१०२ हनुमता सञ्जीविनीपर्वतानयनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः

मूलम्

विषयाः

रामेणसुषेणंप्रति रावणशक्तिघातपतितलक्ष्मणप्रदर्शनपूर्वकं तस्यनिधनशङ्कया विषादेनबहुधाविलापः ॥ १ ॥ सुषेणेनरामंप्रति हेतूपन्यासेनलक्ष्मणप्राणधारणनिर्धारणो -क्त्त्यासमाश्वासनपूर्वकं हनुमन्तंप्रति विशल्यकरण्याद्योषधिसमानयनचोदना ॥ २ ॥ ओषधिगिरिंगतेनहनुमता ओषधीनामन्तर्धानेकोपादुत्पाटनेनतच्छिखरस्यैव समानयनम् ॥ ३ ॥ सुषेणेननासान्यस्तमहौषधिक्षोद समाघ्राणनमात्राद्विशल्येनलक्ष्मणेन स्वापादिव समुत्थानम् ॥ ४ ॥ सहर्षबाष्पंरामपरिष्वक्तेनलक्ष्मणेन तंप्रति सत्वरं रावणवधप्रार्थना ॥ ५ ॥

विश्वास-प्रस्तुतिः

शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा ।
लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् ॥ १ ॥
स दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः ।
विसृजन्नेव बाणौघान्सुषेणं वाक्यमब्रवीत् ॥ २ ॥

व्याख्या

अथ लक्ष्मणसंजीवनं द्विशततमे – शक्त्या विनिहतमित्यादिश्लोकद्वयमेकं वाक्यम् ॥ विसृजन्नेवेत्यादिवर्तमाननिर्देशन रावणपलायनानन्तरं लक्ष्मणयोगक्षेमानुसंधाने अविलम्बः सूचितः ॥ १-२ ॥

विश्वास-प्रस्तुतिः

एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥

मूलम्

एष रावणवेगेन लक्ष्मणः पतितः क्षितौ ।
सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥ ३ ॥

व्याख्या

उदीरयन् जनयन् ॥ ३ ॥

विश्वास-प्रस्तुतिः

शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम ।
पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥ ४ ॥
अयं स समरश्लाघी भ्राता मे शुभलक्षणः ।
यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ ५ ॥

प्राणैः प्राणेभ्यः ॥ ४-५ ॥

विश्वास-प्रस्तुतिः

लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः ।
सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ।
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव ॥ ६ ॥
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते ।
भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ ७ ॥

लज्जतीवेत्यादिसार्धश्लोकद्वयमेकान्वयम् ॥ लज्जतीव । आर्षं परस्मैपदं । स्वप्नयाने स्वप्नगमने । स्वप्ने हि गच्छतां पुरुषाणां पादाः पश्चादाकृष्टा भवन्ति । भ्रातरं निहतं दृष्ट्वेति पूर्वशेषः ॥ ६–७ ॥

विश्वास-प्रस्तुतिः

विनिष्टनन्तं दुःखार्तं मर्मण्यभिहतं भृशम् ।
राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् ।
दुःखेन महताविष्टो ध्यानशोकपरायणः ॥ ८ ॥

विनिष्टनन्तमित्यादिसार्धश्लोकमेकं वाक्यम् ॥ विनिष्टनन्तं निश्वसन्तं । ध्यानशोकपरायणः अभूदिति शेषः ॥ ८ ॥

विश्वास-प्रस्तुतिः

परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ ९ ॥

मूलम्

परं विषादमापन्नो विललापाकुलेन्द्रियः ॥ ९ ॥

व्याख्या

परं विषादमित्यर्धम् ॥ राघव इत्यनुषञ्जनीयम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ १० ॥

मूलम्

न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ।
भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु ॥ १० ॥

व्याख्या

दृष्ट्वा स्थितस्येति शेषः ॥ १० ॥

विश्वास-प्रस्तुतिः

किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते ।
यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥ ११ ॥
देशे देशे कलत्राणि देशेदेशे च बान्धवाः ।
तं तु देशं न पश्यामि यत्र भ्राता सदोहरः ॥ १२ ॥
[ किंनु राज्येन दुर्धर्ष लक्ष्मणेन विना मम ।
कथं वक्ष्याम्यहं त्वंबां सुमित्रां पुत्रवत्सलाम् ।
उपालंभं न शक्ष्यामि सोढुं दत्तं सुमित्रया ॥ १३ ॥
किंनु वक्ष्यामि कौसल्यां मातरं किंनु कैकयीम् ।
भरतं किंनु वक्ष्यामि शत्रुघ्नं च महाबलम् ।
सह तेन वनं यातो विना तेनागतः कथम् ॥ १४ ॥
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम् ॥ १५ ॥
किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ।
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः ॥ १६ ॥
हा भ्रातर्मनुज श्रेष्ठ शूराणांप्रवर प्रभो ।
एकाकी किंनु मां त्यक्त्वा परलोकाय गच्छसि ॥ १७ ॥
विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ।
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा ॥ १८ ॥
शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ।
विषण्णस्य महाबाहो समाश्वासयिता मम ॥ १९ ॥ ]
इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् ।
विवेष्टमानं करुणमुच्छ्रसन्तं पुनः पुनः ॥
राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् ॥ २० ॥

यत्र यतः ॥ ११–२० ॥

विश्वास-प्रस्तुतिः

न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः ।
न चास्य विकृतं वक्त्रं नापि श्यावं न निष्प्रभम् ॥ २१ ॥
सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते ॥
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥ २२ ॥
एवं न विद्यते रूपं गतासूनां विशांपते ।
दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीदृशम् ॥ २३ ॥
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ।
मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः ॥ २४ ॥

श्यावं कपिशं । विवर्णमिति यावत् । श्यावः स्यात्कपिशः इत्यमरः ॥ २१ – २४ ॥

विश्वास-प्रस्तुतिः

आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ।
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः ॥ २५ ॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ।
हनुमन्तमुवाचेदं हनूमन्तमभित्वरन् ॥ २६ ॥

मुहुर्मुहुः कम्पमानं हृदयमेनं सोच्छ्रासं सप्राणं । आख्यास्यते आचष्टे । लङर्थे लट् ॥ २५-२६ ॥

विश्वास-प्रस्तुतिः

सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।
पूर्वं ते कथितो योऽसौ वीर जाम्बवता शुभः ॥ २७ ॥
दक्षिणे शिखरे तस्य जातामोषधिमानय ।
विशल्यकरणी नाम विशल्यकरणीं शुभाम् ॥ २८ ॥
सवर्णकरणीं चापि तथा संजीवनीमपि ।
सन्धानकरणीं चापि गत्वा शीघ्रमिहानय ।
संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ॥ २९ ॥
इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् ।
चिन्तामभ्यगमच्छीमानजानंस्तां महौषधिम् ॥ ३० ॥

सौम्य शीघ्रमित्यादि सार्धश्लोकत्रयमेकान्वयम् ॥ ओषधिपर्वतं ओषधिपर्वताख्यं । द्वितीयो विशल्यकरणीशब्दो गुणवचनः । विशल्याः क्रियन्तेनयेति विशल्यकरणी ताम् ॥ २७ – ३० ॥

विश्वास-प्रस्तुतिः

तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ।
इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ ३१ ॥
अस्मिन्हि शिखरे जातामोषधीं तां सुखावहाम् ।
प्रतर्केणावगच्छामि सुषेणोप्येवमब्रवीत् ॥ ३२ ॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम् ।
कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् ॥ ३३ ॥

तस्य बुद्धिरित्यादिश्लोकत्रयमेकान्वयं । प्रतर्केण अन्तःकरणप्रसादादिना लिङ्गेन । सुषेणोप्येवमब्रवीदिति । दक्षिणे शिखरे तस्य जातामोषधिमानय इति सुषेणवचनं । अगृह्य यदि गच्छामि । पुनः सुषेणं प्रष्टुमिति भावः । दोषः लक्ष्मणहानिरूपः । वैक्लब्यं निष्पौरुषत्वं । अन्ते इतिकरणेन पूर्वमन्वयः कार्यः ॥ ३१-३३ ॥

विश्वास-प्रस्तुतिः

इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ।
आसाद्य पर्वतश्रेष्ठं त्रिः प्रक्रम्य गिरेः शिरः ॥ ३४ ॥
फुल्लनानातरुगणं समुत्पाट्य महाबलः ।
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥ ३५ ॥
स नीलमिव जीमूतं तोयपूर्णं नभःस्थलम् ।
आ पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः ॥ ३६ ॥

इति संचिन्त्येत्यादिश्लोकद्वयमेकान्वयम् ॥ समतोलयत् उदक्षिपत् ॥ ३४-३६ ॥

विश्वास-प्रस्तुतिः

समागम्य महावेगः संन्यस्य शिखरं गिरेः ।
विश्रम्य किंचिद्धनुमान्सुषेणमिदमब्रवीत् ॥ ३७ ॥
ओषधीर्नावगछामि ता अहं हरिपुङ्गव ।
तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ॥ ३८ ॥
एवं कथयमानं तं प्रशस्य पवनात्मजम् ।
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ॥ ३९ ॥
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः ।
दृष्ट्वा हनुमतःकर्म सुरैरपि सुदुष्करम् ॥ ४० ॥
ततः संक्षोदयित्वा तामोषधिं वानरोत्तमः ।
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः ॥ ४१ ॥
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा ।
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ॥ ४२ ॥
समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ।
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ॥ ४३ ॥
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा ।
सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ॥ ४४ ॥

संन्यस्य सेनामध्ये निक्षिप्य ॥ ३७-४४ ॥

विश्वास-प्रस्तुतिः

अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा ।
दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् ॥ ४५ ॥
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण ।
को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते ॥ ४६ ॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः ।
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ ४७ ॥

अब्रवीदित्यादिश्लोकद्वयमेकान्वयम् ॥ ४५-४७ ॥

विश्वास-प्रस्तुतिः

तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ।
लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि ॥ ४८ ॥
न हि प्रतिज्ञां कुर्वन्ति वितथां साधवोऽनघ ।
लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ॥ ४९ ॥

तां प्रतिज्ञां रावणं हत्वा विभीषणमभिषेक्ष्यामीत्येवंरूपाम् ॥ ४८-४९ ॥

विश्वास-प्रस्तुतिः

नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ ।
वधेन रावणस्याद्य प्रतिज्ञामनुपालय ॥ ५० ॥

नैराश्यं सीतायां विजये चोपेक्षाम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

न जीवन्यास्यते शत्रुस्तव बाणपथं गतः ।
नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः ॥ ५१ ॥

यास्यते यास्यति ॥ ५१ ॥

विश्वास-प्रस्तुतिः

अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ।
यावदस्तं न यात्येष कृतकर्मा दिवाकरः ॥ ५२ ॥

कृतकर्मा कृतसंचारः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

यदि वधमिच्छसि रावणस्य संख्ये यदि च कृता त्वमिहेच्छसि प्रतिज्ञाम् ।
यदि तव राजवरात्मजाभिलाषः कुरु च वचो मम शीघ्रमद्य वीर ॥ ५३ ॥

कृतां निर्व्यूढाम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने व्युत्तरशततमः सर्गः ॥ १०२ ॥