०४९ राम-विभीषणसंवादः

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः

विषयाः

नागपाशबद्धेनापिदिष्ट्याप्रबुद्धेनरामेण लक्ष्मणदुरवस्थावलोकनेनतस्य चरमावस्था -शङ्कया तंप्रतिशोचनपूर्वकंबहुधा विलापः ॥ १ ॥

विश्वास-प्रस्तुतिः

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २ ॥

मूलम्

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ ।
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ १ ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः ।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ २ ॥

व्याख्या

अथ रामप्रबोधनमेकोनपञ्चाशे – घोरेणेत्यादिश्लोकद्वयमेकान्वयम् ॥ नागौ यथा नागाविव निश्वसन्तावित्यन्वयः । शोकपरिप्लुताः शोकपूर्णाः ॥ १-२ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।
स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोपि सन् ॥ ३ ॥

मूलम्

एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् ।
स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोपि सन् ॥ ३ ॥

व्याख्या

स्थिरत्वात् धीरत्वात् । सत्त्वयोगात् बलयोगात् । संदानितोपि बद्धोपि । बद्धे संदानितं मूतं इत्यमरः ॥ ३ ॥

विश्वास-प्रस्तुतिः

ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।
भ्रातरं दीनवदनं पर्यदेवयदातुरः॥ ४ ॥

मूलम्

ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् ।
भ्रातरं दीनवदनं पर्यदेवयदातुरः॥ ४ ॥

व्याख्या

अर्पितं शरैरिति शेषः ॥ ४ ॥

विश्वास-प्रस्तुतिः

किंनु मे सीतया कार्यं किं कार्य जीवितेन वा ।
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५ ॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।
न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥ ६ ॥

मूलम्

किंनु मे सीतया कार्यं किं कार्य जीवितेन वा ।
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ ५ ॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता ।
न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ॥ ६ ॥

व्याख्या

किं त्वित्यादिश्लोकद्वयम् ॥ विचिन्वता मयेति शेषः । सचिवः सहायः । साम्परायिकः युद्धे साधुः । युद्धाययोः सम्परायः इत्यमरः ॥ ५-६ ॥

विश्वास-प्रस्तुतिः

परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥

मूलम्

परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् ।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ ७ ॥

व्याख्या

पञ्चत्वं मृतिम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

किंनु वक्ष्याभि कौसल्यां मातरं किंतु कैकयीम् ।
कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ॥ ८ ॥
विवत्सां वेपमानां च क्रोशेन्तीं कुररीमिव ।
कथमाश्वासयिष्यामि यदा यास्यामि तं विना ॥ ९ ॥

मूलम्

किंनु वक्ष्याभि कौसल्यां मातरं किंतु कैकयीम् ।
कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ॥ ८ ॥
विवत्सां वेपमानां च क्रोशेन्तीं कुररीमिव ।
कथमाश्वासयिष्यामि यदा यास्यामि तं विना ॥ ९ ॥

व्याख्या

किं न्वित्यादिश्लोकद्वयमेकान्वयं । अहं तं लक्ष्मणं विना अयोध्यां यदा यास्यामि तदा कौसल्यां कैकयीं च किं वक्ष्यामि । सुमित्रां कथमा- श्वासयिष्यामि ॥ ८-९ ॥

विश्वास-प्रस्तुतिः

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ १० ॥

मूलम्

कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ १० ॥

व्याख्या

कथमित्यर्धम् ॥ यशस्विनमित्यनेन तद्यशो मया न लब्धमिति खिद्यति ॥ १० ॥

विश्वास-प्रस्तुतिः

मया सह वनं यातो बिना तेन गतः पुनः ।
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ॥ ११ ॥

मूलम्

मया सह वनं यातो बिना तेन गतः पुनः ।
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ॥ ११ ॥

व्याख्या

यो मया सह वनं यातः तेन विनाऽयोध्यां गतोहं सुमित्रया कृतमुपालम्भं उक्तप्रकारं सोढुं कथं शक्ष्यामि ॥ ११ ॥

विश्वास-प्रस्तुतिः

इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥

मूलम्

इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ १२ ॥

व्याख्या

इहैवेत्यर्थम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १३ ॥

मूलम्

धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ १३ ॥

व्याख्या

दुष्कृतकर्माणं । लक्ष्मणवनानयनमेव दुष्कृतं कर्म ॥ १३ ॥

विश्वास-प्रस्तुतिः

त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १४ ॥
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।
तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥

मूलम्

त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण ।
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ १४ ॥
येनाद्य निहता युद्धे राक्षसा विनिपातिताः ।
तस्यामेव क्षितौ वीरः स शेते निहतः परैः ॥ १५ ॥

व्याख्या

स त्वमित्यन्वयः ॥ १४-१५ ॥

विश्वास-प्रस्तुतिः

शयानः शरतल्पेऽस्मिन्स्वंशोणितपरिप्लुतः ।
शरजालैश्चितो भाति भास्करोस्तमिव व्रजन् ॥ १६ ॥

मूलम्

शयानः शरतल्पेऽस्मिन्स्वंशोणितपरिप्लुतः ।
शरजालैश्चितो भाति भास्करोस्तमिव व्रजन् ॥ १६ ॥

व्याख्या

शयान इति । अयमिति शेषः । अत्र शरतल्पस्थानीयोस्तगिरिः । शरस्थाने किरणाः । शोणितस्थाने रक्तवर्णत्वम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।
रुजा चाब्रुवतोप्यस्य दृष्टिरागेण सूच्यते ॥ १७ ॥

मूलम्

बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् ।
रुजा चाब्रुवतोप्यस्य दृष्टिरागेण सूच्यते ॥ १७ ॥

व्याख्या

रुजा व्यथा । दृष्टिरागेण वीक्षणप्रेम्णा ॥ १७ ॥

विश्वास-प्रस्तुतिः

यथैव मां वनं यान्तमनुयातो महाद्युतिः ।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १९ ॥

मूलम्

यथैव मां वनं यान्तमनुयातो महाद्युतिः ।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ १८ ॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः ।
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ १९ ॥

व्याख्या

तथैव तेन प्रकारेण । मात्रादिस्नेहमविचार्येत्यर्थः । यमक्षयमित्यत्रापि यान्तमित्यनुषज्यते ॥ १८-१९ ॥

विश्वास-प्रस्तुतिः

सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।
परुषं विप्रियं वाऽपि श्रावितं तु कदाचन ॥ २० ॥

मूलम्

सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे ।
परुषं विप्रियं वाऽपि श्रावितं तु कदाचन ॥ २० ॥

व्याख्या

विप्रियं अहितं । सुरुष्टेनापि लक्ष्मणेन श्रावितं विप्रियं परुषं वाक्यं न स्मरामीत्यर्थः ॥ २० ॥

विश्वास-प्रस्तुतिः

विससर्जेकवेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २१ ॥

मूलम्

विससर्जेकवेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः ॥ २१ ॥

व्याख्या

यः कार्तवीर्यः सहस्रबाहुः एकेन वेगेन एकप्रयत्नेन । यावता कालेन पञ्चबाणशतानि विससर्ज प्रायुङ्क । द्विभुजोप्ययं लक्ष्मणः तावतैव कालेन तावतो बाणान् विसृजन् । इष्वस्त्रेषु विषये तस्मात्कार्तवीर्यादधिक इत्यर्थः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।
सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥ २२ ॥

मूलम्

अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः ।
सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥ २२ ॥

व्याख्या

हन्यात् हन्तुं शक्तः । शकि लिङ् ॥ २२ ॥

विश्वास-प्रस्तुतिः

यन्मया न कृतो राजा राक्षसानां विभीषणः ।
तच्च मिथ्या प्रलप्तं मां प्रवक्ष्यति न संशयः ॥ २३ ॥

मूलम्

यन्मया न कृतो राजा राक्षसानां विभीषणः ।
तच्च मिथ्या प्रलप्तं मां प्रवक्ष्यति न संशयः ॥ २३ ॥

व्याख्या

यत् यस्मात् विभीषणो राक्षासानां राजा न कृतः । तस्मात् मिथ्याप्रलप्तं राजानं त्वां करिष्यामीति मिथ्या प्रलपितं मां प्रधक्ष्यति । दहतीत्यर्थः । आश्रुतकार्यनिर्वाहाभावेन मिथ्येत्युच्यते । आश्रुतं प्रतिज्ञातम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि ।
मैत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २४ ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।
सागरं तर सुग्रीव नीलेन च नलेन च ॥ २५ ॥

मूलम्

अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि ।
मैत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली ॥ २४ ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः ।
सागरं तर सुग्रीव नीलेन च नलेन च ॥ २५ ॥

व्याख्या

प्रतियातुं किष्किन्धामिति शेषः । हीनं त्वामिति शेषः ॥ २४-२५ ॥

विश्वास-प्रस्तुतिः

कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे ।
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ २६ ॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च ।
युद्धं केसरिणा संख्ये घोरं संपातिना कृतम् ॥ २७ ॥
गवयेन गवाक्षेण शरभेण गजेन च ।
अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ।
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः ॥ २८ ॥

कृतमित्यादिसार्धश्लोकत्रयम् ॥ संपातिना वानरेण ॥२६-२८ ॥

विश्वास-प्रस्तुतिः

यत्तु शक्यं वयस्येन सुहृदा च पैरंतप ।
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ ३० ॥

मूलम्

यत्तु शक्यं वयस्येन सुहृदा च पैरंतप ।
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ २९ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ।
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ ३० ॥

व्याख्या

वयस्येन मित्रेण । सुहृदा च शोभनहृदयेन वा । चशब्दो वाशब्दार्थकः । धर्मभीरुणा धर्मो नश्यतीति भीरुणेत्यर्थः । अधर्मभीरुणेति वा पदच्छेदः ॥ २९–३० ॥

विश्वास-प्रस्तुतिः

शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम् ।
वर्तयाञ्चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१ ॥

मूलम्

शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम् ।
वर्तयाञ्चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ ३१ ॥

व्याख्या

वर्तयांचक्रुः प्रवर्तयां चक्रुः । कृष्णेतरेक्षणाः रक्तेक्षणा इत्यर्थः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः ।
आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ ३२ ॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।
वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥ ३३ ॥
[ निश्चेष्टौ विगतज्ञानौ रणरेणुसमुक्षितौ ।
शयानौ शरतल्पस्थौ द्रष्टुमायाद्विभीषणः ॥ ३४ ॥
तं राक्षसेन्द्रात्मजशङ्कया ते निपातितौ राजसुतौ च दृष्ट्वा ।
विभीषणं विव्यथिरे च दृष्ट्वा मेघा यथा वायुहताः लवङ्गमाः ॥ ३५ ॥ ]

तत इत्यादिश्लोकद्वयम् ॥ ३२-३५ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने एकोनपञ्चाशस्सर्गः ॥ ४९ ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने एकोनपञ्चाशस्सर्गः ॥ ४९ ॥