०८६ इन्द्रजिता पुनर्युद्धभूमिप्रवेशः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः

विषयाः

निकुंभिलासमीपगमनावसरेलक्ष्मणंप्रतिविभीषणेन समीपस्थराक्षससैन्यप्रदर्शनपूर्वकं वानरैस्सहतद्विक्षोभे यागापरिसमाप्तावेवेन्द्रजिन्निर्गमनोक्तिः ॥ १ ॥ लक्ष्मणेन वानरैस्सह राक्षससेनाविक्षोभारंभे कुपितेनेन्द्रजिता यागापरिसमाप्तावेवनिकुंभिलात्त्रोनिर्गमनेन वानरैस्सहयुद्धारंभः ॥ २ ॥ हनुमता विशेषतोराक्षससेनाविध्वंसने क्रोधादिन्द्रजितातद -भिद्रवणम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥

मूलम्

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥

व्याख्या

अथेन्द्रजिद्युद्धारम्भः – अथ तस्यामित्यादि ॥ तस्यामवस्थायां निकुम्भिलासमीपगमना -वसरे । अर्थसाधकं । स्वानामिति शेषः ॥ १ ॥

विश्वास-प्रस्तुतिः

यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।
एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥

मूलम्

यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।
एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥

व्याख्या

आयोध्यतां हन्यतां । शीघ्रमिति । विलम्बे यागः समाप्येतेति भावः ॥ २ ॥

विश्वास-प्रस्तुतिः

अस्थानीकस्य महतो भेदने यत लक्ष्मण ।
राक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।
अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ४ ॥
जहि वीर दुरात्मानं मायापरमधार्मिकम् ।
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥

यत यतस्व । अत्र राक्षसानीके ॥ ३–५ ॥

विश्वास-प्रस्तुतिः

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥

मूलम्

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥

व्याख्या

शुभलक्षणः सुहृद्वचनसारग्राहित्वलक्षणयुक्तः ॥ ६–७ ॥

विश्वास-प्रस्तुतिः

राक्षसाश्च शितैर्वाणैरसिभिः शक्तितोमरैः ।
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥

मूलम्

राक्षसाश्च शितैर्वाणैरसिभिः शक्तितोमरैः ।
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥

व्याख्या

कपिसैन्यजिघांसवः कपिसैन्यं हन्तुमिच्छवः ॥ ८ ॥

विश्वास-प्रस्तुतिः

स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।
शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।
उद्यतैर्गिरिशृङ्गैश्व घोरैराकाशमावृतम् ॥ १० ॥

मूलम्

स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।
शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।
उद्यतैर्गिरिशृङ्गैश्व घोरैराकाशमावृतम् ॥ १० ॥

व्याख्या

संग्रहारः युद्धम् ॥ ९-१० ॥

विश्वास-प्रस्तुतिः

ते राक्षसा वानरेषु विकृताननबाहवः ।
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥
तथैव सकलैर्वृक्षैगिरिशृङ्गैश्च वानराः ।
अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२ ॥
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।
रक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥

शस्त्रनिवेशनविकृताननबाहुत्वरूपक्रियाभेदात् तच्छब्दद्वयनिर्वाहः ॥ ११–१३ ॥

विश्वास-प्रस्तुतिः

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥

मूलम्

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥

व्याख्या

तत्कर्मणि तस्मिन्होमकर्मणि ॥ १४ ॥

विश्वास-प्रस्तुतिः

वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।
आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥

मूलम्

वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।
आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥

व्याख्या

वृक्षान्धकारात् नीरन्ध्रवृक्षषण्डादित्यर्थः । सज्जं आयुधादिभिः । पूर्वयुक्तं पूर्वमेव युक्ताश्वं । सराक्षसः राक्षससहितः ॥ १५ ॥

विश्वास-प्रस्तुतिः

स भीमकार्मुकधरः कालमेघसमप्रभः ।
रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥

मूलम्

स भीमकार्मुकधरः कालमेघसमप्रभः ।
रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥

व्याख्या

अन्तकः अन्तकरः ॥ १६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वैव तु रथस्यं तं पर्यवर्तत तद्बलम् ।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥

मूलम्

दृष्ट्वैव तु रथस्यं तं पर्यवर्तत तद्बलम् ।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥

व्याख्या

पर्यवर्तत परितोतिष्ठत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।
धरणीधरसंकाशो महावृक्षमरिन्दमः ॥ १८ ॥
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।
चकार बहुभिर्वृक्षैर्निस्संज्ञं युधि वानरः ॥ १९ ॥
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।
राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥

तस्मिन्नित्यादि ॥ आदावेकं वृक्षमुद्यम्य निर्दहन्सन् पश्चात् बहुभिर्वृक्षैस्तद्रक्षोबलं निःसंज्ञं चकारेत्यन्वयः ॥ १८- २० ॥

विश्वास-प्रस्तुतिः

शितशूलधराः शूलैरसिभिश्चासिपाणयः ।
शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ २१ ॥
परिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः ।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥
घोरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः ।
मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ॥ २३ ॥

अवाकिरन्नित्युक्तं प्रपञ्चयति – शिवेत्यादि । शितशूलधरा इत्यादिविशेषणेन येषां येष्वस्त्रेष्वत्यन्तपाटवमस्ति तैस्ते अवाकिरन्निति गम्यते । परिघैरित्यादौ परिघपाणयइत्याद्यूह्यं । शुभदर्शनैरित्यनेन तैक्ष्ण्यमुपलक्ष्यते । पर्वतोपमं हनुमन्तमिति शेषः ॥ २१-२३ ॥

विश्वास-प्रस्तुतिः

तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।
सूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥

मूलम्

तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।
सूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥

व्याख्या

तेषामित्य ॥ संक्रुद्धः । हनुमानिति शेषः ॥ २४-२५ ॥

विश्वास-प्रस्तुतिः

स सारथिमुवाचेदं याहि यत्रैष वानरः ।
क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥

मूलम्

स सारथिमुवाचेदं याहि यत्रैष वानरः ।
क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥

व्याख्या

हि यस्मात्कारणात् । उपेक्षितः एषः नः अस्माकं संबन्धिनां राक्षसानां क्षयं कुर्यात् । अतः एष वानरो यत्र । वर्तत इति शेषः । तत्र याहीतीदं वचः सारथिमुवाचेत्यन्वयः ॥ २६ ॥

विश्वास-प्रस्तुतिः

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।
वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥

मूलम्

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।
वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥

व्याख्या

वहन् प्रापयन् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सोभ्युपेत्य शरान्खड्ङ्गान्पट्टिशांश्च परश्वधान् ।
अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २८ ॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।
रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥
युध्यस्व यदि शूरोसि रावणात्मज दुर्मते ।
वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३० ॥

सोभ्युपेत्येति । अत्रापि क्रियाभेदात् तच्छन्दस्य द्विःप्रयोगः ॥ २८-३० ॥

विश्वास-प्रस्तुतिः

बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥
हनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥

मूलम्

बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥
हनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥

व्याख्या

द्वन्द्वं द्वन्द्वयुद्धं । ददासीति शेषः । यदि ददासि तर्हि शस्त्राणि त्यक्त्वा बाहुभ्यां प्रतियुध्यस्वेत्यन्वयः । ततः तदानीं द्वन्द्वयुद्धकाले ॥ ३१ – ३२ ॥

विश्वास-प्रस्तुतिः

यः स वासवनिर्जेता रावणस्यात्मसंभवः ।
स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥

मूलम्

यः स वासवनिर्जेता रावणस्यात्मसंभवः ।
स एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥

व्याख्या

यः सः । प्रसिद्धो य इत्यर्थः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।
जीवितान्तकरैर्घोरैः सौमित्रे रावणि जहि ॥ ३४ ॥

मूलम्

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।
जीवितान्तकरैर्घोरैः सौमित्रे रावणि जहि ॥ ३४ ॥

व्याख्या

अप्रतिमसंस्थानैः अनुपमसन्निवेशैः करवीरपत्राद्याकारैरित्यर्थः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।
ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥

मूलम्

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।
ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥

व्याख्या

अरिविभीषणेन शत्रुभयंकरेण ॥ ३५ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षडशीतितमः सर्गः ॥ ८६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥