विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः
विषयाः
दुःखाद्रावणंप्रतिशोचनपूर्वकं विलपन्तंविभीषणंप्रति रामेणसमाश्वासनपूर्वकं रावणस्यौर्ध्वदैहिककरणाभ्यनुज्ञानम् ॥ १ ॥
विश्वास-प्रस्तुतिः
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।
शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ ॥
मूलम्
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् ।
शोकवेगपरीतात्मा विललाप विभीषणः ॥ १ ॥
व्याख्या
अथ भ्रातृवधदर्शनेन हठात्प्रवृत्तं प्रकृतिसंबन्धकृतं शोकं सोढुमशक्नुवन्विभीषणो विलपति – भ्रातरमित्यादि शयानं शयानमिव स्थितं । शोकवेगपरीतात्मा शोकवेगेन परीतमनस्कः । वेगशब्देन हठकृतः शोक इति द्योत्यते ॥ १ ॥
विश्वास-प्रस्तुतिः
वीर विक्रान्तविख्यात विनीत नयकोविद ।
महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥ २ ॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ ३ ॥
मूलम्
वीर विक्रान्तविख्यात विनीत नयकोविद ।
महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ॥ २ ॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ ।
मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥ ३ ॥
व्याख्या
विनीत विद्यासुशिक्षित । विक्षिप्येत्यस्य श्लोकस्य पूर्वश्लोकेनान्वयः । भुजावित्यनेनान्त्ययुद्धे द्विभुजस्थितिर्गम्यते । मुकुटेन उपलक्षितइति शेषः । अपवृत्तेन पतनवेगादीषच्चलितेन ॥ २-३ ॥
विश्वास-प्रस्तुतिः
तदिदं वीर संप्राप्तं मया पूर्व समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥ ४ ॥
मूलम्
तदिदं वीर संप्राप्तं मया पूर्व समीरितम् ।
काममोहपरीतस्य यत्ते न रुचितं वचः ॥ ४ ॥
व्याख्या
मया पूर्वं समीरितं यद्वचः काममोह- परीतस्य ते न रुचितं नेष्टमासीत् । तदिदं वचः संप्राप्तं त्वयानुभूतमित्यर्थः ॥ ४ ॥
विश्वास-प्रस्तुतिः
यन्न दर्पात्प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णोतिरथो नातिकायो नरान्तकः ॥
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः ॥ ५ ॥
मूलम्
यन्न दर्पात्प्रहस्तो वा नेन्द्रजिन्नापरे जनाः ।
न कुम्भकर्णोतिरथो नातिकायो नरान्तकः ॥
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः ॥ ५ ॥
व्याख्या
यदित्यादिसार्धश्लोक एकान्वयः ॥ यत्पापकर्म प्रहस्तो दर्पात् नामन्यतेति विपरिणामेनानुषज्यते । एवं सर्वत्र योजनीयं । अतिरथ इत्यतिकायविशेषणं । अमन्येथाः अमन्यथाः । एत्वमार्षं । तृणीकृतवानसीत्यर्थः । तस्य सीताहरणरूपस्य उदर्कः फलमागतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
गतः सत्वस्य संक्षेपः प्रस्तावानां गतिर्गता ॥ ६ ॥
मूलम्
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।
गतः सत्वस्य संक्षेपः प्रस्तावानां गतिर्गता ॥ ६ ॥
व्याख्या
सुनीतानां नयानां । सेतुः मर्यादा । धर्मस्य विग्रहः विरोधः । यद्वा अधर्मस्येति छेदः । विग्रहः देहः । यद्वा धर्मस्य विग्रहः देहः । एषोग्निहोत्री च महातपाश्चेत्यादिना रावणस्य धार्मिकत्वकथनात् । सत्त्वस्य बलस्य संक्षेपः संग्रह प्रस्तावानां प्रकृष्टस्तुतीनां । गतिः विषयः ॥ ६ ॥
विश्वास-प्रस्तुतिः
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ॥
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतांवरे ॥ ७ ॥
मूलम्
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः ॥
अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतांवरे ॥ ७ ॥
व्याख्या
आदित्य इत्यादिसार्धश्लोक एकान्वयः ॥ अस्मिन्निपतिते आदित्यः पतित इत्याद्यभेदातिशयोक्तिः । चित्रभानुः वह्निः । सूर्यवह्नी चित्रभानू इत्यमरः । व्यवसायो निरुद्यमः । रावणसदृशाश्रयाभावाद्व्यवसायः उत्साहशक्तिः । निर्व्यापारोभूदित्यर्थः ॥ ७ ॥
विश्वास-प्रस्तुतिः
किं शेषमिव लोकस्य हतवीरस्य सांप्रतम् ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ८ ॥
मूलम्
किं शेषमिव लोकस्य हतवीरस्य सांप्रतम् ।
रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥ ८ ॥
व्याख्या
राक्षसशार्दूले रावणे पांसुषु प्रसुप्त इव स्थिते । मृत इति यावत् । सांप्रतं हतवीरस्य लोकस्य किमिव शेषं । सर्वं शून्यमभूदिंत्यर्थः ॥ ८ ॥
विश्वास-प्रस्तुतिः
धृतिप्रवालः प्रसहाग्य्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।
रणे महान्राक्षसराजवृक्षः संमर्दितो राघवमारुतेन ॥ ९ ॥
मूलम्
धृतिप्रवालः प्रसहाग्य्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः ।
रणे महान्राक्षसराजवृक्षः संमर्दितो राघवमारुतेन ॥ ९ ॥
व्याख्या
धृतिरेव प्रवालो यस्य स तथा । धैर्य हि वृक्षस्य पल्लववत् प्रथमफलं । प्रसहत इति प्रसहः । पचाद्यच् । भावप्रधानो निर्देशः । स एव अग्र्यपुष्पं श्रेष्ठपुष्पं यस्य स तथा । प्रसहनं हि पुष्पवत्कार्यफलस्य अव्यवहितहेतुः । तप एव बलं स्थैर्यांशो यस्य स तथा । शौर्यमेव निबद्धमूलं निश्चलमूलं यस्य स तथा । शौर्यमूलत्वात्तपःप्रभृतीनां सर्वेषाम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥ १० ॥
मूलम्
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती ॥ १० ॥
व्याख्या
तेजः पराक्रम एव विषाणो यस्य स तथा । तेजो हि विषाणवत् परमर्मभेदि । कुलवंशवंशः कुलं पितृपितामहादयः तेषां वंशः सर्गः स एव वंशः पृष्ठावयवविशेषो यस्य स तथा । वंशो वेणौ कुले वर्गे पृष्ठस्यावयवेपि च इत्युभयत्रापि विश्वः । कुलेन हि वंशेनेव स्वाश्रितधारणं । कोप एवापरगात्रं शिरोव्यतिरिक्तशरीरं यस्य स तथा । प्रसाद एव हस्तो यस्य स तथा । कोपस्य बहुत्वादपरगात्रत्वेन रूपणं । इक्ष्वाकुः रामः स एव सिंहः तेन अवगृहीतदेहः रावणगन्धहस्ती रावण एव मत्तगजः क्षितौ सुप्तः । मृत इत्यर्थः ॥ १० ॥
विश्वास-प्रस्तुतिः
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।
प्रतापवान्संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥ ११ ॥
मूलम्
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः ।
प्रतापवान्संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण ॥ ११ ॥
व्याख्या
पराक्रमोत्साहावेव विजृम्भितार्चिः विस्तृतज्वालः । निश्वास एव धूमो यस्य स तथा । स्वबलप्रतापः स्वबलोष्णः । प्रतापवान् तेजस्वी । राक्षसाग्निः रामपयोधरेण निर्वापितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ १२ ॥
मूलम्
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ १२ ॥
व्याख्या
सिंहर्क्षा राक्षसाः ते एव लाङ्गूलककुद्विषाणानि यस्य स तथा । सिंहर्क्षा राक्षसाः प्रोक्ता यक्षा उष्णीषिणो मताः इति निघण्टुः । यद्वा सिंहर्क्षं मूलानक्षत्रं तच्च राक्षसनक्षत्रं । यथाह ज्योतिषे काश्यपः अग्निर्मघा विशाखा च आश्लेषा शततारका । धनिष्ठा चित्रया युक्ता ज्येष्ठा मूला च राक्षसाः इति ॥ तत्संबन्धाद्राक्षसा अपि तच्छब्देनोच्यन्ते । राक्षससमृद्धेर्गर्वहेतुत्वेन लाङ्गूलादित्वेन रूपणं । परानभिजयतीति पराभिजित् । गन्धने परोत्सादने गन्धहस्ती मुख्यः । गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने इति विश्वः । चापलं विषयलौल्यं तदेव कर्णचक्षुषी यस्य स तथा । रक्षोवृषः रावणवृषभः क्षितीश्वरव्याघ्रेण रामशार्दूलेन हतः अवसन्नः मृतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ १३ ॥
मूलम्
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् ।
रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥ १३ ॥
व्याख्या
परिमृष्टार्थनिश्चयं कृतार्थनिश्चयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥ १४ ॥
मूलम्
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः ।
अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥ १४ ॥
व्याख्या
अयं निश्चेष्टः निर्विक्रमः न विनष्टः अपि त्वयं समरे चण्डविक्रमः अत्युन्नतमहोत्साहः । अशङ्कितः पतितः विनष्टः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १५ ॥
मूलम्
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः ।
वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥ १५ ॥
व्याख्या
यदि समरे विक्रम्य नष्टः ततः किमित्यत्राह – नैवमित्यादि । ये वृद्धिं परलोकवृद्धिं आशंसमानाः आकाङ्क्षमाणाः सन्तः रणाजिरे निपतन्ति । क्षत्रधर्ममवस्थिताः शूरधर्मव्यवस्थिताः । एवं विनष्टाः ते न शोच्यन्ते ॥ १५ ॥
विश्वास-प्रस्तुतिः
येन सेन्द्रास्त्रयो लोकास्त्रासिता युषि धीमता ।
तस्मिन्कालसमायुक्ते न कालः परिशोचितुम् ॥ १६ ॥
मूलम्
येन सेन्द्रास्त्रयो लोकास्त्रासिता युषि धीमता ।
तस्मिन्कालसमायुक्ते न कालः परिशोचितुम् ॥ १६ ॥
व्याख्या
न केवलं समरमरणादेव न शोच्यत्वं किंतु यशःप्रत्यासक्त्यापीत्याह येनेति ॥ येन वित्रासिताः तस्मिन् रावणे कालसमायुक्ते शोचितुं न कालः नावसरः । तद्विषये शोको न युक्तः । वीरस्वर्गगमनादिति भावः ॥ १६ ॥
विश्वास-प्रस्तुतिः
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान्वा हन्ति संयुगे ॥ १७ ॥
मूलम्
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन ।
परैर्वा हन्यते वीरः परान्वा हन्ति संयुगे ॥ १७ ॥
व्याख्या
तथापि मरणे सति कथं न शोचितव्यमित्याशङ्क्य जयवत्पराजयोपि न शोकस्थानमित्याह – नैकान्तेति ॥ एकान्तविजयः न भूतपूर्वः इतः पूर्वं न भूतः । अनैकान्त्यमुपपादयति – परैर्वेति ॥ १७ ॥
विश्वास-प्रस्तुतिः
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसंमता ।
क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः ॥ १८ ॥
मूलम्
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसंमता ।
क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः ॥ १८ ॥
व्याख्या
क्षत्रधर्मपर्यालोचनेनापि न शोच्य इत्याह – इयं हीति ॥ क्षत्रियः शूरः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ १९ ॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ॥ २० ॥
मूलम्
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः ।
यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥ १९ ॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः ।
उवाच शोकसंतप्तो भ्रातुर्हितमनन्तरम् ॥ २० ॥
व्याख्या
दृष्ट्वा ज्ञात्वा । तत्त्वमास्थाय परमार्थबुद्धिमवलम्ब्य । जनिमतामवश्यं मृत्युं ज्ञात्वेत्यर्थः । विज्वरः निःशोकः । यत् कार्यं कर्म । कल्प्यं अनुष्ठेयं । तदनुचिन्तय । कल्यमिति पाठे यत् कार्य कल्यं । योग्यमित्यर्थः । कल्यो योग्यश्च ते समाः इति निघण्टुः ॥ १९-२० ॥
विश्वास-प्रस्तुतिः
योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥ २१ ॥
मूलम्
योऽयं विमर्देषु न भग्नपूर्वः सुरैः समेतैः सह वासवेन ।
भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः ॥ २१ ॥
व्याख्या
विमर्देषु समरेषु । अनेन महावीरतया सम्यक् संस्कारमर्हतीत्युक्तम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यौपितानि ॥ २२ ॥
मूलम्
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः ।
धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु च यौपितानि ॥ २२ ॥
व्याख्या
धर्मशीलत्वाच्च तदर्हतीत्याह–अनेनेति ॥ दत्तानि दानानि कृतानि । सुपूजितानि गुरुदैवतानीति शेषः । निभृताः नितरां भृताः । यापितानि सफलीकृतानीत्यर्थः ॥ २२ ॥
विश्वास-प्रस्तुतिः
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः
एतस्य यत्प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात् ॥ २३ ॥
मूलम्
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः
एतस्य यत्प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात् ॥ २३ ॥
व्याख्या
आहिताग्न्यादित्वाच्च तदर्हतीत्याह-एषोहिताग्निरिति ॥ हिताग्निः आहिताग्निः । संधिरार्षः । वेदान्तं गच्छति जानातीति वेदान्तगः । कर्मसु चाग्र्यवीर्यः कर्मशूर इत्यर्थः । प्रेतगतस्य प्रेतत्वं गतस्य । इच्छामि । पुत्राणां विनष्टत्वेन भ्रातुरेवाधिकारित्वादिति भावः ॥ २३ ॥
विश्वास-प्रस्तुतिः
स तस्य वाक्यैः करुणैर्महात्मा संबोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥ २४ ॥
मूलम्
स तस्य वाक्यैः करुणैर्महात्मा संबोधितः साधु विभीषणेन ।
आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः ॥ २४ ॥
व्याख्या
करुणैरित्यनेन दुःखातिशयादिदानीमेवमुक्तमिति द्योत्यते । वक्ष्यति हि नाहमस्य संस्कारं करिष्यामीति । स्वर्गीयं स्वर्गाय हितं । आधानं अन्त्येष्टिसंज्ञिकं कर्म ॥ २४ ॥
विश्वास-प्रस्तुतिः
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २५ ॥
मूलम्
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २५ ॥
व्याख्या
वैरातिरेकात् संस्कारे मम द्वेष इति न शङ्कनीयमित्याह- मरणेति ॥ मरणानन्तरमपि वैरकरणं निष्प्रयोजनमित्याह – निर्वृत्तमिति । प्रयोजनं सीतालाभरूपं । अस्य संस्कारः यायजूकोचितसंस्कारः । क्रियतां । ममाप्येष यथा तव । तव यथा भ्राता तथा ममापि भ्राता । मद्भ्रातृभूतस्य तव भ्रातृत्वात् । त्वमस्य दोषं दृष्ट्वा न करोषि चेदहमेव करिष्यामि । भ्रातृषु येनकेनापि कर्तव्यमिति भावः । अत्र श्लोके न इति गायत्र्यक्षरं । अत्राचार्या व्याचख्युः । मरणान्तानि वैराणि ऋषिजनस्थानभ्रंशमैथिलीहरणमत्प्राणभूतजटायुविध्वंसनप्रभृतिमद्वेषा -चरणमितः परं कर्तुं न शक्नोति हीति भावः । निर्वृत्तं नः प्रयोजनं । यदि वा रावणः स्वयमिति वदता मयास्य विषये किंचिच्छुभं कर्तव्यमिति मनसि कृतं । तदनेन ‘द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् इति वदता प्रतिहतं । तत्करणस्येदानीमवसरः संजात इति भावः । क्रियतामस्य संस्कारः । मत्कृतहितप्रतिषेधानर्हावस्था इदानीमस्य संजाता अतोयं न त्याज्यः । अतः परं यत्कर्तव्यं तत्कार्यमेव । ममाप्येष यथा तव । अयं मच्चित्तानुकूलो जातः अतो मन्मित्रभूतो भवानपि तमनुवर्तितुमर्हति । अथवा एषः तव यथा तथा ममापि । अस्य संस्कारस्तव यथा प्राप्तः तथा ममापीत्यर्थः । भवानस्य संस्कारं न करोति चेदहमेव करोमि । बन्धुषु येन केनापि कर्तव्यं खल्विदं तद्दूरे तिष्ठ अहमेव करिष्यामीत्यर्थ इति ॥ २५ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशोत्तरशततमः सर्गः॥ ११२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥