विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः
मूलम्

विषयाः
सुग्रीवेण महोदरवधः ॥ १ ॥
विश्वास-प्रस्तुतिः
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।
सरसीव महाघर्मे सोपक्षीणे बभूवतुः ॥ १ ॥
स्वबलस्य विघातेन विरूपाक्षवधेन च ।
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।
उवाच च समीपस्थं महोदरमरिंदमम् ॥ ३ ॥

व्याख्या
अथ महोदरवधः – हन्यमान इत्यादि । सरसी इवेति वक्तव्ये सरसीवेति संधिरार्षः ॥ १-३ ॥
विश्वास-प्रस्तुतिः
अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ।
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।
भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ॥ ४ ॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः ।
प्रविवेशारिसेनां तां पतङ्ग इव पावकम् ॥ ५ ॥

अस्मिन्काल इत्यादिसार्धश्लोक एकान्वयः ॥ भर्तृपिण्डस्येति संबन्धमात्रे षष्ठी । भर्तृपिण्डस्य निर्देष्टुं स्वामिदत्तवेतनमपाकर्तुमित्यर्थः ॥ ४-५ ॥
विश्वास-प्रस्तुतिः
ततः स कदनं चक्रे वानराणां महाबलः ।
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ६ ॥
वानराश्च महासत्वाः प्रगृह्य विपुलाः शिलाः ।
प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ७ ॥

भर्तृवाक्येन चोदितः सन् स्वेन वीर्येण कदनं चक्र इत्यन्वयः ॥ ६-७ ॥
विश्वास-प्रस्तुतिः
महोदरस्तु संक्रुद्धः शरैः काञ्चनभूषणैः ।
चिच्छेद पाणिपादोरून्वानराणां महाहवे ॥ ८ ॥
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् ।
दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥ ९ ॥

पाणिपादोरूनिति । एकवद्भावाभाव आर्षः ॥ ८-९ ॥
विश्वास-प्रस्तुतिः
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ १० ॥
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ११ ॥
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।
असंभ्रान्तस्ततो बाणैनिर्विभेद दुरासदाम् ॥ १२ ॥

अनन्तरं समीपस्थम् ॥ १०-१२ ॥
विश्वास-प्रस्तुतिः
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।
निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ १३ ॥
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः ।
सालमुत्पाट्य चिक्षेप राक्षसे रणमूर्धनि ॥ १४ ॥

गृधचक्रं गृध्रसमूहः ॥ १३-१४ ॥
विश्वास-प्रस्तुतिः
शरैश्च विददारैनं शूरः परपुरंजयः ॥ १५ ॥
मूलम्
शरैश्च विददारैनं शूरः परपुरंजयः ॥ १५ ॥
व्याख्या
शरैरित्यर्धम् ॥ शूरः महोदरः एनं च सालं च शरैः विददारेत्यन्वयः ॥ १५ ॥
विश्वास-प्रस्तुतिः
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १६ ॥
तस्माद्धतहयाद्वीरः सोवप्लुत्य महारथात् ।
गदां जग्राह संक्रुद्धो राक्षसोथ महोदरः ॥ १७ ॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १८ ॥

सः सुग्रीवः । आविध्येति । आदायेति शेषः । तस्य महोदरस्य दर्शयन् । पाणिलाघवमिति शेषः ॥ १६-१८ ॥
विश्वास-प्रस्तुतिः
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ १९ ॥
मूलम्
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः ।
ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥ १९ ॥
व्याख्या
भास्कराभासां भास्करवद्भासमानाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ।
आजधान गदां तस्य परिषेण हरीश्वरः ॥ २० ॥
मूलम्
गदां तां सुमहाघोरामापतन्तीं महाबलः ।
सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ।
आजधान गदां तस्य परिषेण हरीश्वरः ॥ २० ॥
व्याख्या
गदां दृष्ट्वेति शेषः । समुद्यम्य । परिघमिति सिद्धम् ॥ २० ॥
विश्वास-प्रस्तुतिः
पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ २१ ॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।
आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ २२ ॥
स तमुद्यम्य चिक्षेप सोप्यन्यां व्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ २३ ॥
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।
तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ २४ ॥
जघ्नुतुस्तौ तदाऽन्योन्यं नेदतुश्च पुनः पुनः ।
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २५ ॥
उत्पेततुस्ततस्तूर्णं जघ्नुतुश्च परस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ।
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ ॥ २६ ॥
आजहार ततः खड्गमदूरपरिवर्तिनम् ।
राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २७ ॥
तथैव च महाखङ्गं चर्मणा पतितं सह ।
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २८ ॥
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।
उद्यतासी रण हृष्टौ युधि शस्त्रविशारदौ ॥ २९ ॥

पपात स गदोद्भिन्न इत्यर्धम् ॥ उभावपि परस्पराभिहतौ विशीर्णौ पेततुरिति भावः ॥ २१-२९ ॥
विश्वास-प्रस्तुतिः
दक्षिणं मण्डलं चोभौ सुतूर्णं संपरीयतुः ।
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ३० ॥
मूलम्
दक्षिणं मण्डलं चोभौ सुतूर्णं संपरीयतुः ।
अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ ३० ॥
व्याख्या
दक्षिणं प्रदक्षिणं चकारात् सव्यं च । सुतूर्णं संपरीयतुः अकुर्वताम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।
महाचर्मणि तं खङ्गं पातयामास दुर्मतिः ॥ ३१ ॥
मूलम्
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।
महाचर्मणि तं खङ्गं पातयामास दुर्मतिः ॥ ३१ ॥
व्याख्या
वीर्येण श्लाघत इति वीर्यश्लाघी ॥ ३१ ॥
विश्वास-प्रस्तुतिः
लग्नमुत्कर्षतः खङ्गं खड्गेन कपिकुञ्जरः ।
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ ३२ ॥
मूलम्
लग्नमुत्कर्षतः खङ्गं खड्गेन कपिकुञ्जरः ।
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ ३२ ॥
व्याख्या
लग्नं चर्मलग्नं । उत्कर्षतः महोदरस्येति शेषः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
निकृत्तशिरसस्तस्य पतितस्य महीतले ।
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ ३३ ॥
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३४ ॥

तत् शिरः । न तिष्ठते नातिष्ठत ॥ ३३-३४ ॥
विश्वास-प्रस्तुतिः
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३५ ॥
मूलम्
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ।
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३५ ॥
व्याख्या
विषण्णवदनाः अभवन्निति शेषः । अतः सर्वशब्दापौनरुत्त्यम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
महोदरं तं विनिपात्य भूमौ महागिरेः कीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥ ३६ ॥
अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसङ्घैः ।
अवनितलगतैश्च भूतसङ्घैर्हरुषसमांकुलितैः स्तुतो महात्मा ॥ ३७ ॥

लक्ष्म्या जयलक्ष्म्या ॥ ३६-३७ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥