विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः
विषयाः
लङ्कासमीपंगतैरन्तर्गतराक्षस सेनाक्रोश मसहमानैर्वानरैरुच्चैरुद्घोषणम् ॥ १ ॥ रामेणलक्ष्मणप्रति लङ्कावर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छु – राक्षसमोक्षणम् ॥ ३ ॥ शुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धादिनिवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्यवा करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यात्मश्लाघनपूर्वकं रामेणस्वस्याजय्यत्वादिप्रलपनम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥
मूलम्
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥
व्याख्या
अथ रावणस्य वानरसेनागमनश्रवणं – सेत्यादि ॥ राज्ञा रामेण । व्यवस्थिता शीतोदकादिकं परिगृह्य स्थिता । वीरसमितिः वीरसङ्घः । सङ्घे सभायां समितिः इत्यमरः । शशिना व्यवस्थिता कृतमर्यादा ॥ १ ॥
विश्वास-प्रस्तुतिः
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥
मूलम्
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥
सागरवर्चसा सागरवदपरिच्छिन्नेनेत्यर्थः ॥ २ ॥**
ततः शुश्रुपुराक्रुष्टम् लङ्कायां काननौकसः ।भेरीमृदङ्गसंघुष्टम् तुमुलं रोमहर्षणम् ॥ ३ ॥**
ततः सेनानिवेशानन्तरं । निष्कोलाहले सतीत्यर्थः । आक्रुष्टं सेनाक्रोशं । भावे क्तः । भेरीमृदङ्गसंघुष्टमिति समुच्चयः ॥ ३ ॥**
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः ।अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ ४ ॥**
घोषवत्तरं राक्षसघोषाधिकघोषवत् । क्रियाविशेषणम् ॥ ४ ॥**
राक्षसास्तु प्लवङ्गानां शुश्रुवुस्तेऽपि गर्जितम् ।नर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥ ५ ॥**
दृप्तानां पूर्णानां । आकाशस्यैव शब्दाश्रयत्वादम्बर इत्युक्तं । यद्वा प्लवगसैन्यमुलूकजिताजितं इतिवदम्बरशब्दस्तत्पर्याय नभशशब्दं लक्षयित्वा श्रावणमासमाह ॥ ५ ॥**
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनीम् ।जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥**
चिह्नयुक्तो ध्वजः । केवलचेला पताकेति भिदा । चेतसा उपलक्षितः मनसा जगाम । सस्मारेत्यर्थः ॥ ६ ॥**
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥**
स्मरणप्रकारमाह – अत्रेति ॥ एतच्छ्लोकान्ते प्रकारवचनमितिकरणं द्रष्टव्यं । सा साकेते सकलभोगार्हा । मृगशाबाक्षी । मृगानुसरणसमये । यद्धरिणदर्शनकुतूहलेन मृगशिशुवत्तरलतरं विलोचनयुगलं तदेवाद्यापि मनसि परिवर्तते । तदाह । यद्वा मृगशाबे मारीचमये अक्षिणी यस्या इति विग्रहः ॥ ७ ॥**
दीर्घमुष्णम् च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८ ॥**
अद्य युद्धयात्रासमये कान्तास्मरणव्यसनमनुचितमिति तन्नियमितवानिति सूचयति दीर्घमुष्णं च निश्वस्येत्यनेन । तत्कालहितं युद्धयात्रासमये हितं । शोकविस्मारकनगरशोभावर्णनरूपं वचनं यद्वा अङ्गदः सह नीलेनेत्यादि वाक्यं तत्कालहितं । तत्साहचर्यादाढ्यं नगरमितिवत् आलिखन्तीमित्यादिकं सर्वं वाक्यजातं तत्काल हितमित्युक्तम् ॥ ८ ॥**
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण ।मनसेव कृतां लङ्काम् नगाग्रे विश्वकर्मणा ॥ ९ ॥**
आलिखन्तीं स्पृशन्तीं । उत्थितां उन्नतां । नगाग्रे त्रिकूटशिखरे ॥ ९ ॥**
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ॥ १० ॥**
विष्णोः आदित्यस्य । पदं स्थानं । आकाशमध्यमिति भावः । विमानं अनेकतलप्रासादः ॥ १० ॥**
पुष्पितैः शोभिता लङ्का वनैश्चैत्ररथोपमैः ।नानापतगसंघुष्टैः फलपुष्पोपगैः शुभैः ॥ ११ ॥**
फलभूतानि पुष्पाणि यासां ताः फलपुष्पाः मल्लिकादयः ताभिरुपगम्यन्त इति तथा । अतो न पुष्पितैरित्यनेन पौनरुक्त्यं । सङ्घुष्टं सङ्घोषः । भावे क्तः । नानाविधानि पतङ्गसङ्गुष्टानि येषां तैः ॥ ११ ॥**
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२ ॥**
मत्तविहंगानि । विहंगशब्दोत्र कोकिलपरः । अनेन सदा फलवत्त्वमुक्तं । प्रलीनभ्रमराणि मधुपानपरवशतया निष्पन्दभ्रमराणि । अनेन सदा पुष्पवत्त्वमुक्तं । कोकिलाकुलं षण्डं पुष्पसमूहो येषां तानि कोकिलाकुलषण्डानि । अनेन सदा पल्लवितत्वमुक्तं । कोकिलानां पल्लवप्रियत्वात् । वनानीत्यनुषजनीयं । दोधवीति पुनः पुनः कम्पयति । धूञ् कम्पने इत्यस्माद्यङ्लुक् ॥ १२ ॥**
इति दाशरथीरमो लक्ष्मणं समभाषत ॥ १३ ॥**
इतीत्यर्धमेकं वाक्यम् ॥ १३ ॥**
बलं च तद्वै विभजञ्छास्त्रदृष्टेन कर्मणा ।शशास कपिसेनाया बलमादाय वीर्यवान् ॥ १४ ॥**
शास्त्रदृष्टेन नीतिशास्त्रज्ञानेन । कर्मणा प्रयोगेण । बलं सेनां । विभजन् व्यूहयन् । व्यूहहेतोः शशास कपिसेनाया इत्याद्युत्तरशेषः ॥ १४ ॥**
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ १५ ॥**
शासनप्रकारमाहकपिसेनाया इत्यादि ॥ अङ्गदो नीलेन सह स्वबलमादाय कपिसेनायाः उरसि उरःस्थाने । तिष्ठेदित्यन्वयः ॥ १५ ॥**
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभ ॥ १६ ॥**
वानरौघसमावृतः कपिसमूहसहितः ॥ १६ ॥**
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यं पार्श्वं समाश्रितः ॥ १७ ॥**
गन्धहस्ती मत्तगजः ॥ १७ ॥**
मूर्ध्नि स्थास्याम्यहं यक्तो लक्ष्मणेन समन्वितः ॥ १८ ॥**
मूर्ध्नीत्यर्धमेकं वाक्यम् ॥ युक्तः सावधानः ॥ १८ ॥**
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ।ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ॥ १९ ॥**
वानर इति वेगदर्शिविशेषणं । ऋक्षमुख्यपदं वानराणामप्युपलक्षणं । महात्मानः महाबुद्धयः । कुक्षिं कुक्षिस्थानम् ॥ १९ ॥**
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ।पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ २० ॥**
जघनं चरमभागं पुच्छमिति यावत् । कपिराजः सुग्रीवः । पश्चार्धमिति । अपरस्यार्धे पश्चभावो वक्तव्यः इत्यपरशब्दस्य पश्चादेशः । अर्धशब्दोंशवाची । पश्चिमां दिशमित्यर्थः ॥ २० ॥**
सुविभक्तमहाव्यूहा महावानररक्षिता ।अनीकिनी सा विबभौ यथाद्यौः साभ्रसंप्लवा ॥ २१ ॥**
सुविभक्तमहाव्यूहा सुष्ठु कृतगरुडव्यूहा । उत्तरत्र शार्दूलवचने गारुडं व्यूहमाश्रित्य इति वक्ष्यमाणत्वात् । साभ्रसंप्लवा समेघसंचारा ॥ २१ ॥**
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ।आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ॥ २२ ॥**
आसेदुः आसादितुमुसुक्ताः । विमर्दयिषवः मर्दयितुमिच्छवः । सनि द्वित्वाभाव आर्षः ॥ २२ ॥**
शिखरैर्विकिरामैनां लङ्काम् मुष्टिभिरेव वा ।इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः ॥ २३ ॥
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ।सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥ २४ ॥रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः ।मोचयामास तं दूतं शुकं रामस्य शासनात् ॥ २५ ॥
मोचितो रामवाक्येन वानरैश्चाभिपीडितः ।शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ॥ २६ ॥**
शिखरैः साधनैः । विकिराम चूर्णयाम । मनांसि दधिरे निश्चयं चक्रुरित्यर्थः ॥ २३ – २६ ॥**
रावणः प्रहसन्नेव शुकं वाक्यमुभाषत ।किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे ।कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २७ ॥**
सितौ बद्धौ । षिञ् बन्धने इत्यस्माद्धातोर्निष्ठा । तत्र हेतुमाह – लूनपक्षश्च दृश्यस इति । चो हेत्वर्थः । यस्माल्लूनपक्षो दृश्यसे तस्मात् सिताविति संबन्धः । अनेक चित्तानां चचलचित्तानामित्यर्थः । अनेन पुनः पुनर्बन्धविसर्जने ध्वन्येते । तेषां वानराणां वशमागतो न कच्चिदित्यन्वयः ॥ २७ ॥**
ततः स भयसंविग्नस्तदा राज्ञाभिचोदितः ।वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ २८ ॥**
संविग्नः संभ्रान्तः । तथापि चोदितः मत्संदेशस्य किमुत्तरं सुग्रीवेण दत्तं वदेति चोदित इत्यर्थः ॥ २८ ॥**
सागरस्योत्तरे तीरे ब्रुवंस्ते ते वचनं तथा ।यथासंदेशमक्लिष्टम् सान्त्वयं श्लक्ष्णया गिरा ॥ २९ ॥**
सान्त्वयं असान्त्वयं । सुग्रीवमितिशेषः ॥ २९ ॥**
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥ ३० ॥**
लोप्तुं विनाशयितुम् ॥ ३० ॥**
नैव सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥ ३१ ॥**
अत्र वानरेषु । विषये सप्तमी । तीक्ष्णाः क्रूराः । उक्तेरेवावकाशो नास्ति । प्रत्युक्तेः का कथेति भावः । रावणप्रसादार्थं मध्ये राक्षसाधिपेतिसंबुद्धिः । त्वत्तोप्येतेऽतिशयिता इति ज्ञापनार्थं वा ॥ ३१ ॥**
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३२ ॥**
वक्ष्यमाणयोः सीताप्रदानयुद्धयोर्मध्ये सीताप्रदानस्यः साधिष्ठत्वं दर्शयितुं रामपराक्रमं वर्णयति-सं चेति ॥ तद्व्याहतपराक्रमस्य भूयः संदर्शनादस्मानेवश्यं हनिष्यत्येवेति भावः ॥ ३२ ॥**
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् ।एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३३ ॥**
निर्धूय तृणीकृत्य । एष इत्यतिसन्निहितत्वमुच्यते ॥ ३३ ॥**
ऋक्षवानरसंघानामनीकानि सहस्रशः ।गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ ३४ ॥**
सङ्घानामनीकानीत्यनेन सङ्घारब्धत्वोक्त्या महानीकत्वं सूचितम् ॥ ३४ ॥**
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३५ ॥**
इदानीं तव वचनावकाशाभावेपि पुनः प्रकारान्तरेण गच्छेत्याशङ्क्याह– राक्षसानामिति ॥ संधिः योगमात्रम् ॥ ३५ ॥**
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ।सीतां वास्मै प्रयच्छाशु सुयुद्धम् वा प्रदीयताम् ॥ ३६ ॥
शुकस्य वचनम् श्रुत्वा रावणो वाक्यमब्रवीत् ।रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३७ ॥**
संप्रति कर्तव्यमुपदिशति – पुरेति ॥ पुरा आयान्ति आयास्यन्ति । यावत्पुरानिपातयोर्लट् इति भविष्यदर्थे लट् । एकतरमित्युक्तंविशयति—सीतामिति ॥ ३६-३७ ॥**
यदि मां प्रतियुद्ध्येरन्देवगन्धर्वदानवाः ।नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥ ३८ ॥**
सर्वलोकभयात् सर्वलोकेभ्यो भयात् ॥ ३८ ॥**
कदा** नामाभिधानन्ति राघवं मामकाः शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥ ३९ ॥
स्वमनोरथं दर्शयति – कदेत्यादिना ॥ ३९ ॥**
कदा** तूणीशयैर्दीप्तैगणशः कार्मुकच्युतैः ।शरैरादीपयाम्येन मुल्काभिरिव कुञ्जरम् ॥ ४० ॥
तूणीशयैः चिरात्समराभावेन केवलतूणीरस्थैः । गणशः सङ्घशः । उल्काभिः निर्गतज्वालाकाष्ठैः । ताभिः कुञ्जरमभिद्रावयन्तीति प्रसिद्धिः ॥ ४० ॥**
तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥** ४१ ॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।न हि दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ४२ ॥
न मे तूणीशयान्बाणान्सविषानिव पन्नगान् ।रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति ॥ ४३ ॥
तत् बलं स च हन्ता विराधस्य इत्यादिना भवदु क्तबलं । आदास्ये तिरस्करोमीत्यर्थः ॥ ४१ – ४३ ॥**
न जानाति पुरा वीर्यम् मम युद्धे स राघवः** ॥ ४४ ॥
न जानातीत्यर्धम् ॥ पुरा न जानाति इतःपरं ज्ञास्यतीत्यर्थः ॥ ४४ ॥**
मम चापमयीं** वीणां शरकोणैः प्रवादिताम् ।ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम् ॥ ४५ ॥
नाराचतलसन्नादां तां ममाहितवाहिनीम् ।अवगाह्य महारङ्गम् वादयिष्याम्यहं रणे ॥ ४६ ॥
अथ रूपकव्याजेन युद्धस्यात्मनो विनोदनकरत्वमाह – ममेत्यादिना ॥ ममाहितवाहिनीमेव महारङ्गं विपुलनृत्तशालां । अवगाह्य प्रविश्य । शरैरेव कोणैः वीणावादनदण्डैः । प्रवादितां शब्दितां । ज्याशब्द एव तुमुलः तुमुलस्वनो यस्यास्तां । आर्त भीतमहास्वनां आर्तभीतशब्देन तत्स्वनो लक्ष्यते । एवं नाराचतलशब्देनापि तत्स्वनः । आर्तभीतानां वन एव महास्वनो यस्यास्तां । नाराचतलस्वन एव सन्नादो यस्यास्तां । घोरां अन्यैर्वादयितुमशक्यां । मम चापमयीं वीणामिति व्यस्तरूपकं । रणे रणस्थजने । शृण्वतीति शेषः । वीणाया मन्द्रमध्यतारभेदेन स्वरत्रयसंभवादत्रापि स्वरत्रयमुक्तम् ॥ ४५ – ४६ ॥**
न वासवेनापि स हस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा** स्वयम् ।यमेव वा धर्षयितुम् शराग्निना महाहवे वैश्रवणेन वा पुनः ॥ ४७ ॥
न वासवेनेति सहस्रचक्षुष्ट्वं गर्वहेतुत्वेनोक्तं । दिग्विजये वरुणपुत्रैरेव युद्धकरणात् स्वयमित्युक्तं । वासवादिभिः शराग्निना यथा धर्षयितुं न शक्योस्मीति योजना ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥