विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः
विषयाः
रामेण समुद्रप्रसादनायतत्तीरेसमास्तृतदर्भेषु निजभुजोपधानेननियमाच्छयनम् ॥ १॥ रामे दिवसत्रयमनवारतंकुशशयनेशयानेपि समुद्रेस्वशरीरमदर्शयति कोपाद्रामेण लक्ष्मणकराद्धनुरानयनेनकतिपयशरप्रक्षेपेण जलधिजलविक्षोभपूर्वकंजलधिजिघांसया शरान्तरसन्धानायधनुराकर्पणे लक्ष्मणेन सप्रतिषेधनंधनुरालंबनम् ॥ २ ॥
ततः सागरवेलायां दर्भानास्तीर्य राघवः ।अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ।बाहुं भुजङ्गभोगाभमुपधायारिसूदनः ॥ १ ॥ एवं प्रासङ्गिकं परिसमाप्य एकान्तरितपूर्वसर्गान्तोदितकथाशेषमुपक्षिपति-तत इत्यादि सार्धश्लोक एकान्वयः ॥ ततः शुकमोक्षणानन्तरं । सागरवेलायां शर्कराप्रचुरायां । दर्भान् शिताग्रकुशान् । आस्तीर्य । राघवः सर्वशरण्यकुलप्रसूतः । महोदधेः अञ्जलिं कृत्वा । भुजगभोगाभं अहिकायवदतिमृदुलं बाहुं । उपधाय उपधानीकृत्य । प्राङ्मुखः सन् प्रतिशिश्ये । प्रतीत्यनेन तदानीं सागराभिमुखमपरः सागर इव स्थित इत्यवगम्यते । अरिसूदन इत्यनेन तादृशदशायामपि शत्रूणामधृष्यतया स्थित इत्युच्यते । अत्र विशेषणमहिना अतिसुकुमारस्य कथमतिकठिनावनितलशयनं अखिलरक्षकस्य कथमन्यतो रक्षापेक्षेति वाल्मीकेः खेदो द्योत्यते ॥ १ ॥ जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ २ ॥ अमुमेवार्थं प्रपञ्च यति — सार्धंसप्तश्लोकैः जातरूपमयैरित्यादि । जातरूपमयैः चकाराद्रत्नमयैः । एवकारोऽयोगव्यवच्छेदार्थः । पुरा अयोध्यावासकाले । अवतारात्पूर्वं वा ॥ २ ॥वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ।भुजैः परमनारीणामभिमृष्टमनेकधा ॥ ३ ॥ वरकाञ्चनेति परमनारीभुजविशेषणं । भुजैः हस्तैः । तदेकदेशलक्षणा । परमनारीणां सैरन्धिकाणां । अनेकधा स्नानालङ्करणादिषु चन्दनागरुकुङ्कुमप्रभृतिभिः बहुप्रकारेण । अभिमृष्टं संमृष्टम् ॥ ३ ॥चन्दनागुरुभिश्चैव पुरस्तादधिवासितम् ।बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ॥ ४ ॥ अधिवासितं सञ्जातगन्धं । बालसूर्येति विशेषणात् द्वितीयचन्दनशब्दो रक्तचन्दनपरः । तच्च कुङ्कुम । कुङ्कुमं घुसृणं प्रोक्तं लोहितं रक्तचन्दनं इति हलायुधः । आदौ चन्दनागरुभ्यां चर्चितं अथ कुङ्कुमैरिति बोध्यं । कश्चिदाह । परमनारीणामित्यनेन सीताव्यतिरिक्ताश्च भार्याः सन्तीति तन्न । नहि बालकाण्डे कुत्रचिद्रामस्य दारान्तरोद्वाहः प्रतिपाद्यते । प्रत्युत रामस्तु सीतया सार्धं विजहार बहूनृतून् । मनस्वी तद्रुतस्तस्या नित्यं हृदि समर्पितः इति सीतया सह निरन्तरभोग एवोच्यते । अतएव सीताप्याह समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी इत्यत्यन्तसंयोगे द्वितीयया निरन्तरभोगं । तत्कुतोस्य द्वारान्तरावकाशः । ननु रामस्य दयिता भार्येति विशेषणाद्रोहिणी यथेति ताराणामन्यतमया रोहिण्या दृष्टान्तीकरणाच्च भार्यान्तरं तस्य व्यज्यत इति चेन्न । दयितो भ्रातुरितिवदनुगमनानर्हत्वाय तथा विशेषितत्वात् किं भरतो रामस्य न दयितः । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु । न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः इत्यादिविरोधात् । रामवाल्लभ्यातिशयेन सौकुमार्यातिशयेन च राजगृह एवावस्थाय दिव्यसुखानुभवयोग्यावपि सीतालक्ष्मणौ राममनुगताविति हि तत्र मुनिहृदयं । रोहिणी चेयमन्या प्रसिद्धाया नित्यानुगमनासंभवात् । ननु च दृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये इति स्नुषासाहचर्याद्रामस्य स्त्रियः पत्न्यो बह्व्यः सन्तीति गम्यते । सुन्दरकाण्डेपि स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रस्यसे वीतभयः कृतार्थ ः इति सीतया चोच्यते । अत्रापि भुजैः परमनारीणामभिमृष्टमनेकधेत्युक्तं । तस्माद्बह्व्यः पत्न्यो रामस्य सन्तीत्यवगम्यते । मैवं । रामस्य परमाः स्त्रिय इति रामसंबन्धिन्यः कौसल्या सीतातद्दासीप्रभृतय उच्यन्ते । पूजायां बहुवचनेन सीतैवोच्यते । ते स्नुषा इतिवत् । न हि भरतस्यानैकाः स्त्रियः सन्तीत्यत्र प्रमाणमस्ति । त्वं रंस्यस इत्यत्रापि लौकिकरीतिमनुसृत्य सीतोक्तवती । परम नारीणामित्यत्रापि अलंकर्त्रीणामित्यर्थ उक्तः । यद्वा अभिमृष्टं अभिमर्शनार्हं । आशंसायां क्तः । परमनार्यः श्रीभूमिनीलाः । आत्मानं मानुषं राम एव हि मन्यते ऋषिस्तु रामस्य विष्णुत्वं व्यक्तीकरोत्येव । जज्ञे विष्णुः सनातन इत्याह । ननु राजसूयाश्वमेधाद्यनुष्ठानान्यंथानुपपत्त्या रामस्यानेकपत्न्यः कल्प्यन्ते । कामं कल्प्यन्तां न ता इह संबध्यन्ते । तासां केवलं धर्मार्थं वृत्तानां परिभ्रष्टुं रन्तुं चायोग्यत्वात् । वस्तुतो न ताः कल्प्याः सीतयैव प्रतिमया यज्ञे पत्नीकार्यनिर्वाहस्योत्तरकाण्डे दर्शितत्वात् । न च पत्नीप्रतिनिधिभावो न भट्टाचार्येण कथ्यत इति वाच्यं । न हि वचनविरोधे न्यायः प्रभवति इति न्यायात् । वचनं च हेमाद्रिस्मृतिनिबन्धने दर्शितं यदि दुष्टभार्यो दूरभार्यो वा स्यात्तदा दर्भपुञ्जीलं तत्स्थाने निघायाग्निमाधाय कुर्यात् इति । धर्मसंस्थापनार्थं प्रवृत्तस्य रामस्याचारादपरं किं नाम मानमपेक्षणीयं । वस्तुत आचार एव प्रथमं प्रमाणं श्रुत्या पूर्वाचारं प्रदर्श्यैव कर्मविधानात् । आपस्तम्बोप्यतएव धर्मज्ञसमयः प्रमाणं वेदाश्चेत्याचारमेव प्रथमं प्रमाणमाह । अतएव स्मरन्ति च स्मर्तारः श्रुतिर्विभिन्ना स्मृतयो विभिन्ना न चानृषेर्दर्शनमस्ति किंचित् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः इति ॥ तस्मात् चातुर्वर्ण्यं च लोकेस्मिन्स्वे स्वे धर्मे नियोक्ष्यति इत्युक्तरामाचार एव समीचीनं प्रमाणं तद्विरुद्धाश्च न्याया न प्रभवन्ति । यद्यपि राजसूयाश्वमेधानां महिषीवद्वावातापरिवृत्तिभ्यामपि भवितव्यं । तथापि तल्लोपे तत्कार्याननुष्ठानमेव । तस्य कर्मवैकल्याहेतुत्वात् । यथा पङ्ग्वन्धादेर्यज्ञे विष्णुक्रमाज्यावेक्षणादिलोपेन न यज्ञलोपः । तत्तन्मन्त्रोच्चारणस्यैव कार्यत्वात् । तस्मात्केवलन्यायसञ्चारेणापन्यायमार्गो नानुसरणीयः । किंतु सर्वाचारप्रवर्तकसर्वकर्मधुरन्धरभगवदवताररामचन्द्राचार एव विवेकिभिरनुवर्तनीय इति सर्वमवदातम् ॥ ४ ॥शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा ।तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥ ५ ॥ शयने हंसतूलिकामये तल्पे । गङ्गानिषेवितं गङ्गाजले वर्तमानं । तक्षकस्य संभोगं कायमिव स्थितं । सीताया उत्तमाङ्गेन शोभितं चेति योजना ॥ ५ ॥संयुगे युगसम्काशं शत्रूणां शोकवर्धनम् ।सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ ६ ॥ संयुगे युद्धे । युगसंकाशं गोपुरार्गलवत्प्रतिभटनिवारकं । अतएव शत्रूणां शोकवर्धनं । सागरोन्ते यस्यासौ सागरान्तः भूमण्डलं । तस्य व्यपाश्रयं आलम्बनभूतम् ॥ ६ ॥अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् ।दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ ७ ॥गोसहस्रप्रदातारमुपधाय महद्भुजम् ।अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ ८ ॥ सव्यं अप्रदक्षिणं यथाभवति तथा अस्यता इषून् क्षिपता । स्वेनैव हेतुना ज्याघातेन करणेन विगतत्वचं ज्याकिणाङ्कतमित्यर्थः । महापरिघसन्निभं । उत्तमपरिघाख्यायुधवत् दृढं। गोसहस्रप्रदातारं करणे कर्तृत्वोपचारः । महद्भुजं भुजोत्तमं । तथैव प्रायशः पाठः । आत्वाभाव आर्षः । एवंभूतं दक्षिणं बाहुमुपधाय दक्षिणः दाक्षिण्यवान् ॥ ७-८ ॥इति रामो मतिं कृत्वा महाबाहुर्महोदधिम् ।अधिशिश्ये च विधिवत्प्रयतो नियतो मुनिः ॥ ९ ॥ महाबाहुः सर्वाभयप्रदः । रामः अद्य मे तरणं वा सागरस्य मरणं वा भवत्विति मतिं कृत्वा । विधिवत् शास्त्रोक्तरीत्या । प्रयतः कायिकनियमयुक्तः । नियतः वाचिकनियमवान् । मुनिः मानसनियमोपेतश्चसन् । महोदधिमुद्दिश्याधिशिश्य इति योजना ॥ ९ ॥तस्य रामस्य सुप्तस्य कुशास्तीर्णे मही तले ।नियमादप्रमत्तस्य निशास्तिस्रोतिचक्रमुः ॥ १० ॥ सुप्तस्य शयानस्य । नियमादप्रमत्तस्य अतएवाप्रच्युतनियमस्येत्यर्थः । तिस्रो निशाः त्रीण्यहानि ॥ १० ॥स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।उपासत तदा रामः सागरं सरितां पतिम् ॥ ११ ॥ तिसृष्वपि रात्रिषूपासनमविच्छिन्नमित्याह – स इति ॥ त्रिरात्रोषितः त्रिरात्रं शयानः । तत्र समुद्रतीरे । सर्वशक्तेः कुत एवं निर्बन्ध इत्याशङ्क्य धर्मप्रवर्तनार्थमित्याशयेनाह – नयज्ञो धर्मवत्सल इति । शरणागतधर्मे प्रीतिमान् । सरितां पतिं स्वगोष्ठ्यां कान्तापुरुषकार मुखेन समाश्रयणदर्शनात्स्वयमपि तथैवाचरदिति भावः ॥ ११ ॥न च दर्शयते मन्दस्तदा रामस्य सागरः ।प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ १२ ॥ नच दर्शयते आत्मानमिति शेषः । मन्दः अज्ञः । ननु रामेण सम्यकृता शरणागतिः कुतो नफलिता । उच्यते । अनधिकारिणा कृतत्वात् ब्राह्मणकृतराजसूयवत् । न च शरणागतावधिकारी रामः । अकिंचनो हि तत्राधिकारी ॥ १२ ॥समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः ।समीपस्थमुवाचेदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥ १३ ॥ समुद्रस्य समुद्रविषये । संबन्धसामान्ये षष्ठी । रक्तान्ते लोचने यस्य सः रक्तान्तलोचनः । अनेन मन्दकोपत्वमुक्तं । शुभलक्षणं स्वस्य हृदयकोपमवगम्य कृतमन्दहासम् ॥ १३ ॥अवलेपः समुद्रस्य न दर्शयति यत्स्वयम् ॥ १४ ॥ स्वयं न दर्शयतीति यत् अयं समुद्रस्यावलेप इत्यन्वयः ॥ १४ ॥प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।असामर्थ्यम् फलन्त्येते निर्गुणेषु सतां गुणाः ॥ १५ ॥ प्रशमः अक्रोधता । क्षमा अपराधसहिष्णुता । आर्जवं परचित्तानुसारित्वं । अकौटिल्यं वा । प्रियभाषिता प्रियवादित्वमित्येते गुणाः निर्गुणेषु असामर्थ्यं फलन्ति । असमर्थत्वबुद्धिं जनयन्तीत्यर्थः ॥ १५ ॥ आत्मप्रशंसिनं दुष्टम् धृष्टम् विपरिधावकम् ।सर्वत्रोत्सृष्ट दण्डं च लोकः सत्कुरुते नरम् ॥ १६ ॥ कं पुनः समर्थ निर्गुणो मन्यते तत्राह – आस्मेति ॥ आत्मप्रशंसिनं आलस्तुतिपरं । दुष्टं वञ्चकं । धृष्टं निर्दयमित्यर्थः । विपरिधावकं सर्वपलायनकरं । सर्वत्र सगुणेषु निर्गुणेषु च । उत्सृष्टदण्डं लृप्तदण्डं । लोकः अज्ञो जनः ॥ १६ ॥न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।प्राप्तुम् लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि ॥ १७ ॥ बलकृता प्रथा यशः । पराक्रमकृता कीर्तिः । जयो वेत्यत्रापि न साम्ना प्राप्तुं शक्यत इत्यनुषञ्जनीयम् ॥ १७ ॥अद्य मद्बाण निर्भिन्नैर्मकरैर्मकरालयम् ।निरुद्धतोऽयं सौमित्रे प्लवद्भिः पश्य सर्वतः ॥ १८ ॥ मद्बाणनिर्भित्रैः अतएव जलोपरि प्लवद्भिः मकरैः । निरुद्धतोयं व्याप्ततोयम् ॥ १८ ॥महाभोगानि मत्स्यानाम् करिणाम् च करानिह ।भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण ॥ १९ ॥सशन्खशुक्तिकाजालं समीनमकरं शरैः ।अद्य युद्धेन महता समुद्रम् परिशोषये ॥ २० ॥ भोगिनां महाकायानां । भूम्निमतुप् । भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः इत्यमरः । नागानां सर्पाणां । महाभोगानि महाशरीराणि । क्वीबत्वमार्षं । करिणां मत्स्यानां गजाकारमत्स्यानां । छिन्नानीति लिङ्गव्यत्ययेनानुषङ्गः । करान् शुण्डादण्डान् । मत्स्यविशेषो मकरः करिमकरो भवति तद्विशेषश्च इति हलायुधः ॥ १९–२० ॥क्षमया हि समायुक्तम् मामयं मकरालयः ।असमर्थम् विजानाति धिक् क्षमामीदृशे जने ॥ २१ ॥ क्षमैकसाराणां भवतामीदृशी फणितिरनुचितेत्याशङ्क्याह – क्षमयेति ॥ सागरशोषणेप्रवृत्तोप्येतावत्पर्यन्तं क्षमया गृहीतचरणोस्मि । सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टं इति न्यायेन स्वरूपं प्रकटयति – मामिति । मां इतरनैरपेक्ष्येण स्थितं । असमर्थ विजानाति कार्यकरणाक्षमं मन्यते । विजानाति मकरालयः। अयोध्याधिपतिः कोसलाधिपतिरिवस्वमात्मानं मन्यते । कतिपयमीनग्रहणगर्त इति न जानाति । धिक् क्षमां इतः परं क्षमां नाङ्गीकुर्मः । विनियोगकाले क्षमा स्वीकार्या । अद्य क्रोध एवाङ्गीकर्तव्यः । इक्ष्वाकूणां कदाचिदपि क्षमा किं त्याज्येत्यत्राह – ईदृशे जन इति ॥ ईदृशे जने प्राप्तरक्षस्सहवासदोषे ॥ २१ ॥स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ २२ ॥ न दर्शयतीत्यर्धमेकं वाक्यम् ॥ २२ ॥चापमानय सौमित्रे शरामश्चाशीविषोपमान् ।सागरं शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥ २३ ॥ अपि कदाचिदात्मानं दर्शयेदिति करुणया समुद्रं वाचा निर्भर्त्स्य कर्मणापि निर्भर्त्सयितुमुपक्रमते-चापमानयेति ॥ एव विलम्ब्य करणं क्रमेण निर्भर्त्स्य कार्यं कारयितुं । अन्यथा सद्य एव शोषयेत् । चापमानय निर्गुणं वशीकर्तुं सगुणमानयेत्याशयः । चापमानय अस्यानम्रत्वं निवर्तयितुं नम्रं चापमानय । समुद्रस्य शेषशय्यात्वेन तस्मिन्किंचित्सौहार्दवता लक्ष्मणेन क्षणं विलम्बः कृतः । अत आह – सौमित्र इति । सुमित्रावचनमेव कर्तव्यं ज्येष्ठवचनं तु न कर्तव्यमिति नियमोस्ति । यद्वा सौमित्रे रामे प्रमादं माकार्षीरिति मात्रोपदिष्टं मा विस्मार्षीः । अथ चापमात्रमानीतं तदाह – शरांश्चेति । लीलाप्रयोगार्हेषु केषुचिदानीतेष्वाह – आशीविषोपमानिति । दृष्टिविषाः सर्पा आशीविषा इत्युच्यन्ते । किमर्थं शरानयनमिति विलम्ब्य सौमित्रिणा पृष्ट आह– सागरमिति । एकेनैव दग्धुं सामर्थ्यपि शरानित्युक्तिस्तत्संबन्धेन सप्तसागरानपि शोषयितुमिच्छया । कोपातिशयेन स्वबलमज्ञात्वा वा तादृशोक्तिः । शोषयिष्यामीति वदतः किं शरेणेति न शङ्कनीयं । छिन्नं भिन्नं शरैर्दग्धमिति रामशराणां दाहकत्वसंभवात् । अन्तरेणापि चतुर्थभूतजगन्निर्वाहं करिष्यामीति भावः । सागरं । यद्ययं ज्ञातिविरोधमाचरति तर्हि वयमपि ज्ञातिकृत्यं कुर्म इतिभावः । सागरं शोषयिष्यामि अनेकसहस्रखातमेक एव हरिष्यामि । किं तत इत्यत्राह – पद्भ्यामिति । एकैकस्य पदद्वयं गमनसाधनमिति द्विवचनं । वानराणां हि द्वावेव पादौ द्वौ हस्तौ ग्रहणभक्षणादीनां ताभ्यामेव दर्शनात् । अनेन कृतस्य कार्यविच्छेदस्यानुरूपममुं वानरपादाभ्यामेव दर्शयिष्यामीतिभावः ॥ २३ ॥अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥ २४ ॥ पक्षान्तरमाह – अद्येति ॥ अर्धमेकं वाक्यम् ॥ २४ ॥वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ।निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥ २५ ॥ पुनः पक्षान्तरमेवाह – वेलास्विति ॥ वेलासु चतुर्षु तीरेषु । कृतमर्यादं कृतव्यवस्थं । कदाचिदपि वेलामनतिवर्तमानमित्यर्थः । निर्मर्यादं करिष्यामि अव्यवस्थं करिष्यामि । भूतले प्लावयिष्यामीत्यर्थः ॥ २५ ॥महार्णवं क्षोभयिष्ये महादानवसंकुलम् ॥ २६ ॥ समुद्रेण चिरपरिपोषिता दानवादय एतं रक्षिष्यन्तीत्यत्राह – महार्णवमिति ॥ दानवैः सह क्षोभविष्यामीत्यर्थः ॥ २६ ॥एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः ।बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ॥ २७ ॥ विस्फारितेक्षणः विवर्तितनयनः ॥ २७ ॥ सम्पीड्य च धनुर्घोरम् कम्पयित्वा शरैर्जगत् ।मुमोच विशिखानुग्रान्वज्रानिव शतक्रतुः ॥ २८ ॥ संपीड्य दृढमुष्टिना मध्यमवलम्ब्य । कम्पयित्वा भयकम्पितं कृत्वा । जगत् जगत्स्थजन्तून् । वजानित्यभूतोपमा ॥ २८ ॥ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः ।प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ २९ ॥
तेजसा ज्वलन्त इत्यन्वयः । प्रविशन्ति प्राविशन् । त्रस्तपन्नगमिति क्रियाविशेषणम् ॥ २९ ॥ततोवेगः समुद्रस्य सनक्रमकरो महान् ।स बभूव महाघोरः समारुतरवस्तदा ॥ ३० ॥ तोयवेगः तरङ्गविततिः । मारुतरवः वातजन्यरवः । समारुतरवः वातसंघट्टनजन्यरवसहित इत्यर्थः ॥ ३० ॥महोर्मिमालाविततः शन्खशुक्तिसमावृतः ।सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ ३१ ॥ तीरे महोर्मिमालाविततः । अन्तस्तरङ्गजालाकृष्टशङ्खशुक्तिसमावृतः । सज्वालशरप्रवेशेन सधूमः । मध्ये शराग्निशोषणेन परिवृत्तोर्मिश्चासीदिव्यन्वयः ॥ ३१ ॥व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः ।दानवाश्च महावीर्याः पातालतलवासिनः ॥ ३२ ॥ व्यथिता इति । आपातालं शराः प्रविष्टा इति भावः ॥ ३२ ॥ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा ।विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः ॥ ३३ ॥ तात्कालिकतरङ्गौन्नत्यं वर्णयति – ऊर्मय इति ॥ ३३ ॥आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः ।उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३४ ॥ उक्तानुवादेन विशेषान्तरमाह – आघूर्णितेति ॥ आघूर्णितसंभ्रान्तोद्वर्तितपदान्ये -कार्थानि ॥ ३४ ॥ततस्तु तं राघव मुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम् ।सौमित्रिरुत्पत्य विनिःश्वसन्तं मामेति चोक्त्वा धनुराललम्बे ॥ ३५ ॥एतद्विनापि ह्युदधेस्तवाद्य संपत्स्यते वीरतमस्य कार्यम् ।भवद्विधाः क्रोधवशं न यान्ति दीर्घं भवान्पश्यतु साधुवृत्तम् ॥ ३६ ॥अन्तर्हितैश्चापि तथाऽन्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।शब्दः कृतः कष्टमिति ब्रुवद्भिर्मा मेति चोक्त्वा महता स्वरेण ॥ ३७ ॥ ततस्त्विति । तुशब्देन पूर्वसंधानाद्वैषम्यमुक्तं । अप्रमेयं अपरिच्छेवैभवं । प्रकर्षमाणं । अमोघशरसन्धानायेति भावः । समुच्छ्वसन्तं कोपेनेति शेषः । तं राघवं । उत्पत्य झटित्यागत्य । मामेत्युक्त्वा एतादृशं धनुराकर्षणं मा कुर्वित्युक्त्वा । भयातिशयाद्वीप्सा । अनिवर्तमाने तस्मिन् धनुराललम्बे ॥ ३५ – ३७ ॥**
इत्यार्षे** श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशः सर्गः ॥ २१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥