विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः
विषयाः
लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥
विश्वास-प्रस्तुतिः
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् ।
निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥
मूलम्
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् ।
निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥
व्याख्या
अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥
विश्वास-प्रस्तुतिः
स ननाद महानादं समुद्रमभिनादयन् ।
जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥
तमवध्यं मघवता यमेन वरुणेन वा ।
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥
तांस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।
नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४ ॥

विधमन् दुहुन् ॥ २-४ ॥
विश्वास-प्रस्तुतिः
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥
मूलम्
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥
व्याख्या
अभिजनानि प्रशस्तकुलानि ॥ ५ ॥
विश्वास-प्रस्तुतिः
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ।
नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् ।
विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥
कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः ।
वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ८ ॥

विभीषिका भयजनकः कृत्रिमपुरुषवेषः ॥ ६-८ ॥
विश्वास-प्रस्तुतिः
ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥
मूलम्
ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥
व्याख्या
परमक्रुद्धा इति कुञ्जरविशेषणम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः ।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कंम्पते ॥ १० ॥
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥
मूलम्
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः ।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कंम्पते ॥ १० ॥
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥
व्याख्या
प्रांशुभिः उन्नतैः । महाबलः कुम्भकर्णः ॥ १०- ११ ॥
विश्वास-प्रस्तुतिः
सोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥
मूलम्
सोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥
व्याख्या
ममन्थ । ददाहेत्यर्थः ॥ १२ ॥
विश्वास-प्रस्तुतिः
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥
मूलम्
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥
व्याख्या
निरस्ताः उत्क्षिप्ताः ॥ १३ ॥
विश्वास-प्रस्तुतिः
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥
मूलम्
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥
व्याख्या
लङ्घयन्त इत्यर्धम् ॥ नावलोकयन् नावालोकयन् । पृष्ठदेशमित्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ १५ ॥
मूलम्
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ १५ ॥
व्याख्या
केचित्ते वानरा इति योजना ॥ १५ ॥
विश्वास-प्रस्तुतिः
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥
मूलम्
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥
व्याख्या
सागरमित्यर्धम् ॥ ते वानराः ॥ १६ ॥
विश्वास-प्रस्तुतिः
ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।
ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १७ ॥
मूलम्
ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।
ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १७ ॥
व्याख्या
स्थलानि अतिधावनयोग्यान्देशान् उन्नतप्रदेशान्वा । आश्रिता इत्यन्वयः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः ।
निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १८ ॥
[ केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव ] ।
तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥ १९ ॥
मूलम्
ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः ।
निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १८ ॥
[ केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव ] ।
तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥ १९ ॥
व्याख्या
निषेदुः भूमौ पतिता इव तस्थुः ॥ १८-१९ ॥
विश्वास-प्रस्तुतिः
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।
भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।
स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ २० ॥
मूलम्
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।
भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।
स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ २० ॥
व्याख्या
परिगम्य प्रदक्षिणीकृत्येत्यर्थः । स्थानं न पश्यामीत्यन्वयः ॥ २० ॥
विश्वास-प्रस्तुतिः
निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।
दारा ह्येपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ २१ ॥
मूलम्
निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।
दारा ह्येपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ २१ ॥
व्याख्या
असङ्गगतिपौरुषाः अप्रतिबद्धपराक्रमा इति वानरसंबोधनं । निरायुधानां द्रवतां निरायुधेषु द्रवत्सु । यद्वा निरायुधानां द्रवतां दारास्तान् अपहसिष्यन्तीति । सः अपहास ः घातः मृतिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।
क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २२ ॥
मूलम्
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।
क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २२ ॥
व्याख्या
सर्वे । वयमिति शेषः । विस्तीर्णेषु ज्ञातिपरम्परयां विततेषु । महत्सु प्रशस्तेषु ॥ २२ ॥
विश्वास-प्रस्तुतिः
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २३ ॥
मूलम्
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २३ ॥
व्याख्या
अनार्या इत्यर्धं । यद्यस्मात् भीताः प्रधावत पलायथ । तस्मादनार्याः खलु ॥ २३ ॥
विश्वास-प्रस्तुतिः
विकत्थनानि वो यानि तदा वै जनसंसदि ।
तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ २४ ॥
मूलम्
विकत्थनानि वो यानि तदा वै जनसंसदि ।
तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ २४ ॥
व्याख्या
सोदग्राणि उदग्रतायुक्तानि । महान्ति भूयांसीत्यर्थः ॥ २४ ॥
विश्वास-प्रस्तुतिः
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २५ ॥
मूलम्
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २५ ॥
व्याख्या
यस्तु धिक्कृतो जीवति तद्विषये भीरुप्रवादाः । भीरुत्वापवादाः । श्रूयन्ते । सत्पुरुषैः शूरैः । जुष्टः सेवितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
शयामहेऽथ निहताः पृथिव्यामल्पजीविताः ।
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ २६ ॥
संप्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।
जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥ २७ ॥
मूलम्
शयामहेऽथ निहताः पृथिव्यामल्पजीविताः ।
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ २६ ॥
संप्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।
जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥ २७ ॥
व्याख्या
सत्पुरुषजुष्टो मार्गः क इत्यपेक्षायामाह—शयामह इत्यादि । युद्धमरणं हि सत्पुरुषजुष्टो मार्ग इत्यर्थः । समरान्निवृत्य पलायितानामपि मरणस्यावश्यंभावित्वप्रदर्शनार्थमल्पजीविता इत्युक्तं । समरानिवर्तिनां वीराणां तु मरणजीवनयोरुभयोरपि श्रेयस्करत्वं प्रतिपादयति- दुष्प्रापमिति । निहत्वा निहत्य । जीवितमिति । वीरलोकस्य वीराणां लोको ब्रह्मलोकः तस्य वसु मूल्यभूतं जीवितं मोक्ष्यामः ॥ २६-२७ ॥
विश्वास-प्रस्तुतिः
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति ।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २८ ॥
मूलम्
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति ।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २८ ॥
व्याख्या
दीप्यमानं ज्वलनमिव राममासाद्य कुम्भकर्णः पतङ्गो यथेति यथेवशब्दयोर्निर्वाहः ॥ २८ ॥
विश्वास-प्रस्तुतिः
पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २९ ॥
मूलम्
पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २९ ॥
व्याख्या
उद्दिष्टाः व्यपदिष्टाः । बहवो वयमनेन कुम्भकर्णेन भग्नाः पलायनेन प्राणान् रक्षामहे यदि ततो यशो नाशं गमिष्यतीति योजना ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥
मूलम्
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥
व्याख्या
शूरं पराक्रमवन्तं । कनकाङ्गदं उत्साहातिशयेन प्रकाशितस्वर्णाङ्गदम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।
न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ३१ ॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥
मूलम्
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।
न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ३१ ॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥
व्याख्या
कदनं मर्दनं । दयितमिष्टम् ॥ ३१ – ३२ ॥
विश्वास-प्रस्तुतिः
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।
सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३३ ॥
मूलम्
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।
सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३३ ॥
व्याख्या
अनुमानैः सालगिरिभेद्नादिदृष्टान्तपुरस्कृतैर्युक्तिविशेषैः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता ।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥
मूलम्
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता ।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥
व्याख्या
आज्ञाप्रतीक्षाः सुग्रीवाद्याज्ञाप्रतीक्षाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥
मूलम्
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥
व्याख्या
त्वरिततराभिमुखं त्वरिततरं अभिमुखं चेति क्रियाविशेषणं । अत्र वायुपुत्रस्तु न पलाय्य निवृत्तः । किंतु ऋषभादिभिर्मिलित्वा कुम्भकर्णेन सह युद्धार्थं निवृत्त इति ज्ञेयम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः ॥ ६६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥
मूलम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः ॥ ६६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥