विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः
विषयाः
रात्रौसुग्रीवादिभिःसहसुवेले सुखोषितेनरामेण प्रातलंङ्कावलोकनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः ।
लङ्कायां ददृशुर्वीर वनान्युपवनानि च ॥ १ ॥
मूलम्
तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः ।
लङ्कायां ददृशुर्वीर वनान्युपवनानि च ॥ १ ॥
व्याख्या
अथ लङ्कादर्शनमेकोनचत्वारिंशे — तामिति ॥ ता रात्रिमित्यत्यन्तसंयोगे द्वितीया । ददृशुः प्रातरिति सिद्धं । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि ॥ १ ॥
विश्वास-प्रस्तुतिः
समसौम्यानि रम्याणि विशालान्यायतानि च ।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ २ ॥
मूलम्
समसौम्यानि रम्याणि विशालान्यायतानि च ।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ २ ॥
व्याख्या
समानि च तानि सौम्यानि च समसौम्यानि निम्नोन्नतत्वरहितानि स्निग्धानि चेत्यर्थः । अत एव रम्याणि रमणीयानि । विशालानि विपुलानि । आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्षणानि । वनान्युपवनानि चेत्याकृष्यान्वयः ॥ २ ॥
विश्वास-प्रस्तुतिः
चम्पकाशोकपुंनागसालतालसमाकुला ।
तमालवनसंछन्ना नागमालासमावृता ॥ ३ ॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।
तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥ ४ ॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥
मूलम्
चम्पकाशोकपुंनागसालतालसमाकुला ।
तमालवनसंछन्ना नागमालासमावृता ॥ ३ ॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।
तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥ ४ ॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ ५ ॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः ।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ ६ ॥
व्याख्या
चम्पकेत्यादि श्लोकचतुष्टयमेकान्वयम् ॥ नागमाला नागकेसरमाला । हिन्तालैरित्यादि । उपलक्षितेतिशेषः । दिव्यैः पारिजातादिभिः । अत्राप्युपलक्षितेतिशेषः । विचित्रेत्यादि पदद्वयमपि दिव्यद्रुमविशेषणं । शाद्वलैरित्यादावप्युपलक्षणे तृतीया । लङ्काशब्दश्चात्र सुवेलपरः । उत्तरत्र वानरप्रवेशोक्तेः । शुशुभे शोभमाना दृश्यत इत्यन्वयः ॥ ३–६ ॥
विश्वास-प्रस्तुतिः
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ७ ॥
मूलम्
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च ।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ ७ ॥
व्याख्या
तत्र वनेषु । धारयन्ति अधारयन् । अगमाः वृक्षाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् ।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ ८ ॥
मूलम्
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम् ।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ ८ ॥
व्याख्या
सर्वे ऋतवो यस्मिन् तत्सर्वतुंक । शेषाद्विभाषा ” इति कप्प्रत्ययः । षट्पदायुतं षट्पदैरासमन्ताद्युतं ।॥ ८ ॥
विश्वास-प्रस्तुतिः
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।
रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ ९ ॥
मूलम्
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः ।
रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ ९ ॥
व्याख्या
वननिर्झरे नत्यूहैः कोयष्टिभकैः जलकुकुटविशेषैः । नृत्यमानैः नृत्यद्भिः। बर्हिणैश्च सहितानां परभृतानां रुतं शुश्रुवुरिति योजना ॥ ९ ॥
विश्वास-प्रस्तुतिः
नित्यमत्तविहङ्गानि भ्रमराचरितानि च ।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १० ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥
विविशुस्ते ततस्तानि वनान्युपवनानि च ।
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥
तेषां प्रविशतां तत्र वानराणां महौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ १३ ॥
मूलम्
नित्यमत्तविहङ्गानि भ्रमराचरितानि च ।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ १० ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च ।
कोणालकविघुष्टानि सारसाभिरुतानि च ॥ ११ ॥
विविशुस्ते ततस्तानि वनान्युपवनानि च ।
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ १२ ॥
तेषां प्रविशतां तत्र वानराणां महौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ १३ ॥
वनरामणीयकाकृष्टास्तत्रविविशुरित्याह-नित्येत्यादिना कामरूपिण इत्यन्तेन श्लोकत्रयेण ॥ विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः । षण्डाः वृक्षसमूहाः। विहङ्गभृङ्गसंचारस्य तन्नादस्य च वनशोभाहेतुत्वात्तत्संचारमुक्त्वा तन्नादमाह – विहगेत्यादिना । विहगानामभिरुतं येषु तानि विगाभिरुतानि । एवमुत्तरत्रापि विग्रहः । कोणालकः खञ्जनः । सारसाभिरुतानीत्यनेन वनादीनां सरःसमीपवर्तित्वमुक्तं । हृष्टाः पुलकिताः । प्रमुदिताः सन्तुष्टाः । वीराः शत्रुवनप्रवेशेपि निर्भयाः । कामरूपिणः सूक्ष्मविपुलप्रवेशानुगुणस्थूलसूक्ष्मशरीरवन्तः ॥ १०-१३ ॥
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः ।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ १४ ॥
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् ।
कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः ।
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम् ॥ १५ ॥
अन्येत्वित्यादिसार्धश्लोकद्वयमेकान्वयम् ॥ १४-१५ ॥
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥ १६ ॥
रजश्चेत्यर्धमेकं वाक्यम् ॥ चरणोत्थितं वानरपादाहतिजनितं । रजः ऊर्ध्वं जगाम । उत्थितमित्यर्थः ॥ १६ ॥
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः ।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ १७ ॥
अत्र ऋक्षादयो लङ्कावनवासिनः । भीताः दर्शनादेव भीताः । तेन शब्देन वित्रस्ताः विशेषेण त्रस्ताः । दश दिशो जग्मुः । यथायथं जग्मुरित्यर्थः ॥ १७ ॥
शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।
समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ॥ १८ ॥
शतयोजनविस्तीर्णं विमलं चारुदर्शनम् ।
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि ।
मनसापि दुरारोहं किं पुनः कर्मणा जनैः ॥ १९ ॥
एवं त्रिकूटस्य प्रथमशिखरं सुवेलाख्यमुक्त्वा मध्यमशिखरं वर्णयति—शिखरं तदित्यादिना ॥ सार्धश्लोकद्वयमेकान्वयं । तत् प्रसिद्धं । प्रांशु पार्श्ववर्तिशिखरद्वयापेक्षया उन्नतं । एकं अद्वितीयं । मध्यममित्यर्थः । स्पृशतीति स्पृशं । इगुपधलक्षणः कप्रत्ययः । समन्तात्पुष्पसंछन्नं अतएव महारजतसन्निभं पृथुरजत सन्निभं । यद्वा सुवर्णसन्निभमिति स्वरूपोक्तिः । चारुदर्शनं सुन्दरदर्शनं । एवंभूतं शिखरं अदृश्यतेत्यध्याहारः ॥ १८-१९ ॥
निविष्टा तत्र शिखरे लङ्का रावणपालिता ।
शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥ २० ॥
निविष्ठेत्यादिश्लोकपञ्चकमेकान्वयम् ॥ २० ॥
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः ।
काञ्चनेन च सालेन राजतेन च शोभिता ॥ २१ ॥
सालेन प्राकारेण ॥ २१ ॥
प्रासादैश्च विमानैश्च लङ्का परमभूषिता ।
घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ २२ ॥
प्रासादैरिति । प्रासादादिलक्षणं प्रागेव लिखितं । आतपापाये वर्षारम्भसमये । मध्यमं वैष्णवं पदमिति । त्रिविक्रमावतारे त्रिभिः पदैः सर्वलोक्रक्रमणे मध्यमपदेनान्तरिक्षं क्रान्तमिति आकाशं मध्यमं वैष्णवं पदमिति उच्यते ॥ २२ ॥
यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः ।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ २३ ॥
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् ।
बलेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ २४ ॥
उल्लिखन् व्याप्नुवन् नगरमध्यचतुष्पथं चैत्यं तत्र भवश्चैत्यः राक्षसेन्द्रस्य पुरभूषणमित्यन्वयः । यः समग्रेण रक्षसां शतेन नित्यं रक्ष्यते । यश्च राक्षसेन्द्रस्य पुरभूषणं बभूव । स्तम्भसहस्रेण समलंकृतः कैलासशिखराकारः खमुल्लिखन्निव स्थितः चैत्यः स प्रासादः यस्यां दृश्यते तादृशी रावणपालितत्वादिविशेषणविशिष्टा तत्र शिखरे निविष्टा लङ्का अदृश्यतेत्यध्याहारेणान्वयः ॥ २३-२४ ॥
मनोज्ञां काननवतीं पर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ २५ ॥
एवं वानराणामग्रगतानां लङ्कादर्शनमुक्त्वा रामस्यापि तदर्शनमाह – मनोज्ञामित्यादिश्लोकत्रयमेकान्वयम् ॥ पर्वतैः क्रीडाशैलै ः । नानाधातुविचित्रैरिति पर्वतविशेषणं । उद्यानैः कृत्रिमवनैः ॥ २५ ॥
नानाविहगसंघुष्टां नानामृगनिषेविताम् ।
नानाकाननसंतानां नानाराक्षससेविताम् ॥ २६ ॥
नानाकाननेति पूर्वं काननवत्त्वमुक्तं अत्र तन्नानात्वमितिमिदा ॥ २६ ॥
तां समृद्धां समृद्धार्थां लक्ष्मीवाँलक्ष्मणाग्रजः ।
रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ २७ ॥
समृद्धां उन्नतां । समृद्धार्थां समृद्धद्रव्यां । लक्ष्मीवान् नगरदर्शनजप्रीतिविकसितकान्तिः ॥ २७ ॥
तां महागृहसंबाधां दृष्ट्वा लक्ष्मणपूर्वजः ।
नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ॥ २८ ॥
अमरप्रख्यः देवसदृशः ॥ २८ ॥
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च ।
पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ २९ ॥
पुनःसंग्रहेणाह- तामिति ॥ रत्नानि श्रेष्ठवस्तूनि । संविधानं रक्षणम् ॥ २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥ ३९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एको- नचत्वारिंशः सर्गः ॥ ३९ ॥