विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः
विषयाः
सीतया मायानिर्मितशिरसि सादृश्याद्रामशिरस्त्वप्रत्यभिज्ञानेन शोकाद्वहुधाविलापः ॥ १ ॥ अत्रान्तरे प्रहस्तप्रहितदूतान्हानेन रावणापयाने मायाशिरसोऽन्तर्धानम् ॥ २ ॥ राक्षसैरावणप्रेरणया रणभेरीवादनेन सेनासंनाहनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥
मूलम्
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ १ ॥
व्याख्या
अथ सीताप्रलापो द्वात्रिंशे–सा सीतेत्यादिश्लोकत्रयमेकं वाक्यम् ॥ हनुमता पूर्वं कथितं । सुग्रीवप्रतिसंसर्ग रामस्य सुग्रीवप्रतिसंबन्धं । रावणमुखाच्छ्रुत्वेतिशेषः । यद्वा दृष्ट्वा ज्ञात्वेत्यर्थः । ज्ञानं च सुग्रीवप्रतिसंबन्धस्य स्मरणं । अन्यत्र साक्षात्कारः ॥ १ ॥
विश्वास-प्रस्तुतिः
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ।
केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥
मूलम्
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् ।
केशान्केशान्तदेशं च तं च चूडामणिं शुभम् ॥ २ ॥
व्याख्या
नयने इति द्वितीया । भर्तुः सदृशं । भर्तुर्मुखसदृशमित्यर्थः । इदं नयनादावण्यन्वेति । केशान्तदेशं ललाटम् ॥ २ ॥
विश्वास-प्रस्तुतिः
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।
विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥
मूलम्
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता ।
विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा ॥ ३ ॥
व्याख्या
अभिज्ञानैः चिह्नैः । प्रज्ञानं चाप्यभिज्ञानं इत्यमरः । अभिज्ञाय तदेव शिर इति प्रत्यभिज्ञायेत्यर्थः । अत्र रामविषये ॥ ३ ॥
विश्वास-प्रस्तुतिः
सकामा भव कैकेयि हतोऽयं कुलनन्दनः ।
कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥
मूलम्
सकामा भव कैकेयि हतोऽयं कुलनन्दनः ।
कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ ४ ॥
व्याख्या
हे कैकेयि सकामा भव । संपूर्णकामाभवेत्यर्थः । कः काम इत्यत्राह —हत इति । कलहशीलया कलहस्वभावया । कलहप्रयोजनयेतियावत् । त्वया सर्वं कुलं रघुवंशः । उत्सादितं भवति । तथा कुलनन्दनोयं रामो हतः । प्रव्राजनव्याजेन रामहननमेव त्वया संकल्पितं तदिदानीं विपरीतफलं ते जातं । कुलतन्तुभूतरामहननेन तदेकपराः सर्वे भरतादयो हता एव । कलह एव ते प्रयोजनं फलितमितिभावः ॥ ४ ॥
विश्वास-प्रस्तुतिः
आर्येण किं ते कैकेयि कृतं रामेण विप्रियम् ।
यन्मया चीरवसनस्तया प्रस्थापितो वनम् ।
[ इदानीं स हि धर्मात्मा राक्षसैश्च कथं हतः ॥ ५ ॥ ]
मूलम्
आर्येण किं ते कैकेयि कृतं रामेण विप्रियम् ।
यन्मया चीरवसनस्तया प्रस्थापितो वनम् ।
[ इदानीं स हि धर्मात्मा राक्षसैश्च कथं हतः ॥ ५ ॥ ]
व्याख्या
हेत्वन्तराभावादिदमेव रामवनप्रव्राजने हेतुरित्याह-आर्येणेति ॥ आर्येण सर्वप्रियकारिणेत्यर्थः । यत् येन कारणेन । मया सह चीरवसनो रामः प्रस्थापितः तादृशं विप्रियं किं कृतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ।
जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥
मूलम्
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी ।
जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥
व्याख्या
तपस्विनी शोचनीया । जगतीं भूमिं । जगाम । मूच्छितेत्यर्थः । बाला मृदुबुद्धिरित्यर्थः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् ।
तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥
मूलम्
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् ।
तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥
व्याख्या
समाश्वास्य उच्छ्रासं प्राप्य । चेतनांज्ञानं । आयतेक्षणा अश्रुमिश्रत्वेन शिरोवलोकनार्थं विस्तृतविलोचनेत्यर्थः ॥ ७ ॥
विश्वास-प्रस्तुतिः
हा हतास्मि महाबाहो वीरव्रतमनुव्रता ।
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥
मूलम्
हा हतास्मि महाबाहो वीरव्रतमनुव्रता ।
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥
व्याख्या
वीरव्रतं शत्रुमहत्वा न निवर्तिष्य इति संकल्पं । अनुव्रत अनुप्राप्त । गतास्मि दृष्टवत्यस्मि । गत्यर्था ज्ञानार्थाः इति न्यायात् । अतो विधवा कृता ॥ ८ ॥
विश्वास-प्रस्तुतिः
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते ।
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥
मूलम्
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते ।
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥
व्याख्या
प्रथमं भर्तुर्मरणं भार्यादोषनिमित्तकं भवति तत्त्वत्र न पश्यामीत्याह – प्रथममिति ॥ प्रथमं भर्तुर्मरणं नार्या वैगुण्यं वैगुण्यहेतुकं । सुवृत्तस्त्वं साधुवृत्ताया ममाग्रतः संवृत्तः मृतः । कथमिदं संगच्छत इति भावः । अस्मिन्पक्षे न सुवृत्तपदस्वारस्यं । यद्वा भवन्मरणस्य मद्दोष एव हेतुरित्याह- प्रथममिति । विगुण एव वैगुण्यं । स्वार्थे ष्यञ् । प्रथमं भर्तृमरणं भार्यादोषनिमित्तकमिति सुप्रसिद्धं । अतो हे सुवृत्त साधुवृत्त । साधुवृत्तायाः सम्यग्जीवनवत्याः । ममाप्रतस्त्वं मृतोसि । मद्वैगुण्यहेतुकं त्वन्मरणमितिभावः । सुवृत्तेत्यनेन त्वद्वैगुण्यहेतुकं न भवतीति ज्ञापितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ।
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥
मूलम्
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे ।
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ १० ॥
व्याख्या
स्वस्य वैगुण्यसद्भावे निदर्शनमाह-दुःखादिति ॥ दुःखाहुः खं अत्यन्तदुःखं । प्रपन्नायाः वन प्रस्थानं प्रथमं दुःखं तस्मादपिदुःखं रावणेनापहरणं तत् प्राप्तायाइत्यर्थः । संप्रति भर्तृमरणेन शोकसागरे निमग्नायाः । इयं च षष्ठी यस्य च भावेन भावलक्षणम् इत्यस्मिन्नर्थे । शोकसागरे मग्नायाः शोकसागरे मग्नायां मयि । दुःखाहुःखं प्रपन्नायाः प्रपन्नायां सत्यां । यो मां त्रातुमुद्यतः स त्वमपि विनिपातित इति संबन्धः ॥ १० ॥
विश्वास-प्रस्तुतिः
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ।
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥
मूलम्
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव ।
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ ११ ॥
व्याख्या
न केवलं ममैवदुःखं मातुश्चेत्याह—सेति ॥ सा मम श्वश्रूः कौसल्या वत्सला धेनुर्यथा धेनुरिव । त्वया हतेन पुत्रेण वत्सेनेव विवत्सा कृता ॥ ११ ॥
विश्वास-प्रस्तुतिः
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ।
अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥
मूलम्
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम ।
अनृतं वचनं तेषामल्पायुरसि राघव ॥ १२ ॥
व्याख्या
यैः ब्राह्मणैः । दीर्घमा युरित्यादिष्टं उपदिष्टं । तेषां वचनमनृतमासीत् । अनृतत्वे हेतुमाह-अल्पायुरसीति । अचिन्त्यपराक्रमेत्यनेन ते पराक्रमं दृष्ट्वा तैरुक्तं नतु शास्त्रं दृष्ट्वेति गम्यते ॥ १२ ॥
विश्वास-प्रस्तुतिः
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ।
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥
मूलम्
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव ।
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् ॥ १३ ॥
व्याख्या
अथवा तेषामनृतवादित्वं नास्त्येव किंतु तवैवभाग्यविपर्यासात्तेषामपिप्रज्ञानष्टेति पक्षान्तरमवलम्बते—अथवेति ॥ प्रभवत्यस्मादिति प्रभवः । भूतानां कारणभूतः । अयं कालः परमात्मा । यथा येन प्रकारेण । एनं पचनविषयभूतं । पचति पक्वकमागणं करोति । तथा प्राज्ञस्य भविष्यदर्थवेदिनोपि । सतः सत्पुरुषस्य । प्रज्ञा । तव त्वयि विषये । नश्यति नष्टेत्यर्थः । यद्वा पूर्वमचिन्त्यपराक्रमेति तव कथं विपत्तिरित्यभिप्रायेण संबोधितं । तत्र पक्षान्तरमाह— अथवेति ॥ एनं रामं । येन प्रकारेण कालः पचति । तथास्य प्राज्ञस्यापि प्रज्ञा नश्यति । अतो विपत्तिरियमिति भावः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ।
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥
मूलम्
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् ।
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ १४ ॥
व्याख्या
हि यस्माद्व्यसनानां वर्जने प्रतिरोधे । कुशलोसि । अतः अदृष्टं अचिन्तितं सौप्तिकत्वेनादृष्टं वा मृत्युं । कस्मादापन्नः कथमापन्नोसीत्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
तथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया ।
कालरात्र्या ममाच्छिद्य हृतः कमललोचनः ॥ १५ ॥
मूलम्
तथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया ।
कालरात्र्या ममाच्छिद्य हृतः कमललोचनः ॥ १५ ॥
व्याख्या
रौद्रया क्रूरया । कालरात्र्या यस्यां रात्रौ समुद्रतीरे निविष्टोसि तया रात्र्या । संपरिष्वज्य । मम मत्तः । आच्छिद्य अपहृत्य । तथा हृतोसीति संबन्धः । यद्वा मयेति पाठः । रौद्रया अतिनृशंसया । अत्यन्तनिर्दयया कालरात्र्या कर्त्र्या मया करणभूतया । संपरिष्वज्य आच्छिद्य बलात्कृत्य । तथा हृत इति । कालरात्रिर्नाम सर्वभूतापहारिणी काचन शक्तिः । यद्वा मया कालरात्र्येति व्यस्तरूपकं । संपरिष्वज्य त्वमाच्छिद्य बलाद्धृतोसीति । घोरवैधव्यलक्षणयुक्तत्वेन क्रूराया मे परिष्वङ्ग एव तेऽन्तहेतुरासीदित्यर्थः । शिरश्छेदारलीलत्वेन तथेत्युक्तं । कमललोचनेति हेतुगर्भ । कमललोचनत्वात् त्वं कालरात्र्या हृतोसि । परिकरानुप्राणितरूपकालङ्कारः ॥ १५ ॥
विश्वास-प्रस्तुतिः
उपशेषे महाबाहो मां विहाय तपस्विनीम् ।
प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६ ॥
मूलम्
उपशेषे महाबाहो मां विहाय तपस्विनीम् ।
प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६ ॥
व्याख्या
तपस्विनीं शोचनीयां । प्रियां मत्तः प्रियां । पुरुषर्षभेत्यनेन दक्षिणस्य शठत्वमनुचितमिति द्योत्यते ॥ १६ ॥
विश्वास-प्रस्तुतिः
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव ।
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥
मूलम्
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव ।
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् ॥ १७ ॥
व्याख्या
मया सह । तव त्वया । यदर्चितं तत्ते धनुः इदं एतादृशं जातमित्यर्थः ॥ १७ ॥
विश्वास-प्रस्तुतिः
पित्रा दशरथेन त्वं श्वशुरेण ममानघ ।
सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥
मूलम्
पित्रा दशरथेन त्वं श्वशुरेण ममानघ ।
सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ १८ ॥
व्याख्या
सर्वैः पितृभिः सार्धं स्थितेन दशरथेन । समागत इति संबन्धः ॥ १८ ॥
विश्वास-प्रस्तुतिः
दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् ।
पुण्यं राजर्षिवंशं त्वमात्मनः समपेक्षसे ॥ १९ ॥
मूलम्
दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् ।
पुण्यं राजर्षिवंशं त्वमात्मनः समपेक्षसे ॥ १९ ॥
व्याख्या
महत्कर्मकृतां महाकर्मकृतां । आत्वाभाव आर्षः । प्रियं कर्मफलत्वेन काङ्क्षणीयं । पुण्यं आत्मनो राजर्षिवंशं इक्ष्वाकुप्रमुखं । दिवि नक्षत्रभूतः विमानस्थः सन् समवेक्षसे पश्यसि ॥ १९ ॥
विश्वास-प्रस्तुतिः
किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे ।
बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥
मूलम्
किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे ।
बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥
व्याख्या
बालां बाल्येन संप्राप्तां । बाल्य एव त्वयोढामित्यर्थः । भार्या सदा भर्तुं योग्यां । मां एतादृशावस्थामा पन्नां सहचारिणीं । मां किं न प्रेक्षसे किं न प्रतिभाषस इति संबन्धः ॥ २० ॥
विश्वास-प्रस्तुतिः
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ।
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥
मूलम्
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया ।
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥
व्याख्या
मम पाणि गृह्णता त्वया चरिष्यामि सहचरिष्यामीति यत् संश्रुतं प्रतिज्ञातं । तत् स्मर । स्मृत्वा मामपि त्वत्समीपं नय ॥ २१ ॥
विश्वास-प्रस्तुतिः
कस्मान्मामपहाय त्वं गतो गतिमतां वर ।
अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ २२ ॥
मूलम्
कस्मान्मामपहाय त्वं गतो गतिमतां वर ।
अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् ॥ २२ ॥
व्याख्या
त्यक्त्वा त्वां विहाय । दुःखितां मामपि प्रेयसीमपि मां । अपहाय अस्माल्लोकात् अमुं लोकं परलोकं । कस्माद्धेतोः गतोसि ॥ २२ ॥
विश्वास-प्रस्तुतिः
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ।
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥
मूलम्
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु ।
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ २३ ॥
व्याख्या
यदित्यर्थे यत्तदित्यपि प्रयुज्यते । कल्याणैः मङ्गलैः । शुभैश्चन्दनादिभिर्वा सुवर्णाभरणैर्वा । उचितं अभ्यस्तं । यत्तच्छरीरं मयैव परिष्वक्तं नान्यया । एतद्य क्रव्यादैः श्येनादिभिः । विपरिकृष्यते । अत्र मयैवेत्यनेन रामस्य दारान्तरं नास्तीति गम्यते ॥ २३ ॥
विश्वास-प्रस्तुतिः
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥
मूलम्
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ २४ ॥
व्याख्या
वनवासनिवृत्त्यनन्तरं त्वं । आप्तदक्षिणैः पर्याप्तदक्षिणैः । अग्निष्टोमादिभि यज्ञैः । इष्टवान् कृतदेवपूजनो भूत्वा । अग्निहोत्रेण यज्ञीयवह्निना । संस्कार केन हेतुना न लप्स्यसे । अत्र वनवासात्पूर्वमग्न्याधानाय भावात्तन्निवृत्त्यनन्तरं माधानाग्निष्टोमादिक मनुष्ठाय पञ्चात्क्रमप्राप्तायुरवसाने यज्ञीयाग्निभिः संस्कारं प्राप्तुं योग्यस्त्वं कथमेवं मध्ये मरणप्राप्तोसीतिभावः । अनेन वनवासात्पूर्वं रामेण यज्ञादिकं नानुष्ठितमिति सूच्यते । अयमर्थोऽयोध्याकाण्डे सम्यक्प्रतिपादितः ॥ २४ ॥
विश्वास-प्रस्तुतिः
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् ।
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥
मूलम्
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् ।
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ २५ ॥
व्याख्या
प्रव्रज्यां प्रवासं । व्रजयजोर्भावे क्यप् इति क्यप् । उपपन्नानां प्राप्तानां । त्रयाणां रामादीनां मध्ये एकं लक्ष्मणमागतं । शोकलालसा शोकमन्दा । कौसल्या परिप्रक्ष्यति ॥ २५ ॥
विश्वास-प्रस्तुतिः
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ।
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥
मूलम्
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते ।
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ २६ ॥
व्याख्या
सः लक्ष्मणः । परिपृच्छन्त्यास्तस्याः ते मित्रबलस्य वधं तववधं चाख्यास्यते ॥ २६ ॥
विश्वास-प्रस्तुतिः
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ।
हृदयेनावदीर्णेन न भविष्यति राघव ॥ २७ ॥
मूलम्
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् ।
हृदयेनावदीर्णेन न भविष्यति राघव ॥ २७ ॥
व्याख्या
सुप्तं हतं सुप्तत्वदशायां हतमित्यर्थः । अवदीर्णेन भिन्नेन । हृदयेनोपलक्षिता सा नभविष्यति न जीविष्यति ॥ २७ ॥
विश्वास-प्रस्तुतिः
मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ।
रामः सागरमुत्तीर्य सत्ववान्गोष्पदे हतः ॥ २८ ॥
मूलम्
मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः ।
रामः सागरमुत्तीर्य सत्ववान्गोष्पदे हतः ॥ २८ ॥
व्याख्या
अनार्यायाः दुश्शीलायाः । मम हेतोः मन्निमित्तं । अनर्हः एतादृशसौप्तिक्रवधानर्हः । सागरमुत्तीर्य गोष्पदे हतः खरतरखरादीन्हत्वा क्षुद्रेण प्रहस्तेन हत इत्यर्थः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अहं दाशरथेनोढा मोहात्स्वकुलपांसनी ।
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥
मूलम्
अहं दाशरथेनोढा मोहात्स्वकुलपांसनी ।
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ २९ ॥
व्याख्या
स्वकुलपांसनी स्वकुलदूषणी । अहं मोहात् अज्ञानात् । दाशरथेनोढास्मि । अतो रामस्य भार्यैव मृत्युरजायत ॥ २९ ॥
विश्वास-प्रस्तुतिः
नूनमन्यां मया जातिं वारितं दानमुत्तमम् ।
याऽहमद्येह शोचामि भार्या सर्वोतिथेरपि ॥ ३० ॥
मूलम्
नूनमन्यां मया जातिं वारितं दानमुत्तमम् ।
याऽहमद्येह शोचामि भार्या सर्वोतिथेरपि ॥ ३० ॥
व्याख्या
मया अन्यां जातिं प्राप्य । यद्वा अन्यां जातिं अन्यस्मिञ्जन्मनि । उत्तमं दानं वारितं । कन्यादानं वारितमित्यर्थः । तत्र हेतुमाह — येति । सर्वे अतिथयो यस्य तस्य सर्वातिथेः । सर्वरक्षितुरित्यर्थः । सर्वातिथिपूजकस्येति वाऽर्थः । भार्यापि याहं इह जन्मनि अद्य भोगकाल एव शोचामि ॥ ३० ॥
विश्वास-प्रस्तुतिः
साधु पातय मां क्षिप्रं रामस्योपरि रावणः ।
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ ३१ ॥
शिरसा मे शिरश्चास्य कायं कायेन योजय ।
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः ॥ ३२ ॥
[ मुहूर्तमपि नेच्छामि जीवितुं पापजीविना ।
श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ ३३ ॥
क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता ।
अहिंसा चैव भूतानां तमृते का गतिर्मम ॥ ३४ ॥ ]

समानय योजय । उत्तमं कल्याणं पतिसंयोगरूपम् ॥ ३१-३४ ॥
विश्वास-प्रस्तुतिः
इति सा दुःखसन्तप्ता विललापायतेक्षणा ।
भर्तुः शिरो धनुस्तत्र समीक्ष्य त पुनः पुनः ॥ ३५ ॥
मूलम्
इति सा दुःखसन्तप्ता विललापायतेक्षणा ।
भर्तुः शिरो धनुस्तत्र समीक्ष्य त पुनः पुनः ॥ ३५ ॥
व्याख्या
शिरः धनुश्च । तत्र पुरोदेशे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एवं लालप्यमानायां सीतायां तत्र राक्षसः ।
अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३६ ॥
मूलम्
एवं लालप्यमानायां सीतायां तत्र राक्षसः ।
अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः ॥ ३६ ॥
व्याख्या
लालप्यमानायां प्रलपन्त्यां । भर्तारं रावणं । अनीकस्थः द्वाररक्षी । ननुं लौकिकीषु काचिदिव सीता भर्तृशिरस्साक्षात्कारेपि चिरं रुदित्वा विलप्य कथं जीवितं धारयति स्म । उच्यते । अनयोर्दिव्यदम्पत्योः परस्परसत्तैव जीवितधारणे निमित्तं नतु ज्ञानाज्ञाने । अतो भर्तुर्जीवितवैकल्याभावात्सा जीवति स्म ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ।
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३७ ॥
मूलम्
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च ।
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३७ ॥
व्याख्या
अनुप्राप्तं द्वारीति शेषः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः ।
तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ ३८ ॥
मूलम्
अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः ।
तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ ३८ ॥
वयमितिभयेन बहुवचनं बहूनामन्तः पुरे समागमासंभवात् ॥ ३८ ॥
नूनमस्ति महाराज राजभावात्क्षमान्वितम् ।
किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ ३९ ॥
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् ।
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ४० ॥
प्रहस्तेन प्रेषितोपि कथमनवसरे समागतोसीत्याशङ्क्याह – नूनमिति ॥ राजभावात् राजत्वाद्धेतोः । क्षमान्वितं तदानीमेव कर्तव्यत्वेपि तव राजभावात् क्षमया त्वदाज्ञाप्रतीक्षणेनान्वितं । आत्ययिकं आतिपातिकं किंचित्कार्यमस्ति नूनं । तत्तस्मात्तेषां प्रहस्तादीनां दर्शनं कुर्वित्यन्वयः ॥ ३९–४० ॥
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः ।
सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ४१ ॥
सः रावणः । रामविक्रमं विदित्वा सभां प्रविश्य आमनः सर्वे कृत्यं मन्त्रिभिः सह समर्थ्य निश्चित्य । विधे । प्रकृतकार्यमिति शेषः ॥ ४१ ॥
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् ।
जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ४२ ॥
निर्याणं निर्गमनम् ॥ ४२ ॥
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः ।
समर्थयामास तदा रामकार्यविनिश्चयम् ॥ ४३ ॥
अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः ।
अब्रवीत्कालसदृशो रावणो राक्षसाधिपः ॥ ४४ ॥
समर्थ्यत्युक्तं विवृणोति – राक्षसेन्द्र इति ॥ रामकार्यविनिश्वयं रामविषये स्वकृत्यनिश्चयम् ॥ ४३ – ४४ ॥
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे ।
समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ ४५ ॥
स्फुटकोणाहतेन उल्बणवादनदण्डाहतिजनितेन । कार्ये कारणोपचारः । वक्तव्यं च न कारणमिति । युद्धार्थ निर्यातेति पुरे प्रवदन्ति चेद्रलाध्यक्षाः तदानीं देव्याः सन्निधौ कथितं स्वकीयं रामसैन्यवधवृत्तान्तवाक्यमसत्यमिति तस्याः विदितं स्यादिति भावः ॥ ४५ ॥
ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् ।
समानयंश्चैव समागतं च ते न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि ॥ ४६ ॥
आत्मनः आत्मनां । भर्तरि विषये ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥