०५१ धूम्नाक्षेण युद्धागमनम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः

मूलम्

विषयाः

वानराणांविषादसमयेतदीयहर्षोद्धोषश्रवणविषण्णेनरावणेन राक्षसान्प्रति तद्धर्षकारणा -वगमचोदना ॥ १ ॥ राक्षसै रणाङ्गणमेत्यतदवगमेन रावणंप्रति राघवयोर्नागास्त्रविमोक्षणस्य तत्कारणत्वनिवेदनम् ॥ २ ॥ धूम्राक्षेण रावणचोदनया राक्षसैस्सहपश्चिमद्वारगमनम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तेषां सुतुमुलं शब्दं वानराणां तरंस्विनाम् ।
नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ १ ॥

अथ धूम्राक्षनिर्गम एफपञ्चाशे – तेषामित्यादि राक्षसैः सह शुश्रावेत्यन्वयः ॥ १ ॥

विश्वास-प्रस्तुतिः

स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् ।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ २ ॥

निर्घोषः ध्वनिः ॥ २ ॥

विश्वास-प्रस्तुतिः

यथाऽसौ संप्रहृष्टानां वानराणां समुत्थितः ।
बहूनां सुमहानादो मेघानामिव गर्जताम् ॥
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ ३ ॥

यथासावित्यादिसार्धश्लोक एकान्वयः ॥ यथा येन कारणेन । सुमहानादः समुत्थितः ततः एतेषां सुमहती प्रीतिः । अस्तीतिशेषः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ॥ ४ ॥

मूलम्

तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः ॥ ४ ॥

तथा हीत्यर्धम् ॥ तथा प्रसिद्धप्रकारः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।
अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ ५ ॥
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ ६ ॥

तौ त्विति । तुशब्दश्चार्थः । तौ च बद्धौ नादश्च श्रूयते । स च प्रकृतविरुद्धो नादः । शङ्कां राजपुत्रयोः शरबन्धापगमशङ्कां । जनयतीव । इवशब्दः संभावनायाम् ॥ ५-६ ॥

विश्वास-प्रस्तुतिः

ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम् ।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ७ ॥
तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते ।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८ ॥
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।
समुत्थितौ महावेगौ विपेदुः प्रेक्ष्य राक्षसाः ॥ ९ ॥

उत्थितं हर्षकारणं ज्ञायतामित्यन्वयः ॥ ७–९ ॥

विश्वास-प्रस्तुतिः

संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।
विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ १० ॥
तदप्रियं दीनमुखा रावणस्य निशाचराः ।
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ ११ ॥

उपस्थिताःप्राप्ताः ॥ १०-११ ॥

विश्वास-प्रस्तुतिः

यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२ ॥

यौ तौ । यावित्यर्थः ॥ १२ ॥

विश्वास-प्रस्तुतिः

विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे ।
पाशानिव गजौ छित्वा गजेन्द्रसमविक्रमौ ॥ १३ ॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।
चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥ १४ ॥

पाशानिति । पाशान् छित्त्वा स्थितौ गजाविव भासमानावित्यर्थः ॥ १३–१४ ॥

विश्वास-प्रस्तुतिः

घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ १५ ॥

दत्तवरैः वरदत्तैः । प्रमथ्य बलात्कृत्य । बद्धौ अभूतामिति शेषः ॥ १५ ॥

विश्वास-प्रस्तुतिः

तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६ ॥

संशयस्थं प्राणसंशयस्थम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः ।
आदत्तं यैः सुसंग्रामे रिपूणां मम जीवितम् ॥ १७ ॥
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा ।
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ १८ ॥

आदतं आत्तम् ॥ १७–१८ ॥

विश्वास-प्रस्तुतिः

बलेन महता युक्तो रक्षसां भीमविक्रम ।
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ १९ ॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥ २० ॥

त्वं वधायाभिनिर्याहीत्यमङ्गलसूचकं वचः ॥ १९-२० ॥

विश्वास-प्रस्तुतिः

अभिनिष्क्रम्य तद्वारं बलाध्यक्षमुवाच ह ।
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ॥ २१ ॥

द्वारमभिनिष्क्रम्य द्वारान्निष्क्रम्य । युयुत्सतः ममेतिशेषः । किं चिरेण किं विलम्बेन ॥ २१ ॥

विश्वास-प्रस्तुतिः

धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।
बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ २२ ॥

रावणस्याज्ञया रावणाज्ञाकृतं धूम्राक्षवचनं श्रुत्वेत्यर्थः ॥ २२ ॥

विश्वास-प्रस्तुतिः

ते बद्धघण्टा बलिनो घोररूपा निशाचराः ।
विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ।
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ॥ २३ ॥

बद्धघण्टाः शूरत्वज्ञापनाय कटिबद्धघण्टा इत्यर्थः । ते पूर्वोक्तसेनास्थाः । विविधेति । आयुधानि शूलादिभिन्नानि । अस्यार्धस्य पूर्वेणान्वयः ॥ २३ ॥

विश्वास-प्रस्तुतिः

गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ।
परिषैर्भिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः ।
निर्ययू राक्षसा दिग्भ्यो नर्दन्तो जलदा यथा ॥ २४ ॥

गदाभिरित्यादि । गदा प्रसिद्धा । पट्टिशः दण्डविशेषः । परिघः भिन्दिपालः । भल्लः अयोमयः शरः । प्रासैः परश्वधैः । दिग्भ्यो जलदा इवेत्यन्वयः ॥ २४ ॥

विश्वास-प्रस्तुतिः

रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः ।
सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ २५ ॥
हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः ।
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २६ ॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः ।
आरुरोह रथं दिव्यं धूम्राक्षः स्वरनिःस्वनः ॥२७॥
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।
प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः ॥
रथप्रवरमास्थाय स्वरयुक्तं स्वरस्वनम् ॥ २८ ॥

अन्ये कवचिनः । ध्वजैः विविधाननैः खरैश्च समलङ्कृतैः स्थैर्निर्ययुः । अन्ये हयैः अन्ये गजैश्च निर्ययुरित्यन्वयः ॥ २५–२८ ॥

विश्वास-प्रस्तुतिः

प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम् ।
अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ॥ २९ ॥

शकुनाः निमित्तसूचकाः पक्षिणः ॥ २९ ॥

विश्वास-प्रस्तुतिः

रथशीर्षे महान्भीमो गृध्रव निपपात ह ।
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ ३० ॥

कुणपाशनाः गृध्राः । प्रथिताः मिलिताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि ।
विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः ॥ ३१ ॥

विस्वरमिति क्रियाविशेषणम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ववर्ष रुधिरं देवः संचचाल च मेदिनी ।
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः ॥ ३२ ॥
तिमिरौघ्रावृतास्तत्र दिशश्च न चकाशिरे ॥ ३३ ॥
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् ।
प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ॥ ३४ ॥

देवः पर्जन्यः । प्रतिलोमं प्रतिकूलम् ॥ ३२–३४ ॥

विश्वास-प्रस्तुतिः

मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ३५ ॥

मुमुहुरित्यर्धम् ॥ पुरःसराः अग्रगाः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ततः सुभीमो बहुभिर्निशाचरैर्वृतोभिनिष्क्रम्य रणोत्सुको बली ।
ददर्श तां राघवबाहुपालितां मेहौघकल्पां बहुवानरीं चमूम् ॥ ३६ ॥

अभिनिष्क्रम्य पुरादिति शेषः । महौघकल्पां महानोघो अस्मिन्निति महौघः सागर ः तत्कल्पां । बहुवानरीं ङीबत्रार्षः । द्वितीयायां प्रातर्धूम्राक्षनिर्गमः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥