विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः
विषयाः
हनुमन्मुखादिन्द्रजित्कृतमायासीतामारणश्रवणजशोकेनपतितमूर्च्छितं-सुरभिसलिलसे -कसमुद्बोधितंरामंप्रति लक्ष्मणेन नास्तिक्यवादाश्रयणेन धर्मादिनिरसनेनपौरुषप्रशंसनपूर्वकं पुनः क्षमापणेनरिपुवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
राघवश्चापि विपुलं तं राक्षसवनौकसाम् ।
श्रुत्वा सङ्घामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥
मूलम्
राघवश्चापि विपुलं तं राक्षसवनौकसाम् ।
श्रुत्वा सङ्घामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥
व्याख्या
अथ मायासीतावधमूर्च्छितरामसान्त्वनं त्र्यशीतितमे — राघवश्चापीत्यादि । जाम्बवन्तं यदृच्छया सन्निहितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् ।
श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ २ ॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः ।
क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥
ऋक्षराजस्तथोक्तस्तु खेनानीकेन संवृतः ।
आगच्छत्पश्चिमं द्वारं हनुमान्यत्र वानरः ॥ ४ ॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि ।
वानरैः कृतसङ्घामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥
दृष्ट्वा पथि हनुमांश्च तदृक्षबलमुद्यतम् ।
नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ ६ ॥

यथा यतः ॥ २-६ ॥
विश्वास-प्रस्तुतिः
स तेन हरिसैन्येन सन्निकर्षं महायशाः ।
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥
समरे युध्यमानानामस्माकं प्रेक्षतां पुरः ।
जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८ ॥
उद्भान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम ।
तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः ।
निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥
तं भूमौ देवसंकाशं पतितं प्रेक्ष्य राघवम् ।
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥

हरिसैन्येन सह । सन्निकर्ष । रामस्येति शेषः ॥ ७-११ ॥
विश्वास-प्रस्तुतिः
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ।
प्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ॥ १२ ॥
मूलम्
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः ।
प्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ॥ १२ ॥
व्याख्या
उच्छिस्वं उद्गतज्वालं । अर्चिर्हेतिः शिखा स्त्रियां इत्यमरः ॥ १२ ॥
विश्वास-प्रस्तुतिः
तं लक्ष्मणोथ बाहुभ्यां परिष्वज्य सुदुःखितः ।
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३ ॥
मूलम्
तं लक्ष्मणोथ बाहुभ्यां परिष्वज्य सुदुःखितः ।
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३ ॥
व्याख्या
हेत्वर्थसंयुतं हेतुरुपपत्तिः । अर्थः प्रयोजनं । हेतुरूपोर्थोभिधेयो हेत्वर्थ इति वा ॥ १३ ॥
विश्वास-प्रस्तुतिः
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् ।
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥
मूलम्
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् ।
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥
व्याख्या
एवं सीताहननश्रवणजनितमनवधिकमधैर्यमाश्रयन्तं राममाश्वासयितुं लक्ष्मणोन्वारुह्य -वादेन धर्माधर्मयोः स्वरूपं खण्डयन्नीतिशास्त्रानुसारेण बलमेव प्रधानतयालम्ब्यतामित्याह – शुभइत्यादिना सर्गशेषेण ॥ पितृवाक्यपरिपालनादिरूपे शुभे वर्त्मनि तिष्ठन्तं । स्थिरतया तदनुतिष्ठन्तमित्यर्थः । विजितेन्द्रियं हस्तप्राप्तराज्यपरित्याजकयोः कैकेयीदशरथयोरुपर्यपि मनःकालुष्याभावेन विजितेन्द्रियं त्वां । निरर्थकः अवस्तुभूतः । अप्रामाणिक इति यावत् । शशविषाणवत् केवलव्यवहारमात्रावलम्बनो धर्मः अनर्थेभ्यः व्यसनेभ्यः । त्रातुं व्यसनानि निवारयितुं । न शक्नोति । सति धर्मिणि धर्माश्चिन्त्यन्ते इति न्यायादिति भावः । निरर्थकमेव त्वया पितृवचनपरिपालनमारब्धं । आदावेव मयोक्तमिति भावः । धर्म इत्युपलक्षणं । अधर्मोपि निरर्थकः सन् रावणमर्थेभ्यो न निवारयितुं शक्नोतीत्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥
मूलम्
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥
व्याख्या
ननु कथमनयोरप्रामाणिकत्वमित्यपेक्षायां तत्र किं प्रत्यक्षं प्रमाणं उतानुमानं अथ शब्दो वा, नाद्य इत्याह भूतानामिति ॥ स्थावराणां जङ्गमानां च भूतानां पदार्थानां । यथा दर्शनं प्रत्यक्षत उपलम्भनं अस्ति । तथा धर्माधर्मयोः दर्शनं न अस्तीत्यनुषङ्गः । तेन अदर्शनेन । धर्मोऽधर्मश्च नास्तीति मे मतिः निर्णयः ॥ १५ ॥
विश्वास-प्रस्तुतिः
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ।
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥
मूलम्
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् ।
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥
व्याख्या
उक्तमेवार्थं प्रत्यक्षानुप्राहकेण तर्केण — द्रढयति – यथेति ॥ यथैव स्थावरं व्यक्तं प्रत्यक्षत उपलब्धं । जङ्गमं च तथाविधं व्यक्तं भवति । अयं धर्माधर्मरूपोर्थः तथा युक्तो न भवति, तथा प्रत्यक्षो न भवतीत्यर्थः । यदि कश्चिद्धर्मोऽधर्मो वार्थः प्रत्यक्षसिद्धः स्यात् तर्हि स जङ्गमतया वा स्थावरतया दृश्येत । नच दृश्यते । तस्मान्नासौ प्रत्यक्ष इति भावः । किंच त्वद्विधो न विपद्यते । धर्मस्य प्रत्यक्षसिद्धतया सद्भावे त्वद्विधः धार्मिकः विपत्तिं नाप्नुयात् । रावणश्चार्थं न प्राप्नुयादित्यपि द्रष्टव्यम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ।
भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ १७ ॥
मूलम्
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् ।
भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ १७ ॥
व्याख्या
नाप्यनुमानं धर्माधर्मयोः प्रमाणमित्याह – यदीति ॥ यद्यधर्मो भूतो भवेत् तदा अधर्मयुक्तो रावणः नरकं व्रजेत् व्यसनं गच्छेत् । यदि धर्मो भूतो भवेत् तदा धर्मयुक्तो भवांश्च एवं व्यसनं नाप्नुयात् । व्यसनाव्यसनरूपकार्याभ्यां हि धर्माधर्मावनुमेयौ । न तथा संभवति । धार्मिकतयाऽभिमते त्वयि व्यसनदर्शनात् । अधार्मिकतयाभिमते रावणे व्यसनादर्शनाच्च । साध्यवति पक्षे हेत्वभावात् स्वरूपासिद्धो हेतुरित्यर्थः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि ।
धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ १८ ॥
मूलम्
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि ।
धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ १८ ॥
व्याख्या
विरुद्धत्वाच्च सुखदुःखयोः कार्ययोर्न धर्माधर्मानुमापकत्वमित्याह — तस्य चेति ॥ तस्य चाधर्मिष्ठस्य रावणस्य व्यसनाभावात् । व्यसनाभावशब्देन सुखं लक्ष्यते । सुखसद्भावादित्यर्थः । त्वयि च परमधार्मिके व्यसनं दुःखं । गते सति धर्मः अधर्मो भवति अधर्मफलप्रदो भवति । चकारादधर्मोपि धर्मफलाभ्युदयप्रदो भवतीति लभ्यते । अतएव परस्परविरोधिनौ स्वाभावव्याप्तहेतुकावित्यर्थः ॥ १८ ॥
विश्वास-प्रस्तुतिः
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ।
यद्यधर्मेण युज्जेयुर्येष्वधर्मः प्रतिष्ठितः ॥ १९ ॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः ।
धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ २० ॥
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः ।
क्लिश्यन्तेऽधर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ २१ ॥

व्यभिचाराद्व्याप्यत्वासिद्धत्वाद्वा न ताभ्यां तदनुमानमित्याह – धर्मेणेत्यादिना निरर्थकावित्यन्तेन ॥ उपलभेदित्यत्र काकुः । धर्मेण धर्मानुष्ठानेन धर्मं धर्मफलं सुखं । उपलभेत् । अधर्मतः अधर्मानुष्ठानेन । अधर्मफलं दुःखं उपलभेत् । उपलभेतेति मन्यसे किमित्यर्थः । एवमनूद्य तत्र दूषणमाह – यदीति । येष्वधर्मः प्रतिष्ठितः । ये अधार्मिका इति यावत् । ते अधर्मेण अधर्मफलेन । यदि युज्येयुः युज्येरन् । नाधर्मरुचयो जनाः । धर्मरुचय इति यावत् । द्वौ नञौ प्रकृतमर्थं गमयतः इति न्यायात् । ते धर्मेण धर्मफलेन । यदि युज्येरन, तदा धर्मेण चरतामेषां जनानां । धर्मः धर्मफलं सुखं । भवेत् । चकारात् अधर्मेण चरतां दुःखं भवेदिति सिद्धम् । न चैवमित्याह – यस्मादिति । अनेन च हिताहितप्राप्तिलक्षणकार्ययोरनियतत्वेन व्याप्त्यभावान्न ताभ्यां धर्माधर्मावनुमातुं शक्याविति व्याप्यत्वासिद्धिर्व्यभिचारो वा दर्शितः ॥ १९-२१ ॥
विश्वास-प्रस्तुतिः
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ।
वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २२ ॥
मूलम्
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव ।
वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २२ ॥
व्याख्या
शब्दोपि न धर्माधर्मयोः प्रमाणमित्याहवध्यन्त इति ॥ हे राघव । पापकर्माणः पापिनः । अधर्मेण कर्मरूपेण । वध्यन्ते यदि बाध्यन्ते चेत् । वधकर्म वधकर्मरूपोऽधर्मः । धर्मस्याप्युपलक्षणं । हतः त्रिक्षणावस्थायित्वेन ध्वस्तो भवति । शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वात् । हतः सः कं वधिष्यति । कं श्रेयसि नियोक्ष्यतीत्यपि द्रष्टव्यं । धर्माधर्मयोः क्रियारूपयोः क्षणिकत्वेन कालान्तरभाविफलजनकत्वासंभवात् बाधितविषयो वेदो ग्रावप्लवनादिवाक्यवदुपचरितार्थक इतिभावः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अथवा विहितेनायं हन्यते हन्ति वा परम् ।
विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥
मूलम्
अथवा विहितेनायं हन्यते हन्ति वा परम् ।
विधिरालिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥
व्याख्या
कर्मणः क्षणध्वंसित्वेपि तदाराधिता देवतैव फलप्रदेत्यत्राह – अथ वेति ॥ विहितेन विधिना । देवतयेत्यर्थः । अयं जनः । हन्यते बाध्यते । परं अन्यं । हन्ति वा बाधते वा । एवं यदि तेन पापेन कर्मणा पापफलभूतदुःखेन । विधिरेव आलिप्यते संबध्यते । सः प्रयोज्यकर्ता नालिप्यते । अस्य न्यायस्य पुण्यकर्मण्यपि तुल्यत्वात् सुखेनापि प्रयोज्यो न संबध्यते । यदि हि सत्कर्माराधितः असत्कर्माप्रीतो वा ईश्वरः धर्माधर्मशब्दवाच्यः स्यात्, तर्हि स एव सुखदुःखभागी कारयिता स्यात् । न तु प्रयोज्य इति भावः ॥ २३ ॥
विश्वास-प्रस्तुतिः
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता ।
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ २४ ॥
मूलम्
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता ।
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ २४ ॥
व्याख्या
ननु यथा स्वतन्त्रो राजा लीलार्थं कामपि मर्यादां प्रवर्त्य तदनुवर्तिनमनुगृह्णाति तदतिलङ्घिनं निगृह्णाति च । तथेश्वरोपि त्वाज्ञारूपकर्मानुष्ठायिनमनुगृह्णाति तदननुष्ठायिनं विपरीतानुष्ठायिनं च निगृह्णातीति चेन्न । स हि किं स्वार्थमनुगृह्णाति उत परार्थं । नाद्यः । अवाप्तसमस्तकामस्यावाप्तव्याभावात् । न द्वितीयः । कंचन विरिंचनं कंचनाकिंचनं च वितन्वतस्तस्य पक्षपातनैर्घृण्यापत्तेः । तत्तत्कर्मानुगुणतया सृष्टेर्न पक्षपातादिप्रसक्तिरिति चेन्न । समीचीने कर्मण्यप्रवर्तयतस्तस्य सर्वज्ञस्य निर्दयत्वापत्तेः । अनादिकर्मप्रवाहकृत -पूर्वपूर्वकर्मानुगुण्येन पुनः पुनः सदसतोः कर्मणोः पुरुषं प्रवर्तयतीति चेत्, तर्हि कस्यचिन्नियमेन दुःखं कस्यचिन्नियमेन सुखं च स्यात् । नच तथा दृश्यते, अनियमदर्शनात् । तर्हि कर्मजन्योऽपूर्वरूपोतिशयः फलप्रदो धर्म इत्याशङ्ख्याह-अदृष्टेति ॥ हे अरिविकर्शन । प्रतिक्रियते परप्रतिपत्तिर्जन्यत इति प्रतिकारो लिङ्गं । अदृष्टप्रतिकारेण अदृष्टलिङ्गेन अनुमानागम्येनेत्यर्थः । अव्यक्तेन अप्रत्यक्षेण असता सता असद्भूतेन अग्नीन्द्रादिवदर्थवादवाक्येनागम्येन । धर्मेण अपूर्वाख्येन परं श्रेयः कथं प्राप्तुं शक्यं । न शक्यमित्यर्थः ॥ २४ ॥
विश्वास-प्रस्तुतिः
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन ।
त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ २५ ॥
मूलम्
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन ।
त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ २५ ॥
व्याख्या
उक्तमेवार्थं पुनस्तर्केण दृढीकरोति यदीति ॥ हे सतां मुख्य । यदि सत् स्यात् । धर्माख्यं वस्त्विति शेषः । धार्मिकस्य तव असत् अनिष्टं । किंचन न स्यात् । तर्कस्य विपर्यये पर्यवसानमाह – त्वयेति । यत् यस्मात्कारणात्, त्वया ईदृशं दुःसहं व्यसनं प्राप्तं । तस्मात्सन्नोपपद्यते । असदेवभवतीत्यर्थः । कार्यानुपलम्भादुपूर्वाख्यधर्मो न कल्प्यइत्यर्थः ॥ २५ ॥
विश्वास-प्रस्तुतिः
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते ।
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥
मूलम्
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते ।
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥
व्याख्या
ननु न कार्यानुपलम्भमात्रादर्थस्याभावो निश्चेतुं शक्यः, अतीन्द्रियोच्छेदापत्तेः । किंतु सहकारिसंपत्तौ सत्यां कार्यानुपलम्भः कारणत्वाभावं साधयति । सहकारि च पौरुषं । अतस्तदभावात्फलानुदय इत्यत आह – अथवेति । दुर्बलः बलरहितः निरपेक्षतया कार्याक्षमः । अतएव क्लीबः कातरः स्वतःकार्यकरणासमर्थः । धर्मः बलमनुवर्तते । कार्योत्पादनेपौरुषमपेक्षत इत्यर्थः । एवंचेद्दुर्बलो हृतमर्यादः स्वातन्त्र्येण फलप्रदत्वमर्यादाहीनो धर्मः प्राधान्येन न सेव्य इति मे मतिः ॥ २६ ॥
विश्वास-प्रस्तुतिः
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥
मूलम्
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥
व्याख्या
प्रधानभूतं बलमेवाश्रयणीयमित्याह – बलस्येति ॥ पराक्रमे कार्यसाधनेविषये, बलस्य धर्मः गुणभूतो यदि चेत् उपसर्जनभूतो यदि स्यात्, तदा यथेदानीं धर्मे वर्तसे तथा धर्ममुत्सृज्य धर्मप्राधान्यमुत्सृज्य । धर्म इव बलेपि वर्तस्व ॥ २७ ॥
विश्वास-प्रस्तुतिः
अथ चेत्सत्यवचनं धर्मः किल परंतप ।
अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २८ ॥
मूलम्
अथ चेत्सत्यवचनं धर्मः किल परंतप ।
अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २८ ॥
व्याख्या
एवं सामान्येन धर्मे दूषितेपि सत्यवचनरूपधर्मविशेषस्य रामेण प्राधान्येनानुरोधात्तत्पृथग्दूषयति — अथेति ॥ हे परंतप । सत्यवचनं धर्मः किल अथ चेदेवं चेत्, अनृतः त्वामभिषेक्ष्यामीत्युक्त्वा तदकरणेन सत्यत्वरहितः । अनृतमिति पाठे वदन्निति शेषः । त्वयि सकलकल्याणगुणाश्रये ज्येष्ठपुत्रे । अकरुणः राज्याद्वनंप्रति निष्कासनान्निर्दयः । अतो बन्धयोग्यः पिता त्वया पितृवचनं करिष्यामीति कृतप्रतिज्ञेनत्वया । किंन बद्धः किं न नियमितः । सर्वप्रजासन्निधौ राममभिषेक्ष्यामीत्युक्तं प्राथमिकं पितृवचनं परित्यज्य पाश्चात्यं वनगमनविषयं पितृवचनं करिष्यामीति कृतप्रतिज्ञेन त्वया पालयता सत्यवचनमपि सम्यक् पालितमितिभावः ॥ २८ ॥
विश्वास-प्रस्तुतिः
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप ।
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २९ ॥
मूलम्
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप ।
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २९ ॥
व्याख्या
धर्माधर्मयोः सद्भावेपि राज्ञा धर्मोऽधर्मो वा नियमेन नानुष्ठातव्यः । किंतु तत्तत्कालप्रयोजनानुगुण्येनोभावपि कर्तव्यावित्यत्र शिष्टाचारं प्रमाणयति – यदीति ॥ भूतो अधर्मो वेत्यत्र वृत्तानुरोधाय सन्ध्यभावः । यदि धर्मो भवेद्भुतः । यदि केवलं धर्म एवानुष्ठेयत्वेन प्राप्तो भवेत् । तदा वज्री शतक्रतुः मुनिं विश्वरूपं हत्वा इज्यां न कुर्यात्, किन्त्विज्यामेव कुर्यात् । अधर्मो वा । केवलमधर्मो वा । यद्यनुष्ठेयः स्यात्, तदा शतक्रतुः वज्री मुनिं हत्वा इज्यां न कुर्यात्, किंतु हननमेव कुर्यात् । क्षत्रधर्मनिष्ठेनेन्द्रेण धर्माधर्मयोरनुष्ठितत्वाद्राज्ञा यथाकालमुभयमपि कर्तव्यमिति भावः । यान्येतानि देवक्षत्राणीन्द्रो वरुणः पर्जन्यो यम ईशान इतीन्द्रस्य क्षत्रियत्वं श्रूयते ॥ २९ ॥
विश्वास-प्रस्तुतिः
अधर्मसंश्रितो धर्मो विनाशयति राघव ।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥
मूलम्
अधर्मसंश्रितो धर्मो विनाशयति राघव ।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥
व्याख्या
इदानीमभ्युपगमवादेनैकान्ततो धर्माधर्मयोरेकस्याश्रयणमनर्थपर्यवसायीत्याह-अधर्मेति ॥ अधर्मसंश्रितो धर्मः अधर्मसहितो धर्मः । धर्मश्चाधर्मश्चेत्यर्थः । विनाशयति कर्तारमिति शेषः । नियमेन पृथक् पृथगनुष्ठीयमानौ धर्माधर्मो कर्तारं विनाशयतः । अत एवैतत्सर्वं धर्माधर्मात्मकं सर्वं कर्मजातं यथाकामं तत्तत्कालोचितं । अनियमेन नरः कुरुते । कुर्यादित्यर्थः ॥ ३० ॥
विश्वास-प्रस्तुतिः
मम चेदं मतं तात धर्मोऽयमिति राघव ।
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥
मूलम्
मम चेदं मतं तात धर्मोऽयमिति राघव ।
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥
व्याख्या
अस्मिन्नर्थे न मे संदेह इत्याह – ममेति ॥ हे तात अनुकम्प्य । तातोनुकम्प्ये पितरि इति रत्नमाला । इदं याथाकाम्येनाचरणं यस्ति । अयं धर्म इति मम मतं सिद्धान्त इत्यर्थः । एवं प्रथमं धर्म एवाप्रामाणिक इत्युक्तं । पश्चात्कथंचित्प्रामाणिकत्वसंभवेपि न तस्य प्राधान्यमित्युक्तं । इदानीमप्राधान्येनापि धर्मस्तव न संभवति, मूलाभावादित्याह- धर्ममूलमित्यादिना । धर्मस्य मूलं कारणं अर्थरूपं, तदा प्राप्तकाले, राज्यमुत्सृजता त्वया छिन्नं । मूलच्छेदात्तव कथं धर्म इत्यर्थः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥
मूलम्
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥
व्याख्या
तदेव धर्ममूलत्वमर्थस्य प्रतिपादयति – अर्थेभ्य इति ॥ ततस्ततः प्रजापालनाय प्रदेयषड्भागकरप्रदानादिकारणात् । संवृत्तेभ्यः प्राप्तेभ्यः । क्रमाद्विवृद्धेभ्योऽर्थेभ्यः सर्वाः क्रियाः यज्ञदानादिक्रियाः । प्रवर्तन्ते । पर्वतेभ्य इत्युपमानेन मूलधनव्ययमकृत्वैवार्थमूलतया दानादिक्रियाः कार्या इत्युक्तम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३३ ॥
मूलम्
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३३ ॥
व्याख्या
व्यतिरेकमुखेनापि तदेव प्रतिपादयति – अर्थेनेत्यादिना ॥ कुसरितः अल्पसरितः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सोयमर्थं परित्यज्य सुखकामः सुखैधितः ।
पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ ३४ ॥
मूलम्
सोयमर्थं परित्यज्य सुखकामः सुखैधितः ।
पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ ३४ ॥
व्याख्या
न केवलमर्थपरित्यागेन धर्मासंभवः किंतु दोषप्राप्तिरपीत्याह- सोयमिति ॥ सुखैधितः पूर्वं सुखेन संवर्धितः । सोयं अर्थपरित्यागी अर्थं प्राप्तं परित्यज्य सुखकामः सन्, पापं अन्यायेनार्थार्जनं सुखसाधनभूतधनसंपादनार्थं स्तेयादिपापं आरभते । ततः तेन कर्मणा । दोषः प्रवर्तत इत्यर्थः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३५ ॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् ।
यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ ३६ ॥

यस्यार्थास्तस्य मित्राणीत्यादिश्लोकद्वयं क्वचित्पठ्यते ॥ पुमान् पुंस्त्ववान् । अन्यः स्त्रीप्रायइत्यर्थः । महाभागः महाभाग्यः । महागुणः शीलादिगुणवान् ॥ ३५-३६ ॥
विश्वास-प्रस्तुतिः
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।
राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥
मूलम्
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया ।
राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥
व्याख्या
अर्थस्य परित्यागे एते पूर्वोक्तगुणप्रतियोगिनो निर्मित्रत्वादयो दोषाः, प्रव्याहृताः स्पष्टमुक्ताः । राज्यमुत्सृजता त्वया येनगुणेन बुद्धिः अर्थपरित्यागविषया कृता तं गुणं जान इत्यर्थः । यद्वा राज्यमुत्सृजता त्वया । येन कारणेनार्थपरित्यागे बुद्धिः कृता तेन कारणेन एते दोषाः मया प्रव्याहृता इत्यर्थः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥
मूलम्
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् ।
अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥
व्याख्या
धर्मकामार्थाः धर्मकामप्रयोजनानि । प्रदक्षिणं अनुकूलं । प्रतिष्ठितमिति वा पाठः । व्यतिरेकमुखेनाप्याह-अधनेनेति । अधनेन धनं विना अर्थकामेनापि । विचिन्वता अर्थार्जनव्यापारं कुर्वता पुरुषेण । अर्थः श्रेयः । न शक्यं न साधयितुं शक्यं । । अव्ययमेतत् । शक्यमरविन्दसुरभिः इति प्रयोगात् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥
मूलम्
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥
व्याख्या
न केवलमर्थकामावेव धनमूलौ, अन्येपि तथेत्याह – हर्ष इति ॥ प्रवर्तन्ते प्रकृष्टा निवर्तन्ते । शोभन्तइत्यर्थः । असतो निर्धनस्य शमदमौ हि धनलाभे निवर्तेते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ।
तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ४० ॥
मूलम्
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ।
तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ४० ॥
व्याख्या
न केवलमामुष्मिक श्रेयः साधनभूतोर्थः, किंतु ऐहिकश्रेयः साधनं चेति व्यतिरेकमुखेन प्रतिपादयन् तादृशोर्थस्त्वयि नास्तीत्याह – येषामिति ॥ येषां चरतामित्यनादरे षष्ठी । येषां चरतां यांश्चरतो विद्यमानानर्थाननादृत्य धर्मचारिणां केवलं धर्ममाचरतां । अयं लोको नश्यति । ऐहिकसुखं नास्तीत्यर्थः । ते तादृशाः सुखसाधनभूताः अर्थाः दुर्दिनेषु मेघच्छन्नदिनेषु । मेघच्छन्नेऽह्नि दुर्दिनं इत्यमरः । सूर्यादयो ग्रहाः यथा न दृश्यन्ते, तथा त्वयि न दृश्यन्ते । सकलश्रेयः साधनभूता अर्थास्त्वया नादृताइत्यर्थः ॥ ४० ॥
विश्वास-प्रस्तुतिः
त्वयि प्रव्राजिते वीर गुरोध वचने स्थिते ।
रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ ४१ ॥
मूलम्
त्वयि प्रव्राजिते वीर गुरोध वचने स्थिते ।
रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ ४१ ॥
व्याख्या
अर्थहेतुभूतराज्यपरित्यागेन पितृवचनपरिपालनरूपकेवलधर्मावलम्बनेन च प्राप्तं दोषमाह – त्वयीति ॥ प्राणैः प्राणेभ्यः । प्राणैस्तुल्यं प्रियतरेति वाऽर्थः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् ।
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ४२ ॥
मूलम्
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् ।
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ४२ ॥
व्याख्या
एवं गते किं करणीयमित्यत्राह – तदद्येति ॥ भवत्कर्मणाप्राप्तंदुःखं सत्कर्मणा व्यपनेष्यामीत्यर्थः । कृतप्रतिक्रियया तद्दुःखं निवारयिष्यामीति भावः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
उत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत ।
किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ४३ ॥
मूलम्
उत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत ।
किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ४३ ॥
व्याख्या
एवं भक्तिवादानुक्त्वा क्षमापणं विदधाति – उत्तिष्ठेति ॥ आत्मानं स्वं । महात्मानं महाबुद्धिं । आत्मानं परमात्मानं । किं नावबुध्यसे । तस्मात् भवतः शोककारणं नास्तीति हृदयम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः ।
सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४४ ॥
मूलम्
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः ।
सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४४ ॥
व्याख्या
अयं अहं तव विधेयत्वेन सन्निहितः, तव प्रियार्थं उदितः उद्युक्त उत्पन्नो वा । अनेन दुःखं व्यपनेष्यामीत्येतद्विवृतम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥