्भुजः ॥ १४ ॥

व्याख्या

अथ सर्व-विद्योपसंहारार्थम् आह – अक्षरमित्यादि ॥
न क्षरतीत्यक्षरं अश्नोति व्याप्नोतीति वा अक्षरं । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः । भवानित्यनुषज्यते । अक्षरं भवान् । एवमुत्तरत्राप्यनुषज्जनीयं । बृहति बृंहयतीति च ब्रह्म । बृहति बृंहयति तस्मादुच्यते परं ब्रह्म इति श्रुतिनिर्वचनात् । सत्यं अविपर्यस्तं । षड्भावविकारशून्यमित्यर्थः । अस्ति जायते परिणमते विवर्धते अपक्षीयते विनश्यतीति षड्भावविकाराः । मध्ये चान्ते चेति । चकारादादौ चेत्यर्थः । वर्तमानमिति शेषः । नित्यत्वमुक्तमनेन । लोकानां परो धर्मः सिद्धरूपो धर्मः । सर्वलोकश्रेयः साधनीभूत इत्यर्थः । विष्वद्रीची सर्वगता सेना यस्य सः विष्वक्सेनः । सर्वस्वामीत्यर्थः । चतुर्भुजः युगपञ्चतुर्विधपुरुषार्थप्रद इत्यर्थः ॥ १४ ॥

विश्वास-प्रस्तुतिः

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खङ्गधृद्विष्णुः कृष्णश्चैव वृहद्बलः ॥ १५ ॥

मूलम्

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खङ्गधृद्विष्णुः कृष्णश्चैव वृहद्बलः ॥ १५ ॥

व्याख्या

शृङ्गविकारः शार्ङ्गं धनुर्यस्य स शार्ङ्गधन्वा । धनुषश्च इत्यनङादेशः । अनेन रक्षणोपकरणवत्त्वमुक्तं । हृषीकाणां इन्द्रियाणां ईशः नियन्ता । सर्वेन्द्रियाकर्षकदिव्यविग्रह इत्यर्थः । पुरुसनोतीति पुरुषः । षणु दाने इत्यस्माद्धातोर्डप्रत्ययः । बहुप्रद इत्यर्थः । यद्वा पुरि हृदयगुहायां शेत इति पुरुषः । पुरि शयं पुरुषमीक्षते इति निर्वचनश्श्रुतेः । यद्वा येन जगत्पूर्णं स पुरुषः । तेनेदं पूर्णं पुरुषेण सर्वै इति श्रुतेः । यद्वा पुरातनत्वात् पुरुषः । पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वं इति श्रुतेः । पुरुषेभ्यः क्षराक्षरेभ्यः उत्तमः पुरुषोत्तमः । यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः इति हि गीयते । यद्वा पुरुषेषु उत्तमः पुरुषोत्तमः । सप्तमीति योगविभागान्नागोत्तमादिवत्समासः । कैश्चिदपि न जित इत्यजितः । आश्रितसंरक्षणे कदा चिदपि भङ्गं न प्राप्नोतीत्यर्थः । खङ्गं नन्दकाख्यं धरतीति खड्गधृत् । विष्णुः व्यापनशीलः । यो दयापदं प्राप्नोति तं तदा तत्रैव स्थितो रक्षतीत्यर्थः । कृष्णः भूनिर्वृतिहेतुः । कृषिभूवाचकः शब्दो णश्च निर्वृतिवाचकः इति निर्वचनात् । बृहत् बलं धारणसामर्थ्यं यस्य सः बृहद्बलः ॥ १५ ॥

विश्वास-प्रस्तुतिः

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १६ ॥

मूलम्

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १६ ॥

व्याख्या

सेनां नयतीति सेनानीः । देवसेनानिर्वाहक इत्यर्थः । ग्रामं नयतीति ग्रामणीः । दिव्यजनपदादिपालक इत्यर्थः । बुद्धिः सत्त्वं क्षमा दम इति बुद्ध्यादिप्रवर्तक इत्यर्थः । न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तं इति वचनात् । महान्प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः इति श्रुतेश्च । प्रभवत्यस्माजगदिति प्रभवः उत्पत्तिस्थानं । सर्वोपादानमित्यर्थः । अप्ययः सर्वजगल्लयस्थानं । कृष्ण एव हि भूतानामुत्पत्तिरपि चाप्ययः इति श्रुतेः । उपेन्द्र इन्द्रानुजत्वेन प्रथममवतीर्णः । मधुसूदनः वेदापहारकदैत्यसंहारी ॥ १६ ॥

विश्वास-प्रस्तुतिः

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥ १७ ॥

मूलम्

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥ १७ ॥

व्याख्या

इन्द्रस्य कर्मेव कर्म यस्य स इन्द्रकर्मा । तं विष्णुरन्वतिष्ठत इति श्रुतेः । महेन्द्रः निरतिशयैश्वर्यसंपन्नः । पद्मं नाभौ यस्य स पद्मनाभः । ममापि जनक इत्यर्थः । वक्ष्यति हि — पद्मे दिव्यर्कसंकाशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितं इति । रणे अन्तं शत्रुनाशं करोतीति रणान्तकृत् । शरण्यं शरणार्हं । तदुचितज्ञानशक्तियादिसंपन्नमित्यर्थः । शरणं रक्षणोपायं उपाये गृहरक्षित्रोः शब्दः शरणमित्ययं इति वचनात् । सर्वस्य शरणं सुहृत् इति श्रुतेः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः । दिव्या महर्षयः सनकादयः । यत्रर्षयः प्रथमजा ये पुराणा इत्युक्ता नित्यसूरयो वा । नित्यनिर्दोषा वेदावा ॥ १७ ॥

विश्वास-प्रस्तुतिः

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ॥
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ १८ ॥

मूलम्

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ॥
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ १८ ॥

व्याख्या

सहस्रशृङ्ग इत्यादिसार्धश्लोक एकान्वयः ॥ सहस्रशृङ्गः सहस्रशाखारूपशृङ्गः । शतजिह्वः अनेकविधचोदनारूपजिह्वः । ऋषभः कर्मणामालोचयिता ऋषः आलोचने इति धातुः । महांश्चासावृषभश्च महर्षभः । एवंभूतो वेदात्मा त्वमित्यर्थः । आदिकर्ता समष्टिकर्ता । अनेन व्यष्टिकर्तुः स्वस्यव्यावृत्तिः । स्वयंप्रभुः अनन्यप्रेर्यः । न तस्येशे कश्चन इति श्रुतेः । सिद्धानां मुक्तानां । साध्यानां यत्र पूर्वे साध्याः सन्ति देवा इत्युक्तानां नित्यानामाश्रयः साम्यभोगप्रदः । पूर्वजः आश्रितांपेक्षायाः पूर्व तद्रक्षणाय जनितः ॥ १८ ॥

विश्वास-प्रस्तुतिः

त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परन्तपः ।
प्रभवं निधनं वा ते न विदुः को भवानिति ॥ १९ ॥

मूलम्

त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परन्तपः ।
प्रभवं निधनं वा ते न विदुः को भवानिति ॥ १९ ॥

व्याख्या

सर्वकर्मसमाराध्यत्वमाह – त्वं यज्ञ इति ॥ त्वं यज्ञः । यज्ञो वै विष्णुः इति श्रुतेः । यज्ञनिर्वाहकपशुहविराज्यस्रुक्स्रुवादिशरीरको यज्ञाराध्येन्द्रादिशरीरकश्चेत्यर्थः । ब्रह्मार्पणं ब्रह्महविर्ब्रह्मानौ ब्रह्मणा हुतं इति हि गीयते । वषट्कार इत्युपलक्षणं । आश्रावयेति । चतुरक्षरम्अस्तुश्रौषडिति चतुरक्षरम् यजेति द्व्यक्षरम् ये यजामह इति पञ्चाक्षरमित्युक्तानां सप्तदशाक्षराणां । तैराराध्य इत्यर्थः । तथोक्तं – चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु इति ॥ ओंकारः प्रणववाच्यः । ओमित्येकाक्षरं ब्रह्म इति श्रुतेः । परन्तपः उत्कृष्टतप इत्यर्थः । उत्कृष्टतपःसमाराध्य इति यावत् । ते प्रभवं निधनं वा न विदुः, वेदा वैदिकाश्च को भवानिति च न विदुः । अपरिच्छिन्नमहिमत्वात् । क इत्था वेद यत्र सः इति श्रुतेः ॥ १९ ॥

विश्वास-प्रस्तुतिः

दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २० ॥

मूलम्

दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २० ॥

व्याख्या

सर्वान्तर्यामित्वमाह – दृश्यस इति ॥ योगिभिरिति शेषः । अनेन संबन्धप्रश्नस्योत्तरमुक्तम् ॥ २० ॥

विश्वास-प्रस्तुतिः

सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ २१ ॥

मूलम्

सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ २१ ॥

व्याख्या

पुरुषसूक्तार्थमाह – सहस्रेति ॥ अत्र शतशब्दः सहस्रवाचकः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति श्रुतेः । श्रीमानिति भूपतित्वस्याप्युपलक्षणं । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ इत्युत्तरनारायणोक्तेः । अथ सर्वाधारत्वमाह – त्वमिति । भूतानीति भूव्यतिरिक्तमहाभूतपरं । अनेनाधाराधेयभावसंबन्ध उक्तः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान् ॥ २२ ॥

मूलम्

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रीँल्लोकान्धारयन्राम देवगन्धर्वदानवान् ॥ २२ ॥

व्याख्या

दैनंदिनप्रलयवृत्तान्तमाह – अन्त इति ॥ पृथिव्या अन्ते विनाशे । महानुरगः शेषो यस्य सः शेषशायी सन् । धारयन् कुक्षौ धारयन् दृश्यसे । मार्कण्डेयादिभिरिति शेषः ॥ २२ ॥

विश्वास-प्रस्तुतिः

अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥ २३ ॥

मूलम्

अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥ २३ ॥

व्याख्या

अथ अङ्गान्यन्या देवताः इत्युक्तसर्वदेवाद्यात्मकत्वं दर्शयति — अहं स इत्यादिना हृदयं वक्षः । ब्रह्मणः परब्रह्मणः । ते देवा गात्रेषु स्थिताः रोमाणीव स्थिताः तद्वदविनाभूताः ॥ २३ ॥

विश्वास-प्रस्तुतिः

निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।
संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना ॥ २४ ॥

मूलम्

निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा ।
संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना ॥ २४ ॥

व्याख्या

दिवा अहः । वेदाः संस्काराः निः-श्वसितभूता इत्यर्थः । तस्य ह वा एतस्य महतो भूतस्य ‘निःश्वसितमेतद्यदृग्वेदः इत्यादि श्रुतेः । किं बहुना संग्रहेणोच्यत इत्याह – न तदस्ति विना त्वयेति । यत्वया विनाभूतं त्वदनन्तर्यामिकं । तन्नास्तीत्यर्थः ॥ २४ ॥

विश्वास-प्रस्तुतिः

जगत्सर्वे शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ २५ ॥

मूलम्

जगत्सर्वे शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ २५ ॥

व्याख्या

एवं निषेधश्रुत्यर्थमुक्त्वा सर्वं खल्विदं ब्रह्म, तत्त्वमसि इत्यादिसामानाधिकरण्यश्रुत्यर्थमाह -जगदिति ॥ सर्वे जगत् ते शरीरं तव नियमेन आधेयं विधेयं शेषभूतं चेत्यर्थः । इदमेव हि शरीरलक्षणं । एवं जगतस्त्वच्छरीरत्वाच्छरीरगतविशेषणा -नित्वद्विशेषणानीत्याह- स्थैर्यमिति । वसुधातलं वसुधातलस्थैर्यं । काठिन्यवान्यो विभर्ति तस्मै भूम्यात्मने नमः इति विष्णुपुराणोक्तेः । अग्निः अग्नितापः । ते कोपः । सोमः सोमगतप्रसादः । ते प्रसादः त्वत्प्रसाद इत्यर्थः ॥ २५ ॥

विश्वास-प्रस्तुतिः

स्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ २६ ॥

मूलम्

स्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ २६ ॥

व्याख्या

त्वया त्रिविक्रमेण । पुराणे पूर्वकाले । लोकाक्रमणफलमाह – महेन्द्र इति । राजा कृतः । त्रैलोक्यस्येति शेषः ॥ २६ ॥

विश्वास-प्रस्तुतिः

सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २७ ॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ २८ ॥
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम न च मोघः स्तवस्तव ॥ २९ ॥

मूलम्

सीता लक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २७ ॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ २८ ॥
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम न च मोघः स्तवस्तव ॥ २९ ॥

व्याख्या

प्रयोजनप्रश्नस्योत्तरमाह – वधार्थमिति ॥ २७ – २९ ॥

विश्वास-प्रस्तुतिः

अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ॥ ३० ॥

मूलम्

अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ॥ ३० ॥

व्याख्या

अमोघा इत्यर्धम् ॥ अमोघाः अप्रतिबद्धफलाः ये त्वयि भक्तिमन्तः ते अविलम्बेन फलमभिमतं लभन्त इति इदं चावतारस्यैकं प्रयोजनम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ॥ ३१ ॥

मूलम्

ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ।
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ॥ ३१ ॥

व्याख्या

इदमेव विवृणोति—य इति ॥ त्वामुद्दिश्येति शेषः । अनेन सर्वस्मादपि तपःप्रभृतेः रामभक्तिरेव परो धर्म इत्युक्तं । काम्यन्त इति कामाः भोगोपकरणानि । इह् लोके परत्र च प्राप्नुवन्ति । सत्यनेन यावच्छरीरपातमत्र भोगान् भुक्त्वा शरीरावसाने परलोके सर्वाकामान्प्राप्नुवन्तीत्यर्थः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३२ ॥

मूलम्

इममार्षं स्तवं नित्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३२ ॥

व्याख्या

ये रामभक्तिं कर्तुमक्षास्तेषामिदं स्तोत्रमेव तादृशफलप्रदमित्याह –इममिति ॥ ऋषिः वेदः तत्संबन्ध्यार्षं । अतएव पुरातनं । पराभवः पुनरावृत्तिः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्युत्तरशततमः सर्गः॥ १२० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशत्युत्तरशततमः सर्गः ॥ १२० ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशत्युत्तरशततमः सर्गः॥ १२० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशत्युत्तरशततमः सर्गः ॥ १२० ॥