विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः
विषयाः
सुबेला चलस्थित्यालङ्कामवलोकमानेरामे पार्श्वस्थेनसुग्रीवेण लङ्कागोपुरराजोपचारै रामाभिमुखावस्थितरावणावलोकनम् ॥ १ ॥ तथाकोपादुत्प्लवेनरावणनिकटमेत्य तत्किरीट -पातनपूर्वकं तेनसहचिरंनियुद्धकरणम् ॥ २ ॥ तथा श्रान्तेनतेनमायोपक्रमे लाघवात्पुनाराम -पार्श्वगमनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोह ससुग्रीवो हरियूथपसंवृतः ॥ १ ॥
मूलम्
ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् ।उपारोह ससुग्रीवो हरियूथपसंवृतः ॥ १ ॥
व्याख्या
अथ सुग्रीवरावणयोर्द्वन्द्व युद्धकथनं चत्वारिंशे । अत्र प्रथमश्लोकः पूर्वोक्तानुवादः – तत इति ॥ योजनद्वयमण्डलं योजनद्वय विस्तारमण्डलम् ॥ १ ॥
विश्वास-प्रस्तुतिः
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ २ ॥
मूलम्
स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् ।त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा ।ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ २ ॥
व्याख्या
सुन्यस्तां सुष्ठु निवेशिताम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ३ ॥श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ॥ ४ ॥नीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ ५ ॥शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ ६ ॥
मूलम्
तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ ३ ॥श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् ।रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् ॥ ४ ॥नीलजीमूतसंकाशं हेमसंचादिताम्बरम् ।ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ ५ ॥शशलोहितरागेण सम्वीतं रक्तवाससा ।संध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ ६ ॥
व्याख्या
तस्यामित्यादि सार्धश्लोकत्रयमेकान्वयम् ॥ अत्र ददर्शेत्यनुषज्यते । श्वेते चामरे पर्यन्ते पार्श्वद्वये यस्य स श्वेतचामर पर्यन्तः । उभयतो वीज्यमानचामर इत्यर्थः । विजयच्छत्रं विजयसूचकछत्रं । रत्नाभरणं पद्मरागाभरणं । हेमसंछादिताम्बरं तत्र तत्र सुवर्णचित्राम्बरं । सुवर्णसूत्रिताम्बरमिति वार्थः । उत्कृष्टकिणवक्षसं उपपादितकिणवक्षसं । उत्कृष्टस्य उल्लिखितस्य किणः वक्षसि यस्य स तथेति वार्थः । शशलोहितरागेण शशरुधिरसमानरागेण । रक्तशब्दविवरणमिदं । रक्तवाससा उत्तरीयेण । संवीतं परिवीतम् ॥ ३ – ६ ॥
विश्वास-प्रस्तुतिः
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ७ ॥क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ८ ॥स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ॥ ९ ॥
मूलम्
पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः ।दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ ७ ॥क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च ।अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ ८ ॥स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना ।तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः ॥ ९ ॥
व्याख्या
हतं च रावणं संख्ये दर्शनादवधारय इति रामसन्निधौ पूर्वं प्रतिज्ञातमर्थं साधयितुमुत्थितः सुग्रीवइत्याहपश्यतामित्यादिना ॥ पश्यतामित्यनादरे षष्ठी । अत्रानादरणमनुक्त्वा गमनं । सप्तम्यर्थेषष्ठीना । दर्शनात् दर्शनमात्रात् । क्रोधवेगेन कथं मत्स्स्वामिनोग्रे स्वयं राजोपचारेण तिष्ठति दुरात्मेति कोपातिशयेनेत्यर्थः । सत्त्वेन मनोबलेन । बलेन कायबलेन । पुप्लुवे गोपुरमुद्दिश्येति शेषः ॥ गोपुरस्थले स्थित्वेत्यन्वयः । अन्तरात्मना मनसा ॥ ७ -९ ॥
विश्वास-प्रस्तुतिः
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसेद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ १० ॥इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥ ११ ॥
मूलम्
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस ।न मया मोक्यसेद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ १० ॥इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि ।आकृष्य मुकुटं चित्रं पातयामास तद्भुवि ॥ ११ ॥
व्याख्या
रामाभिप्रायेण सखा वस्तुतो दासोस्मीति भावः । मया मत्तः । औद्धत्यं परिहरति – पार्थिवेन्द्रस्य तेजसेति ॥ १० – ११ ॥
विश्वास-प्रस्तुतिः
समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः ।सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥ १२ ॥
मूलम्
समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः ।सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥ १२ ॥
व्याख्या
आयान्तं सुग्रीवमितिशेषः । परोक्षं ममासन्निधाने । त्वं सुग्रीवः शोभनग्रीवः । प्रत्यक्षं तु हीनग्रीवो भविष्यसीत्यर्थः ॥ १२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्तुवत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥ १३ ॥
मूलम्
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले ।कन्तुवत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ॥ १३ ॥
व्याख्या
तले गोपुरतले । आक्षिपत् अपातयत् । कन्तुवत्समुत्थाय कन्तुकवज्झटित्युत्पत्येत्यर्थः ॥ १३ ॥
विश्वास-प्रस्तुतिः
परस्परं स्वेदविदिग्धगात्रौ परस्परम् शोणितदिग्धदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौयथा ॥ १४ ॥मुष्टिप्रहारैश्च तलप्रहारै ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ॥ १५ ॥
मूलम्
परस्परं स्वेदविदिग्धगात्रौ परस्परम् शोणितदिग्धदेहौ ।परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौयथा ॥ १४ ॥मुष्टिप्रहारैश्च तलप्रहारै ररत्निघातैश्च कराग्रघातैः ।तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसेन्द्रौ ॥ १५ ॥
व्याख्या
परस्परमित्यादि श्लोकद्वयमेकान्वयम् ॥ आरम्भे दृढपरीरम्भेण स्वेद सिक्तगात्रौ । ततः खरतरनखक्षतेन शोणितलिप्त शरीरौ । ततो दृढालिष्टतया निरुद्धचेष्टौ निष्पन्दौ । ततः परस्परत्यागे कुसुमितशाल्मलीकिंशुकाविव स्थितौ । तौ वानरराक्षसेन्द्रौ । मुष्टिप्रहारैः । मुष्टीनां व्यथायां तलप्रहारैः । तत्पीडायां अरनिघातैः निष्कनिष्ठमुष्टियुक्तप्रकोष्ठप्रहारैः । अरत्निस्तु निष्कनिष्ठेन मुष्टिना इत्यमरः । तद्बाधायां कराग्रघातैः । असह्यरूपं अत्यन्तासां । प्रशंसायां रूपप्प्रत्ययः । युद्धं चक्रतुः ॥ १४ – १५ ॥
विश्वास-प्रस्तुतिः
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चात्क्षिप्य विनम्य देहौ पादक्रमाद्गोपुरवेदिलग्नौ ।अन्योन्यमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ॥ १६ ॥
मूलम्
कृत्वा नियुद्धं भृशमुग्रवेगौ कालं चिरं गोपुरवेदिमध्ये ।उत्क्षिप्य चात्क्षिप्य विनम्य देहौ पादक्रमाद्गोपुरवेदिलग्नौ ।अन्योन्यमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ॥ १६ ॥
व्याख्या
कृत्वेत्यादिसार्धश्लोक एकान्वयः ॥ नियुद्धं मल्लयुद्धं बाहुयुद्धं वा । नियुद्धं बाहुयुद्धं स्यात् इत्यमरः । गोपुरवेदिमध्ये चिरं कालं नियुद्धं कृत्वा । तत उत्क्षिप्य परस्परमूर्ध्वं क्षिप्त्वा । आक्षिप्य आकृष्य । परस्परंदेहौ विनम्य विनाम्य । पादक्रमात् पादविन्यासविशेषात् । गोपुरवेदिलग्नौ पदात्पदं पश्चाच्चलित्वा पुनर्युद्धार्थमवसरप्रतीक्षतया गोपुरवेदिकायां निश्चलंस्थितावित्यर्थः । आविध्य बाहुभ्यां संवेष्टय । विलग्नदेहौ लिष्टदेहौ सन्तौ । सालनिखातयोः प्राकारपरिखयोर्मध्ये पेततुः ॥ १६ ॥
विश्वास-प्रस्तुतिः
उत्पेततुर्भूमितलमस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ।आलिङ्ग्य चावल्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ ॥ १७ ॥
मूलम्
उत्पेततुर्भूमितलमस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ ।आलिङ्ग्य चावल्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ ॥ १७ ॥
लाघवातिशयेन भूतलमस्पृष्ट्वैव उत्पेततुः । ततो मुहूर्तं तूष्णीं स्थित्वा श्रमवशादभिनिश्वसन्तौ पुनरालिङ्ग्य स्वयमेव स्वशरीरमालिङ्ग्य । आवल्ग्य आप्लुत्य । बाहुयोक्त्रैः बाहुपाशैः संयोजयामासतुः । देहाविति शेषः । निबिडं बबन्धतुरित्यर्थः ॥ १७ ॥
संरम्भशिक्षाबलसम्प्रयुक्तौ सुचेरतुः सम्प्रति युद्धमार्गैः ।शार्दूलसिंहविव जातदर्पौ गजेन्द्रपोताविव संप्रयुक्तौ ॥ १८ ॥संहत्य चापीड्य च तावुरोभ्यां निपेततुर्वै युगपद्धरण्याम् ।उद्यम्य चान्योन्यमधिक्षिपन्तौ संचक्रमाते बहु युद्धमार्गैः ॥ १९ ॥
संरम्भेति । संरम्भः अभिनिवेशः । शिक्षा अभ्यासः । बलं शक्तिः । एतैः संप्रयुक्तौ संयुक्तौ सन्तौ संप्रति युद्धमार्गैः चातुर्येण परस्परग्रहणानुकूलकमैरित्यर्थः । संप्रति तदानीमित्यर्थ इत्येके । शार्दूलसिंहौ शार्दूलश्रेष्ठौ । संप्रयुक्तौ सन्तौ गजेन्द्रपोतौ कलभौ । संहत्य संयोज्य । उरोभ्यामन्योन्यमापीड्य धरण्यां युगपन्निपेततुः । अथ उद्यम्य उद्धृत्य । अघिक्षिपन्तौ पातयन्तौ । एवं बहुयुद्धमार्गैः बहुयुद्धप्रकारैः । संचक्रमाते संचेतुः ॥ १८ – १९ ॥
व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ ।बाहुत्तमैर्वारणवारणाभै र्निवारयन्तौ वरवारणाभौ ॥ २० ॥
खुरल्यां श्रमजयाय कृतोभ्यासो व्यायामः तद्रूपा या शिक्षा तद्बलेन तदतिशयेन संप्रयुक्तौ संयुक्तौ । वार्यन्ते एभिरिति वारणाः आलानस्तम्भाः । वारणवारणाभैः बाहूत्तमैः अन्योन्यमाशु निवारयन्तावपि क्लमं श्रमं । न जर्मतुः ॥ २० ॥
चिरेण कालेन तु संप्रयुक्तौ संचेरतुर्मण्डलमार्गमाशु ॥ २१ ॥
चिरेणेत्यर्धम् ॥ चिरेणकालेन बहुकालेन । संप्रयुक्तौ युध्यमानौ तौ । मण्डलमार्गं चक्राकारमार्गं । चेरतुः चक्रतुरित्यर्थः । अयं च वक्ष्यमाणमार्गान्तराणामप्युपलक्षणम् ॥ २१ ॥
तौ परस्परमासाद्य यत्तावन्योन्यसूदने ।मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः ॥ २२ ॥
तदेव प्रपञ्चयति–तावित्यादिना । परस्परमासाद्य अन्योन्यसूदने अन्योन्यहिंसने । यत्तौ यत्नवन्तौ । भक्ष्यत इति भक्षः भक्ष्यद्रव्यं । तदर्थे तन्निमित्तं । मार्जाराविव वितस्थाते विशेषेण तस्थतुः । समवप्रविभ्यःस्थः इत्यात्मनेपदं । भक्षग्रहणदत्तावधानौ मार्जाराविव निश्चलं तस्थतुरित्यर्थः । मुहुर्मुहुरित्यनेन मध्येमध्ये मण्डलादिसंचारो व्यज्यते ॥ २२ ॥
मण्डलानि विचित्राणि स्थानानि विविधानि च ।गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ॥ २३ ॥तिरश्चीनगतान्येव तथा वक्रगतानि च ।परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ २४ ॥अभिद्रवणमाप्लावमास्थानं च सविग्रहम् ।परावृत्तमपावृत्तमवद्रुतमवप्लुतम् ॥ २५ ॥उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ ।तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ २६ ॥
मण्डलानीत्यादि चतुःश्लोक्येकान्वया ॥ मण्डलानि परि भ्रमणविशेषान् । यथाहभरतः । एकपादप्रचारो यः स चारीत्यभिधीयते । द्विपादक्रमणं यत्तु करणं नाम तद्भवेत् ॥ करणानां समायोगात्खण्डमित्यभिधीयते । खण्डैस्त्रिभिश्चतुर्भिर्वा संयुक्तं मण्डलं भवेत् इति । विचित्राणि सव्यमपसव्यं सव्यापसव्यमर्ध- भ्रमणमित्यादिभेदाद्भिन्नानि । स्थानानि व्याघ्रसिंहादितुल्यावस्थानानिवैष्णवादिस्थानानि । पादयोः पूर्वापरतिर्यग्विक्षेपादिका विन्यासविशेषा इतियावत् । तदाहभरतः – वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथालीढं स्थानान्येतानि षण्नृणां – इति पञ्चेति धनुर्वेदे । एषां लक्षणादिकथने ग्रन्थगौरवं स्यादिति तन्नाद्रियते । गोमूत्रिकाणि गोमूत्रस रणिसदृशानि गमनानि । गोमूत्रशब्दात्तदाकारगमनवाचकान्मत्वर्थे उन्प्रत्ययः । गोमूत्रिकाणां चित्रत्वं गमनागमनादिभेदात् । गतप्रत्यागतानि उपसर्पणापसर्पणानि । एते उभयगतिप्रचारभेदाः । तिरश्चीनगतानि तिर्यग्गमनानि । वक्रगतानि सव्यापसव्यसं चरणानि । परिमोक्षं स्थानचालनेन प्रहाराणां मोघ करणं । वर्जनं प्रतिप्रयोगेन परिहरणं । परिधावनं एकस्य तिष्ठतः समन्तादन्यस्य गमनागमनं । अभिद्रवणं आभिमुख्येन शीघ्रं गमनं । आप्लावं अल्पाङ्गत्वानल्पाङ्गत्वादिभिर्विनम्य गमनं । ईषद्गमनं वा । मण्डूकवद्गमनमित्यर्थः । आस्थानं च सविग्रहं विग्रहसहितमास्थानं । विगृह्य केवलासनं प्रगृह्य निर्भयावस्थानमिति वार्थः । परावृत्तं पराङ्मुखगमनं । अपावृत्तं स्थित्वैव पश्चाच्चलनं । अबदुतं जिघृक्षया शरीरं संकुच्यावनम्य गमनं । अवप्लुतं प्रतियोधिनं पादेन प्रहर्तुमधोमुखेन प्लवनं । उपन्यस्तं प्रतियोधिबाहुग्रहणार्थं स्वबाहुप्रसारणं । अपन्यस्तं प्रतियोधिग्रहणवञ्चनार्थं स्वबाह्वोरपक्षेपणं । एवं खङ्गविद्यामलशास्त्रादिषूपदिश्यते । तत्तन्निदर्शने नितान्तं ग्रन्थगौरवं स्यात् । अतस्तदुपेक्ष्यते ॥ २३ – २६ ॥
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः ।आरब्धुमुपसंपेदे ज्ञात्वा तं वानराधिपः ॥ २७ ॥उत्पपात तदाकाशं जितकाशी जितक्लमः ।रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ २८ ॥
एतस्मिन्नित्यादिश्लोकद्वयमेकान्वयम् ॥ अन्तरे अवकाशे । मायाबलं परितोनेकरावण -प्रदर्शनं । आरब्धमुपसंपेदे कर्तुमुपचक्रमे । तं मायोपक्रमं । जितेन जयेन काशते प्रकाशत इति जितकाशी । रावणस्य मायावलोपक्रम एव निर्मायं युध्यमानस्य सुप्रीवस्य जय इति ज्ञेयं । जितक्कुमः जितश्रमः । बलिना चिरं मल्लयुद्धकरणादिति भावः । अत्र प्रासादे स्थित एवं रावणो वञ्चितः पुनरागमने प्रतारितः ॥ २७–२८ ॥
अथ हरिवरनाथः प्राप्त संग्रामकीर्तिं निशिचरपतिमाजौ योजयित्वा श्रमेण ।
गगनमतिविशालं लङ्घयित्वार्कसूनु र्हरिवरगणमध्ये रामपार्श्वं जगाम् ॥ २९ ॥
हरिवरनाथः क्षणेन रावणहरणार्ह परिकरनियन्ता । रामभक्तिरेव स्वयं- रावणहरणार्हपरिकरनियन्ता मनहेतुरिति भावः । प्राप्य संग्रामकीर्ति । रामस्य युद्धादागतां कीर्तिं स्वयमाजहारेति भावः । निशिचरपतिं । तत्सदृशेष्वनेकेषु विद्यमानेष्वपि तां- स्तृणीकृत्य तेनैव युद्धं कृतवानितिभावः । आजौ । रावणवन्न छद्म युद्धकृत् किन्तु मर्यादयेति भावः । योजयित्वा श्रमेण इतः पूर्वं तदज्ञातेन श्रमेण योजयित्वा । योजनं हि पूर्वमसंभावितस्यैव रावणस्य श्रमफलं । आत्मनस्तु कीर्तिरितिभावः । गगनमतिविशालं लङ्घयित्वाऽर्कसूनुः स्वस्यादित्यपुत्रत्वज्ञापनायाकाशमयत्नेनालङ्घयत् । अर्कसूनुः अज्ञातगमनवेगः । हरिवरगणमध्ये विनयेन स्वातिशयमप्रकाशयन् वानरेष्वन्यतमइति स्थितः । रामपार्श्वं जगाम रावणशिरोऽनादायागतोहं कथमस्याग्रे तिष्ठेयमिति पार्श्वे स्थितः । निशिचरपतिं श्रमेण योजयित्वा जगामेत्यनेन रामस्य प्रतिज्ञाहानिर्मा प्रसांक्षीदिति रावणमहत्वैवागत इति सूचितम् । मायाप्रयोगारम्भे समागमनं स्वेनापि मायाप्रयोगे रामस्य कोपः स्यादित्याशयात् ॥ २९ ॥
इति स सवितृसूनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत्संप्रहृष्टः ।रघुवरनृपसूनोर्वर्धयन्युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ ३० ॥
रघुवरनृपसूनोः रामस्य । तरुमृगगणमुख्यैः वानरगणमुख्यैः ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥