विश्वास-प्रस्तुतिः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः
मूलम्
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः
विषयाः
रावणेन विभीषणप्रतिसगर्हणंभ्रातृत्वाभावेवधार्हत्वोक्तिः ॥ १ ॥ विभीषणेनतदसहिष्णुतयागदा पाणिनासतासचिवचतुष्टयेनसहगगनोत्पतनेनरावणंप्रतिशोचन पूर्वकंरामसमीपगमनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥ १ ॥
मूलम्
सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् ।
अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥ १ ॥
व्याख्या
इत्थं हितमुक्तवन्तं विभीषणं प्रति रावणस्य परुषभाषणं षोडशे-सुनिविष्टमिति ॥ सुसन्निवेशं अर्थानुसंधानविरहेपि श्रवणमात्रेणात्यन्तप्रीतिजनकं । तेनार्थस्याननुकूलत्वेपि श्रवणस्यापरित्याज्यत्वमुक्तं । सुनिविष्टं उक्तवन्तमिति क्रियाविशेषणं वा । तेन मनस्यलग्नं चेदनादरणीयं वा स्यात् । मनसि सम्यग्लग्नं यथा भवति तथा उक्तवन्तं । हितं न केवलं श्रवणप्रियं । अतिदुर्दशानिस्तरणोपायतया पथ्यं । श्रवणकटुत्वेपि पथ्यत्वपर्यालोचनया अपरित्याज्यं । वाक्यं यावद्वक्तव्यार्थपूर्ण । उक्तवन्तं । नासंवत्सरवासिने प्रब्रूयात् इत्युक्तरीत्या गुरूपसदनयुक्तस्य पादयोः पतितस्य वक्तव्यस्य दुरवस्थां दृष्ट्वोक्तवन्तं विभीषणं । अन्येन चेदुक्तं परित्याज्यं । साक्षादनुजतया प्रत्यासन्नेनोक्तं कथं त्याज्यं । परुषं वाक्यमब्रवीत् । श्रवणसमनन्तरं स्थितोस्मि गतसंदेह इति वा वक्तव्यं । त्वया महोपकारः कृत इति स्तोत्रं वा कर्तव्यं । सदृशप्रत्युपकाराभावेनानुतापो वा कर्तव्यः । तद्विहाय शत्रून्प्रति वक्तव्यमुक्तवान् । अब्रवीदित्यनेन यथा सुनिविष्टमुक्तं तथा मनसि सुलग्नं यथा भवति तथा व्यक्तमुक्तवान् । एवमुक्तवन्तं प्रत्यपि परुषोक्तौ हेतुद्वयमाह-रावण इत्यादि । रावयति रोयतीति रावणः परहिंसायां जगद्विदितः । रौतीति रावणः स एव रावणः । स्वार्थेण्प्रत्ययः । अस्थाने पदं दत्त्वा स्वयमप्याक्रन्दन्नित्यर्थः । कालचोदितः । भ्राता रामं शरणं गच्छेत्युक्तवान् कालस्तन्न कर्तव्यमिति स्वयं द्विधा । भज्येयमिति । अतः स्वप्रकृत्यनुगुणं कालमनुसृतवानितिभावः ॥ १ ॥
विश्वास-प्रस्तुतिः
वसेत्सह सपत्नेन क्रुद्धेनाशी विषेण च ।
न तु मित्र प्रवादेन संवसेच्छत्रुणासेविना ॥ २ ॥
मूलम्
वसेत्सह सपत्नेन क्रुद्धेनाशी विषेण च ।
न तु मित्र प्रवादेन संवसेच्छत्रुणासेविना ॥ २ ॥
व्याख्या
परुषमेवाह – वसेदिति ॥ सपत्नेन बाह्यशत्रुणा । मित्रप्रवादेन मित्रवदवभासमानेनेत्यर्थः । शत्रुसेविना शत्रुपक्षपातिना । सहजशत्रुणेत्यर्थः । शत्रुसर्पसहवासादपि सहजशत्रुसहवासः सुदूरं परिहर्तव्य इति भावः । अतस्त्वया अस्मान्नगरात् सद्यो गन्तव्यमितिद्योत्यते ॥ २ ॥
विश्वास-प्रस्तुतिः
जानामि शीलं ज्ञातीनां सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥
मूलम्
जानामि शीलं ज्ञातीनां सर्व लोकेषु राक्षस ।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥
व्याख्या
अत्र शत्रुसेवित्वे हेतूंस्त्रिभिर्दर्शयति – जानामीत्यादिभिः । सर्वलोकेषु सर्वजनेषु मध्ये । शीलं स्वभावं । शीलमेवाह-हृष्यन्तीति । अस्मद्व्यसनेन लब्धहर्षस्त्वमेवं गर्जसीति भावः ॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रधानं साधकं वैद्यम् धर्म शीलं च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरं परिभवन्ति च ॥ ४ ॥
मूलम्
प्रधानं साधकं वैद्यम् धर्म शीलं च राक्षस ।
ज्ञातयो ह्यनमन्यन्ते शूरं परिभवन्ति च ॥ ४ ॥
व्याख्या
ज्ञातयः । प्रधानं स्वजातिश्रेष्ठं । – साधनं कार्यसाधकं । वैद्यं विद्वांसं । प्राधान्यादिष्वेकैकगुणयोगेपि ज्ञातयोवमन्यन्ते । न बहु मन्यन्ते अवसरे परिभवन्ति चेत्यर्थः ॥ ४ ॥
विश्वास-प्रस्तुतिः
नित्यमन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्छन्न हृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥
मूलम्
नित्यमन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः ।
प्रच्छन्न हृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥
व्याख्या
एवं ज्ञातीनां ज्ञातिषु व्यसने हर्षः उत्कर्षेऽसूया चेति शीलद्वयमुक्तं । अथ भयावहत्वरूपं शीलान्तरमाह – नित्यमिति ॥ प्रतिच्छन्नहृदयाः गूढाभिप्रायाः । अतएव नित्यमन्योन्यसंहृष्टाः बहिःस्नेहवन्त इवस्थिताः । घोराः क्रूरकर्माणः । अतएव व्यसनेषु सत्सु आततायिनः द्रोहकारिणः । अतस्त्वमस्मासु व्यसने प्रहर्तुमिच्छसीतिभावः ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।
पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ ६ ॥
मूलम्
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।
पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ ६ ॥
व्याख्या
उक्तं ज्ञातीनां भयावहत्वं हस्तिगीतेन संवादयति – श्रूयन्त इत्यादिना ॥ क्वचित्पद्म वने । पाशहस्तान् पाशाः गजग्रहणरज्जवः ते हस्तेषु येषां ते तथोक्तान् । स्वबन्धनोयुक्तानिति यावत् । नरान् ज्ञातिगजगोप्तृन् गजग्राहिपुरुषान् दृष्ट्वा हस्तिभिः गीताः पठिताः । श्लोकाः श्रूयन्ते । वक्तृपरम्परया तान् लोकान् । गदतः वदतः । मम मत्तः । शृणु ॥ ६ ॥
विश्वास-प्रस्तुतिः
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ७ ॥
मूलम्
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ७ ॥
व्याख्या
तानेव त्रीन्श्लोकानुपादत्ते – नाग्निरित्यादिना ॥ नः अस्माकं । अग्निः आश्रयाशोपि न भयावहः । अन्यानि लोकविलक्षणानि अग्नितोपि क्षणान्नाशकराणि । शस्त्राणि आयुधानि च । न भयावहानि । पाशाः मरणादप्यतिदुस्सहपारवश्यक्लेशकराश्च न भयावहाः । किंतु घोराः निर्दयाः । स्वार्थप्रयुक्ताः स्वप्रयोजनपराः । ज्ञातयः भयावहाः । अग्न्यादिभ्योप्यधिकं ज्ञातिभ्यो भयमित्यर्थः ॥ ७ ॥
विश्वास-प्रस्तुतिः
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद्भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥ ८ ॥
मूलम्
उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः ।
कृत्स्नाद्भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥ ८ ॥
व्याख्या
उक्तं ज्ञातिभयातिरेकं सयुक्तिकमुपपादयति — उपायमिति ॥ अस्माकं ग्रहणे एते ज्ञातिरूपा हस्तिनः । उपायं वक्ष्यन्ति । अत्रोपायकथने संशयो नास्ति । अतः कृत्स्नादग्न्यादिभयात् ज्ञातिभयं सुकष्टं । प्रकृष्टं भयमित्यर्थः । इदमस्माभिः विदितं ज्ञातं च ॥ ८ ॥
विश्वास-प्रस्तुतिः
विद्यते गोषु सम्पन्नम् विद्यते ब्राह्मणे दमः ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥ ९ ॥
मूलम्
विद्यते गोषु सम्पन्नम् विद्यते ब्राह्मणे दमः ।
विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥ ९ ॥
व्याख्या
स्निग्धेषु ज्ञातिषु कुतो भयसंभावनेत्याशङ्क्याह – विद्यत इति ॥ गोसंपत्याद्युपादानं दृष्टान्तार्थ । गोषु संपन्नं संपत्तिः । तद्धेतुत्वमित्यर्थः । विद्यते अस्ति । विद सत्तायां इति धातुः । दमः इन्द्रियनिग्रहः । चापल्यं चञ्चलत्वं । ज्ञातितः ज्ञातिषु । भयं भयकरत्वम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततो नेष्टमिदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यमभिजातश्च ज्ञातीनां मूर्ध्न्यवस्थितः ॥ १० ॥
मूलम्
ततो नेष्टमिदम् सौम्य यदहम् लोक सत्कृतः ।
ऐश्वर्यमभिजातश्च ज्ञातीनां मूर्ध्न्यवस्थितः ॥ १० ॥
व्याख्या
प्रधानं साधनमिति श्लोकोक्तं निदर्शयति – तत इति ॥ अहं लोकसत्कृतः ऐश्वर्य अभिजातः प्राप्तः । रिपूणां मूर्ध्न्यवस्थितश्चेतियत् इदं ततः ज्ञातीनामसहिष्णुत्वात् तव नेष्टम् ॥ १० ॥
विश्वास-प्रस्तुतिः
यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्छन्ति तथाऽनार्येषु संगतम् ॥ ११ ॥
मूलम्
यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः ।
न श्लेषमभिगच्छन्ति तथाऽनार्येषु संगतम् ॥ ११ ॥
व्याख्या
चिरं सह वसति विभीषणे कथमकार्यमाशङ्कस इत्यपेक्षायामनार्यस्य चिरसंवासोऽप्रयोजक इत्याह – यथेति ॥ पुष्करपर्णेषु पद्मपत्रेषु पतितास्तोयबिन्दवः यथा श्लेषं ऐक्यं । नोपगच्छन्ति तथा अनार्येषु दुष्टेषु विषये । संगतं संबन्धः । श्लेषं स्नेहबन्धं । नोपयातीत्यर्थः ॥ ११ ॥
विश्वास-प्रस्तुतिः
यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते ।
तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥
[यथा मधुकरस्तर्षात्काशपुष्पम् पिबन्नपि ।
रसमत्र न विन्देत तथाऽनार्येषु सौहृदम्] ॥ १३ ॥
मूलम्
यथा मधुकरस्तर्षाद्रसं विन्दन्न विद्यते ।
तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ १२ ॥
[यथा मधुकरस्तर्षात्काशपुष्पम् पिबन्नपि ।
रसमत्र न विन्देत तथाऽनार्येषु सौहृदम्] ॥ १३ ॥
व्याख्या
त्वदुपजीविनस्त्वयि कथं स्नेहबन्धाभाव इत्यत्राह – यथेति ॥ यथा मधुकरः तर्षात् अभिलाषात् । रसं मकरन्दं । विन्दन् पिबन् । तत्र रसाधारे पुष्पे । न विद्यते न तिष्ठति । रसप्रदानोपकारंजानन् तत्र न स्निह्यतीत्यर्थः । त्वमपि तथा मधुकरइव । अनार्येषु दुर्जनेषु । सौहृदं तथा हि । उपजीव्यविषये न जायतइत्यर्थान्तरन्यासः ॥ १२ – १३ ॥
विश्वास-प्रस्तुतिः
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथाऽनार्येषु सौहृदम् ॥ १४ ॥
मूलम्
यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः ।
दूषयत्यात्मनो देहम् तथाऽनार्येषु सौहृदम् ॥ १४ ॥
व्याख्या
तथापि कृतस्नेहः कुतोपलप्यते तत्राह – यथेति ॥ अनार्येषु सौहृदं गजस्नानवत्तैरेव दुष्यत इत्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ १५ ॥
मूलम्
यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् ।
न भवत्यम्बुसंक्लेदस्तथाऽनार्येषु सौहृदम् ॥ १५ ॥
व्याख्या
दृष्टोपि स्नेहो न फलपर्यवसायीत्याह—यथेति ॥ शरदि सिञ्चतां वर्षतां । मेघानां संबन्धी अम्बुसंक्लेदः अम्बुसेचनं । यथा न भवति तथानार्येषु सौहृदं । शरन्मेघवर्षणवदनार्येषु सौहृदमनुपकारकमित्यर्थः ॥ १५ ॥
विश्वास-प्रस्तुतिः
अन्यस्त्वेवम्विधम् ब्रूयाद्वाक्यमेतन्निशाचर ।
अस्मिन्मुहूर्ते न भवेत्त्वाम् तु धिक्कुलपाम्सनम् ॥ १६ ॥
मूलम्
अन्यस्त्वेवम्विधम् ब्रूयाद्वाक्यमेतन्निशाचर ।
अस्मिन्मुहूर्ते न भवेत्त्वाम् तु धिक्कुलपाम्सनम् ॥ १६ ॥
व्याख्या
एवं सामान्येन विनिन्द्य साक्षादपि निन्दति – अन्य इति ॥ अन्यः अनुजादन्यः । एवंविधं अतिपरुषं । एतत् पूर्वोक्तं । वाक्यं ब्रूयात् वदेत् । अस्मिन्मुहूर्तेस्मिन्क्षणएव । न भवेत् विनश्येत् । नाशयेयमितियावत् । त्वां तु भ्रात्राभासं । धिक् त्यक्ष्यामीत्यर्थः । कुलपांसनं राक्षसकुलावद्यकरम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥ १७ ॥
मूलम्
इत्युक्तः परुषम् वाक्यम् न्यायवादी विभीषणः ।
उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥ १७ ॥
व्याख्या
न्यायवाद्यपि इति पूर्वोक्तरीत्या । परुषमुक्तस्सन् उत्पपात संतप्तसिकतामयंभूमिस्थितइव उद्गतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान्भ्रातरम् राक्षसाधिपम् ॥ १८ ॥
मूलम्
अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः ।
अन्तरिक्षगतः श्रीमान्भ्रातरम् राक्षसाधिपम् ॥ १८ ॥
व्याख्या
एवमाकाशे उत्पतन्नपि पुनस्तस्मिन्ननुतापेनापिनामसमुद्भवेत्समीची मतिरिति हितोपदेशे प्रावर्ततेत्याह — अब्रवीदिति ॥ अन्तरिक्षगतः श्रीमान् । परित्यक्ता मया लङ्का मित्राणि च धनानि च इति समुत्थितस्य का नाम श्रीः । उच्यते । प्रतिकूलनिवृत्तिपूर्वकानुकूलरामविषयाभिमुख्यश्रीसमेत इत्यर्थः ॥ १८ ॥
विश्वास-प्रस्तुतिः
स त्वम् भ्राताऽसि मे राजन्ब्रूहि माम् यद्यदिच्छसि ॥ १९ ॥
मूलम्
स त्वम् भ्राताऽसि मे राजन्ब्रूहि माम् यद्यदिच्छसि ॥ १९ ॥
व्याख्या
स त्वमित्यर्धमेकं वाक्यम् ॥ स त्वं परुषवादी त्वं । भ्रातासि प्रतिवक्तुमनर्होसि । अतो यद्यदिच्छसि तद्वद् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः
इदम् तु परुषम् वाक्यम् न क्षमाम्यनृतं तव ॥ २० ॥
मूलम्
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः
इदम् तु परुषम् वाक्यम् न क्षमाम्यनृतं तव ॥ २० ॥
व्याख्या
तर्हि किमर्थमुद्रतोसि प्रतिवचनाभावात् क्षमापि क्रियतां तत्राह – ज्येष्ठ इति ॥ ज्येष्ठस्त्वं पितृसमः मान्यः । किंतु धर्मपथे न स्थितोसि । अतस्त्वदुक्तमनृतं परुषं न क्षमामि न क्षमे ॥ २० ॥
विश्वास-प्रस्तुतिः
सुनीतम् हित कामेन वाक्यमुक्तम् दशानन ।
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ २१ ॥
मूलम्
सुनीतम् हित कामेन वाक्यमुक्तम् दशानन ।
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ २१ ॥
व्याख्या
स्ववाक्याश्रवणे निमित्तं सामान्यतो दर्शयति – सुनीतमिति ॥ २१ ॥
विश्वास-प्रस्तुतिः
सुलभाः पुरुषा राजन्सततम् प्रिय वादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २२ ॥
मूलम्
सुलभाः पुरुषा राजन्सततम् प्रिय वादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २२ ॥
व्याख्या
प्रियवादिन इत्युपलक्षणं प्रियश्रोतारश्च ॥ २२ ॥
विश्वास-प्रस्तुतिः
बद्धम् कालस्य पाशेन सर्वभूतापहारिणा ।
न नश्यन्तमुपेक्षेयम् प्रदीप्तम् शरणम् यथा ॥ २३ ॥
दीप्तपावकसंकाशैः शितैः कान्चनभूषणैः ।
न त्वामिच्छाम्यहम् द्रष्टुम् रामेण निहतम् शरैः ॥ २४ ॥
मूलम्
बद्धम् कालस्य पाशेन सर्वभूतापहारिणा ।
न नश्यन्तमुपेक्षेयम् प्रदीप्तम् शरणम् यथा ॥ २३ ॥
दीप्तपावकसंकाशैः शितैः कान्चनभूषणैः ।
न त्वामिच्छाम्यहम् द्रष्टुम् रामेण निहतम् शरैः ॥ २४ ॥
व्याख्या
तर्ह्यश्रोतारं प्रति किमर्थं वदसि तत्राह – बद्धमिति ॥ सर्वभूतापहारिणा निर्दयेनेत्यर्थः । नोपेक्षेयं नोपेक्षेय । शरणं गृहम् ॥ २३-२४ ॥
विश्वास-प्रस्तुतिः
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।
कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ २५ ॥
मूलम्
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।
कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ २५ ॥
व्याख्या
शौर्यबलास्रशालिनो मे कुतो विपदाशङ्केत्यत्राह-शूरा इति ॥ कालाभिपन्नाः मृत्युगृहीताः । सीदन्ति शीर्यन्ति । वालुकाः सिकताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्छता ।
आत्मानम् सर्वथा रक्ष पुरीम् चेमाम् सराक्षसाम् ॥ २६ ॥
मूलम्
तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्छता ।
आत्मानम् सर्वथा रक्ष पुरीम् चेमाम् सराक्षसाम् ॥ २६ ॥
व्याख्या
मर्षयतु । भवानितिशेषः ॥ २६ ॥
विश्वास-प्रस्तुतिः
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २७ ॥
[नूनं न ते रावण कश्चिदस्ति रक्षोनिकायेषु सुहृत्सखा वा ।
हितोपदेशस्य स मन्त्रवक्ता यो वातयेत्त्वां स्वयमेव पापात्] ॥ २८ ॥
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशा चर ।
परीतकाला हि गतायुषो नरा हितम् न गृह्णन्ति सुहृद्भिरीरितम् ॥ २९ ॥

स्वस्तीत्यर्ध ॥ २७ – २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥