०३० रावणेन शार्दूलप्रेषणम्

विश्वास-प्रस्तुतिः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः

मूलम्

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः

विषयाः

शार्दूलेनरायणप्रति निजबलेगरुडव्यूहरचनयारामस्वसु वेलाचल समीपेऽवस्थान निवेदनपूर्वकं प्रविष्टमात्रस्य स्वस्यविभीषणेन निवेदनेवानरैर्बलाद्ग्रहणेनसर्वतः संचारणपूर्वकं रामसमीपप्रापणादिनिवेदनम् ॥ १ ॥ तथारावणचोदनया सुग्रीवस्य जांबवदादियूथनाथानांच पृथक्पितृनामादिनिवेदनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥

मूलम्

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ १ ॥

व्याख्या

अथ शार्दूलादिचारवचनं त्रिशे-तत इति ॥ सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेलस्य समीप इति पूर्वमुक्तत्वात् ॥ १ ॥

विश्वास-प्रस्तुतिः

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।
जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत् ॥ २ ॥

मूलम्

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।
जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत् ॥ २ ॥

व्याख्या

चाराणां चारेभ्यः ॥ २ ॥

विश्वास-प्रस्तुतिः

अयथावच्च ते वर्णो दीनश्चासि निशाचर ।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥

मूलम्

अयथावच्च ते वर्णो दीनश्चासि निशाचर ।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ३ ॥

व्याख्या

अयथेति । शत्रुगृहीतत्वेन तेषां स्वरूपं किं न ज्ञातमिति भावः ॥ ३ ॥

विश्वास-प्रस्तुतिः

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ।
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥

मूलम्

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् ।
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ ४ ॥

व्याख्या

अनुशिष्टः पृष्टः । उदीरयत् अडभाव आर्षः ॥ ४ ॥

विश्वास-प्रस्तुतिः

न ते चारयितुं शक्या राजन्वानरपुङ्गवाः ॥ ५ ॥

मूलम्

न ते चारयितुं शक्या राजन्वानरपुङ्गवाः ॥ ५ ॥

व्याख्या

चारयितुं चारविषयीकर्तुं । न शक्याः चारसंचारविषया न भवन्तीत्यर्थः ॥ ५ ॥

विश्वास-प्रस्तुतिः

विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ।
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ॥ ६ ॥

मूलम्

विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ।
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ॥ ६ ॥

व्याख्या

संप्रश्नः परीक्षणं । अत्र वानरेषु ॥ ६ ॥

विश्वास-प्रस्तुतिः

सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ।
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ॥ ७ ॥

मूलम्

सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ।
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ॥ ७ ॥

व्याख्या

प्रविष्टमात्रे प्रविष्ठ एव । अचारिते चाराविषयीकृते ॥ ७ ॥

विश्वास-प्रस्तुतिः

बलाद्गृहीतो बहुभिर्बहुधास्मि विचालितः ।
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ॥ ८ ॥

मूलम्

बलाद्गृहीतो बहुभिर्बहुधास्मि विचालितः ।
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ॥ ८ ॥

व्याख्या

रक्षोभिः विभीषणसचिवैः । विचालितः भुवि परिवर्तितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ।
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ ९ ॥

मूलम्

परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ।
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ ९ ॥

व्याख्या

परिणीतः परितो नीतः । सर्वतः परिणीय सर्वेषां निकटे चारोयमिति घोषणपूर्वकं परिणीयेत्यर्थः । रामसंसद रामसभां । विह्वलः मूर्च्छितः । मूर्च्छानिवृत्तावपि चलितेन्द्रियः ॥ ९ ॥

विश्वास-प्रस्तुतिः

रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥ १० ॥

मूलम्

रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥ १० ॥

व्याख्या

याचमानः त्राणमिति शेषः । परित्रात इत्यनुवादात् ॥ १० ॥

विश्वास-प्रस्तुतिः

राघवेण परित्रातो जीवामीति यदृच्छया ॥ ११ ॥

मूलम्

राघवेण परित्रातो जीवामीति यदृच्छया ॥ ११ ॥

व्याख्या

राघवेणेत्यर्धम् ॥ जीवामीति यदृच्छया इदानीं जीवनं यादृच्छिकमित्यर्थः । यद्वा इतीति स्वशरीरप्रदर्शनं । अयथावच्च ते वर्णो दीनश्चासि निशाचरेति युक्तम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ १२ ॥
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।
मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १३ ॥

मूलम्

एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम् ।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ १२ ॥
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः ।
मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ १३ ॥

व्याख्या

द्वारमाश्रित्य तिष्ठतीति वर्तमानसामीप्ये वर्तमानप्रयोगः ॥ १२ – १३ ॥

विश्वास-प्रस्तुतिः

पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ।
सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ १४ ॥

मूलम्

पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु ।
सीतां वास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ १४ ॥

व्याख्या

पुराप्राकारमायाति आयास्यतीत्यर्थः । यावत्पुरानिपातयोर्लट् । एकतरं द्वयोरेकं । एकाच्च प्राचां इति तरप् । एकतरमित्युक्तं विवृणोति – सीतामिति ॥ १४ ॥

विश्वास-प्रस्तुतिः

मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः ।
शार्दूलं महद्वाक्यमथोवाच स रावणः ॥ १५ ॥

मूलम्

मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः ।
शार्दूलं महद्वाक्यमथोवाच स रावणः ॥ १५ ॥

व्याख्या

मनसा प्रेक्ष्य आलोच्य । तं शार्दूलमुवाचेत्यन्वयः ॥ १५ ॥

विश्वास-प्रस्तुतिः

यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १६ ॥

मूलम्

यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १६ ॥

व्याख्या

सीतास्मैप्रदीयतामित्यस्योत्तरमाह – यदीति युध्येरन् तथापि सीतां न प्रदास्यामि । सर्वलोकेभ्यो भयापि न प्रदास्यामीतियोजना ॥ १६ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।
चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ १७ ॥

मूलम्

एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् ।
चारिता भवता सेना केऽत्र शूराः प्लवङ्गमाः ॥ १७ ॥

व्याख्या

एवं प्रथमपक्षस्यानुपपत्त्या द्वितीयपक्षंकरिष्यमाणः तत्र ज्ञातव्यविशेषं पृच्छति – एवमित्यादि लोकत्रयम् ॥ भवता सेना चारिता चारविषयीकृता । सम्यग्दृष्टेत्यर्थः । अत्र सेनायां । के शूराः ॥ १७ ॥

विश्वास-प्रस्तुतिः

कीदृशाः किम्प्रभाः सौम्य वानरा ये दुरासदाः ।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ १८ ॥

मूलम्

कीदृशाः किम्प्रभाः सौम्य वानरा ये दुरासदाः ।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ १८ ॥

व्याख्या

ये दुरासदाः ते कीदृशाः कीदृशाकाराः । किंप्रभाः किंप्रभावाः । कस्य पुत्राः कस्य पौत्राश्च । तत्त्वं तेषां वानराणां भावं । आख्याहि ॥ १८ ॥

विश्वास-प्रस्तुतिः

तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ।
अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ॥ १९ ॥
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।
इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ २० ॥

मूलम्

तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् ।
अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छता ॥ १९ ॥
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः ।
इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ २० ॥

व्याख्या

कथने किं प्रयोजनमित्याह —तथेति ॥ तथा एवमाख्याते सति । तेषां बलाबलं ज्ञात्वा अत्र वानरेषु । प्रतिपत्स्यामि प्रतिपत्स्ये । कर्तव्यं ज्ञास्यामीत्यर्थः ॥ १९ – २० ॥

विश्वास-प्रस्तुतिः

अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः ।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ २१ ॥

मूलम्

अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः ।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ २१ ॥

व्याख्या

अथेत्युत्तरवचनारम्भे । द्वितीयोथशब्दः पादपूरणे । राजा सुग्रीवः । पाञ्चालीन्यायेन गद्गदेन पोषितत्वात्तत्पुत्रो जाम्बवान् । तस्य ब्रह्मणो जृम्भारम्भसंभूतत्वात् ॥ २१ ॥

विश्वास-प्रस्तुतिः

गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २२ ॥

मूलम्

गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः ।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २२ ॥

व्याख्या

अन्यः पुत्रः धूम्रः । जाम्बवान् धूम्रश्चेति गद्गदस्य द्वौ पुत्रावित्यर्थः । यस्य पुत्रेणैकेन महता रक्षसां अक्षादीनां कदनं हननं । कृतं । स केसरी शतक्रतोर्गुरुः बृहस्पतिः तस्य पुत्रः । सापेक्षत्वेपि गमकत्वात्समासः ॥ २२ ॥

विश्वास-प्रस्तुतिः

सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ २३ ॥

मूलम्

सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् ।
सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः ॥ २३ ॥

व्याख्या

धर्मस्य देवतायाः । ननु वरुणो जनयामास सुषेणं नाम वानरं इति बालकाण्डोक्तं । सत्यमुक्तं । स एवात्र धर्मशब्देनोच्यते । शार्दूलो वा भयाकुलोन्यथा श्रुतवान् । अन्योयं सुषेण इत्यप्याहुः । एवमन्यत्रापि ज्ञेयम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ २४ ॥

मूलम्

सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः ।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ २४ ॥

व्याख्या

मृत्युरेव स्वयंभुवा सुमुखादिवानररूपेण सृष्टः । सुमुखादयो मृत्युतुल्या इत्यर्थः । यद्वा सुमुखादयो मृत्युपुत्रा इत्यर्थः ॥ २४ ॥

विश्वास-प्रस्तुतिः

पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ।
अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ २५ ॥

मूलम्

पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् ।
अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः ॥ २५ ॥

व्याख्या

अनिलस्य पुत्रः औरसः । एवं तत्र तत्र पितृद्वयनिर्देशो बीजित्वक्षेत्रित्वाभ्यामिति मन्तव्यम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ २६ ॥
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २७ ॥

मूलम्

नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा ।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ २६ ॥
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २७ ॥

व्याख्या

नप्तेति । अत्र नप्तृशब्दोर्थसामर्थ्यात्पौत्रे वर्तते ॥ २६-२७ ॥

विश्वास-प्रस्तुतिः

दश वानर कोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८॥

मूलम्

दश वानर कोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८॥

व्याख्या

वानरकोट्य इत्यत्र वानरेत्यविभक्तिकनिर्देशः । सुपां सुलुक् इत्यादिना षष्ठ्या लुक् । वानराणामित्यर्थः । शेषं जन्मस्थानादि । नोत्सहे न शक्नोमि ॥ २८ ॥

विश्वास-प्रस्तुतिः

पुत्रो दशरथस्यैष सिंहसंहननो युवा ।
दूषणो निहतो येन खरच त्रिशिरास्तथा ॥ २९ ॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ३० ॥

मूलम्

पुत्रो दशरथस्यैष सिंहसंहननो युवा ।
दूषणो निहतो येन खरच त्रिशिरास्तथा ॥ २९ ॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन ।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ३० ॥

व्याख्या

सिंहसंहननः रमणीयावयवसन्निवेशवान् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः इत्यमरः ॥ २९-३० ॥

विश्वास-प्रस्तुतिः

वक्तुं न शक्तो रामस्य नरः कश्चिद्रुणान्क्षितौ ।
जनस्थानगता येन यावन्तो राक्षसा हताः ॥ ३१ ॥

मूलम्

वक्तुं न शक्तो रामस्य नरः कश्चिद्रुणान्क्षितौ ।
जनस्थानगता येन यावन्तो राक्षसा हताः ॥ ३१ ॥

व्याख्या

ये जनस्थानगताः ते यावन्तः ते सर्वेपि हता इत्यर्थः । यावत्तावच्च साकल्ये इत्यमरः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः ।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२ ॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ ।
वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ॥ ३३ ॥

मूलम्

लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः ।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२ ॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ ।
वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ॥ ३३ ॥

व्याख्या

चशब्देन दशरथस्य पुत्र इत्याकृष्यते । मातङ्गानामिवर्षभः गजश्रेष्ठ इव स्थितः ॥ ३२ – ३३ ॥

विश्वास-प्रस्तुतिः

विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।
विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ॥ ३४ ॥

मूलम्

विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः ।
विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ॥ ३४ ॥

व्याख्या

सुदुर्धरः सुदुर्धरनामा ॥ ३४ ॥

विश्वास-प्रस्तुतिः

राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।
परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ३५ ॥

मूलम्

राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः ।
परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ३५ ॥

व्याख्या

लङ्कां रामात् परिगृह्य तस्य हिते । रतो विभीषणस्तव भ्रातेत्यन्वयः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

इति सर्वं समाख्यातं तवेदं वानरं बलम् ।
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३६ ॥

मूलम्

इति सर्वं समाख्यातं तवेदं वानरं बलम् ।
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान्गतिः ॥ ३६ ॥

व्याख्या

गतिः प्रमाणं । अत्र वानरजन्मोक्ते प्रायशो बालकाण्डोक्तविरोधादेतत्सर्गं विनापि पूर्वोत्तरकथासंघट्टनाच्च सर्गोयं कल्पित इत्याहुः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः ॥ ३० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशस्सर्गः ॥ ३० ॥

मूलम्

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशः सर्गः ॥ ३० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशस्सर्गः ॥ ३० ॥